१९

Rules for the king

विश्वास-प्रस्तुतिः - 01

01 राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः

मूलम् - 01

01 राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः

विश्वास-प्रस्तुतिः - 02

02 प्रमाद्यन्तं अनुप्रमाद्यन्ति

मूलम् - 02

02 प्रमाद्यन्तं अनुप्रमाद्यन्ति

विश्वास-प्रस्तुतिः - 03

03 कर्माणि चास्य भक्षयन्ति

मूलम् - 03

03 कर्माणि चास्य भक्षयन्ति

विश्वास-प्रस्तुतिः - 04

04 द्विषद्भिश्चातिसन्धीयते ।

मूलम् - 04

04 द्विषद्भिश्चातिसन्धीयते ।

विश्वास-प्रस्तुतिः - 05

05 तस्माद् उत्थानं आत्मनः कुर्वीत

मूलम् - 05

05 तस्माद् उत्थानं आत्मनः कुर्वीत

विश्वास-प्रस्तुतिः - 06

06 नालिकाभिरहरष्टधा रात्रिं च विभजेत्, छायाप्रमाणेन वा

मूलम् - 06

06 नालिकाभिरहरष्टधा रात्रिं च विभजेत्, छायाप्रमाणेन वा

विश्वास-प्रस्तुतिः - 07

07 त्रिपौरुषी पौरुषी चतुर्ऽङ्गुला नष्टच्छायो मध्याह्न इति चत्वारः पूर्वे दिवसस्याष्टभागाः

मूलम् - 07

07 त्रिपौरुषी पौरुषी चतुर्ऽङ्गुला नष्टच्छायो मध्याह्न इति चत्वारः पूर्वे दिवसस्याष्टभागाः

