Regulation for the royal residence
विश्वास-प्रस्तुतिः - 01
01 वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्वारं अनेककक्ष्यापरिगतं अन्तःपुरं कारयेत्
मूलम् - 01
01 वास्तुकप्रशस्ते देशे सप्राकारपरिखाद्वारं अनेककक्ष्यापरिगतं अन्तःपुरं कारयेत्
विश्वास-प्रस्तुतिः - 02
02 कोशगृहविधानेन मध्ये वासगृहं, गूढभित्तिसञ्चारं मोहनगृहं तन्मध्ये वा वासगृहं, भूमिगृहं वाऽऽसन्नचैत्यकाष्ठदेवताऽपिधानद्वारं अनेकसुरुङ्गासञ्चारं तस्य उपरि प्रासादं गूढभित्तिसोपानं सुषिरस्तम्भप्रवेशापसारं वा वासगृहं यन्त्रबद्धतलावपातं कारयेत्, आपत्प्रतीकारार्थं आपदि वा
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 अतोऽन्यथा वा विकल्पयेत्, सहाध्यायिभयात्
मूलम् - 03
03 अतोऽन्यथा वा विकल्पयेत्, सहाध्यायिभयात्
विश्वास-प्रस्तुतिः - 04
04 मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति, न चात्रान्योऽग्निर्ज्वलति, वैद्युतेन भस्मना मृत्सम्युक्तेन करकवारिणाऽवलिप्तं च
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 जीवन्तीश्वेतामुष्ककपुष्पवन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 मयूरनकुलपृषत उत्सर्गः सर्पान् भक्षयति
मूलम् - 06
06 मयूरनकुलपृषत उत्सर्गः सर्पान् भक्षयति
विश्वास-प्रस्तुतिः - 07
07 शुकः सारिका भृङ्गराजो वा सर्पविषशङ्कायां क्रोशति
मूलम् - 07
07 शुकः सारिका भृङ्गराजो वा सर्पविषशङ्कायां क्रोशति
विश्वास-प्रस्तुतिः - 08
08 क्रौञ्चो विषाभ्याशे माद्यति, ग्लायति जीवञ्जीवकः, म्रियते मत्तकोकिलः, चकोरस्याक्षिणी विरज्येते
मूलम् - 08
08 क्रौञ्चो विषाभ्याशे माद्यति, ग्लायति जीवञ्जीवकः, म्रियते मत्तकोकिलः, चकोरस्याक्षिणी विरज्येते
विश्वास-प्रस्तुतिः - 09
09 इत्येवं अग्निविषसर्पेभ्यः प्रतिकुर्वीत
मूलम् - 09
09 इत्येवं अग्निविषसर्पेभ्यः प्रतिकुर्वीत
विश्वास-प्रस्तुतिः - 10
10 पृष्ठतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्याधिसंस्था वृक्ष उदकस्थानं च
मूलम् - 10
10 पृष्ठतः कक्ष्याविभागे स्त्रीनिवेशो गर्भव्याधिसंस्था वृक्ष उदकस्थानं च
विश्वास-प्रस्तुतिः - 11
11 बहिः कन्याकुमारपुरम्
मूलम् - 11
11 बहिः कन्याकुमारपुरम्
विश्वास-प्रस्तुतिः - 12
12 पुरस्ताद् अलङ्कारभूमिर्मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च
मूलम् - 12
12 पुरस्ताद् अलङ्कारभूमिर्मन्त्रभूमिरुपस्थानं कुमाराध्यक्षस्थानं च
विश्वास-प्रस्तुतिः - 13
13 कक्ष्यान्तरेष्वन्तर्वंशिकसैन्यं तिष्ठेत्
मूलम् - 13
13 कक्ष्यान्तरेष्वन्तर्वंशिकसैन्यं तिष्ठेत्
विश्वास-प्रस्तुतिः - 14
14 अन्तर्गृहगतः स्थविरस्त्रीपरिशुद्धां देवीं पश्येत्
मूलम् - 14
14 अन्तर्गृहगतः स्थविरस्त्रीपरिशुद्धां देवीं पश्येत्
विश्वास-प्रस्तुतिः - 15
15 देवीगृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्याऽन्तर्गतश्च पुत्रः कारूषम्
मूलम् - 15
15 देवीगृहे लीनो हि भ्राता भद्रसेनं जघान, मातुः शय्याऽन्तर्गतश्च पुत्रः कारूषम्
विश्वास-प्रस्तुतिः - 16
16 लाजान् मधुना इति विषेण पर्यस्य देवी काशिराजं, विषदिग्धेन नूप्रेण वैरन्त्यं, मेखलामणिना सौवीरं, जालूथं आदर्शेन, वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान
मूलम् - 16

विश्वास-प्रस्तुतिः - 17
17 तस्माद् एतान्यास्पदानि परिहरेत्
मूलम् - 17
17 तस्माद् एतान्यास्पदानि परिहरेत्
विश्वास-प्रस्तुतिः - 18
18 मुण्डजटिलकुहकप्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत्
मूलम् - 18
18 मुण्डजटिलकुहकप्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत्
विश्वास-प्रस्तुतिः - 19
19 न च एनाः कुल्याः पश्येयुः, अन्यत्र गर्भव्याधिसंस्थाभ्यः
मूलम् - 19
19 न च एनाः कुल्याः पश्येयुः, अन्यत्र गर्भव्याधिसंस्थाभ्यः
विश्वास-प्रस्तुतिः - 20
20 रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः परिवर्तितवस्त्रालङ्काराः पश्येयुः
मूलम् - 20
20 रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः परिवर्तितवस्त्रालङ्काराः पश्येयुः
विश्वास-प्रस्तुतिः - 21
21 अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा मातापितृव्यञ्जनाः स्थविरवर्षधराभ्यागारिकाश्चावरोधानां शौचाशौचं विद्युः, स्थापयेयुश्च स्वामिहिते,
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22ab स्वभूमौ च वसेत् सर्वः परभूमौ न सञ्चरेत् ।
22chd न च बाह्येन संसर्गं कश्चिद् आभ्यन्तरो व्रजेत्
मूलम् - 22
22ab स्वभूमौ च वसेत् सर्वः परभूमौ न सञ्चरेत् ।
22chd न च बाह्येन संसर्गं कश्चिद् आभ्यन्तरो व्रजेत्
विश्वास-प्रस्तुतिः - 23
23ab सर्वं चावेक्षितं द्रव्यं निबद्धागमनिर्गमम् ।
23chd निर्गच्छेद् अभिगच्छेद् वा मुद्रासङ्क्रान्तभूमिकम् (इति)
मूलम् - 23