विश्वास-प्रस्तुतिः - 08

08 तैः पश्चिमा व्याख्याताः

मूलम् - 08

08 तैः पश्चिमा व्याख्याताः

विश्वास-प्रस्तुतिः - 09

09 तत्र पूर्वे दिवसस्याष्टभागे रक्षाविधानं आयव्ययौ च शृणुयात्

मूलम् - 09

09 तत्र पूर्वे दिवसस्याष्टभागे रक्षाविधानं आयव्ययौ च शृणुयात्

विश्वास-प्रस्तुतिः - 10

10 द्वितीये पौरजानपदानां कार्याणि पश्येत्

मूलम् - 10

10 द्वितीये पौरजानपदानां कार्याणि पश्येत्

विश्वास-प्रस्तुतिः - 11

11 तृतीये स्नानभोजनं सेवेत, स्वाध्यायं च कुर्वीत

मूलम् - 11

11 तृतीये स्नानभोजनं सेवेत, स्वाध्यायं च कुर्वीत

विश्वास-प्रस्तुतिः - 12

12 चतुर्थे हिरण्यप्रतिग्रहं अध्यक्षांश्च कुर्वीत

मूलम् - 12

12 चतुर्थे हिरण्यप्रतिग्रहं अध्यक्षांश्च कुर्वीत

विश्वास-प्रस्तुतिः - 13

13 पञ्चमे मन्त्रिपरिषदा पत्त्रसम्प्रेषणेन मन्त्रयेत, चारगुह्यबोधनीयानि च बुध्येत

मूलम् - 13

13 पञ्चमे मन्त्रिपरिषदा पत्त्रसम्प्रेषणेन मन्त्रयेत, चारगुह्यबोधनीयानि च बुध्येत

विश्वास-प्रस्तुतिः - 14

14 षष्ठे स्वैरविहारं मन्त्रं वा सेवेत

मूलम् - 14

14 षष्ठे स्वैरविहारं मन्त्रं वा सेवेत

विश्वास-प्रस्तुतिः - 15

15 सप्तमे हस्त्य्ऽश्वरथायुधीयान् पश्येत्

मूलम् - 15

15 सप्तमे हस्त्य्ऽश्वरथायुधीयान् पश्येत्

विश्वास-प्रस्तुतिः - 16

16 अष्टमे सेनापतिसखो विक्रमं चिन्तयेत्

मूलम् - 16

16 अष्टमे सेनापतिसखो विक्रमं चिन्तयेत्

विश्वास-प्रस्तुतिः - 17

17 प्रतिष्ठितेऽहनि सन्ध्यां उपासीत

मूलम् - 17

17 प्रतिष्ठितेऽहनि सन्ध्यां उपासीत

विश्वास-प्रस्तुतिः - 18

18 प्रथमे रात्रिभागे गूढपुरुषान् पश्येत्

मूलम् - 18

18 प्रथमे रात्रिभागे गूढपुरुषान् पश्येत्

विश्वास-प्रस्तुतिः - 19

19 द्वितीये स्नानभोजनं कुर्वीत, स्वाध्यायं च

मूलम् - 19

19 द्वितीये स्नानभोजनं कुर्वीत, स्वाध्यायं च

विश्वास-प्रस्तुतिः - 20

20 तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत

मूलम् - 20

20 तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत

विश्वास-प्रस्तुतिः - 21

21 षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत्

मूलम् - 21

21 षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत्

विश्वास-प्रस्तुतिः - 22

22 सप्तमे मन्त्रं अध्यासीत, गूढपुरुषांश्च प्रेषयेत्

मूलम् - 22

22 सप्तमे मन्त्रं अध्यासीत, गूढपुरुषांश्च प्रेषयेत्

विश्वास-प्रस्तुतिः - 23

23 अष्टमे ऋत्विग्।आचार्यपुरोहितस्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत्

मूलम् - 23

विश्वास-प्रस्तुतिः - 24

24 सवस्तां धेनुं वृषभं च प्रदक्षिणीकृत्य उपस्थानं गच्छेत्

मूलम् - 24

24 सवस्तां धेनुं वृषभं च प्रदक्षिणीकृत्य उपस्थानं गच्छेत्

विश्वास-प्रस्तुतिः - 25

25 आत्मबलानुकूल्येन वा निशाऽहर्भागान् प्रविभज्य कार्याणि सेवेत

मूलम् - 25

25 आत्मबलानुकूल्येन वा निशाऽहर्भागान् प्रविभज्य कार्याणि सेवेत

विश्वास-प्रस्तुतिः - 26

26 उपस्थानगतः कार्यार्थिनां अद्वारासङ्गं कारयेत्

मूलम् - 26

26 उपस्थानगतः कार्यार्थिनां अद्वारासङ्गं कारयेत्

विश्वास-प्रस्तुतिः - 27

27 दुर्दर्शो हि राजा कार्याकार्यविपर्यासं आसन्नैः कार्यते

मूलम् - 27

27 दुर्दर्शो हि राजा कार्याकार्यविपर्यासं आसन्नैः कार्यते

विश्वास-प्रस्तुतिः - 28

28 तेन प्रकृतिकोपं अरिवशं वा गच्छेत्

मूलम् - 28

28 तेन प्रकृतिकोपं अरिवशं वा गच्छेत्

विश्वास-प्रस्तुतिः - 29

29 तस्माद् देवताऽऽश्रमपाषण्डश्रोत्रियपशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्य्ऽनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्यगौरवाद् आत्ययिकवशेन वा

मूलम् - 29

विश्वास-प्रस्तुतिः - 30

30ab सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ।
30chd कृच्छ्रसाध्यं अतिक्रान्तं असाध्यं वाऽपि जायते

मूलम् - 30

30ab सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ।
30chd कृच्छ्रसाध्यं अतिक्रान्तं असाध्यं वाऽपि जायते

विश्वास-प्रस्तुतिः - 31

31ab अग्न्य्ऽगारगतः कार्यं पश्येद् वैद्यतपस्विनाम् ।
31chd पुरोहिताचार्यसखः प्रत्युत्थायाभिवाद्य च

मूलम् - 31

31ab अग्न्य्ऽगारगतः कार्यं पश्येद् वैद्यतपस्विनाम् ।
31chd पुरोहिताचार्यसखः प्रत्युत्थायाभिवाद्य च

विश्वास-प्रस्तुतिः - 32

32ab तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।
32chd मायायोगविदां चैव न स्वयं कोपकारणात्

मूलम् - 32

32ab तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।
32chd मायायोगविदां चैव न स्वयं कोपकारणात्

विश्वास-प्रस्तुतिः - 33

33ab राज्ञो हि व्रतं उत्थानं यज्ञः कार्यानुशासनम् ।
33chd दक्षिणा वृत्तिसाम्यं तु दीक्षा तस्याभिषेचनम्

मूलम् - 33

विश्वास-प्रस्तुतिः - 34

34ab प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
34chd नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम्

मूलम् - 34

विश्वास-प्रस्तुतिः - 35

35ab तस्मान्नित्य उत्थितो राजा कुर्याद् अर्थानुशासनम् ।
35chd अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः

मूलम् - 35

35ab तस्मान्नित्य उत्थितो राजा कुर्याद् अर्थानुशासनम् ।
35chd अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः

विश्वास-प्रस्तुतिः - 36

36ab अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।
36chd प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदम् (इति)

मूलम् - 36