The conduct of a prince in disfavour
Behaviour towards a prince in disfavour
विश्वास-प्रस्तुतिः - 01
01 विनीतो राजपुत्रः कृच्छ्रवृत्तिरसदृशे कर्मणि नियुक्तः पितरं अनुवर्तेत, अन्यत्र प्राणाबाधकप्रकृतिकोपकपातकेभ्यः
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 पुण्ये कर्मणि नियुक्तः पुरुषं अधिष्ठातारं याचेत्
मूलम् - 02
02 पुण्ये कर्मणि नियुक्तः पुरुषं अधिष्ठातारं याचेत्
विश्वास-प्रस्तुतिः - 03
03 पुरुषाधिष्ठितश्च सविशेषं आदेशं अनुतिष्ठेत्
मूलम् - 03
03 पुरुषाधिष्ठितश्च सविशेषं आदेशं अनुतिष्ठेत्
विश्वास-प्रस्तुतिः - 04
04 अभिरूपं च कर्मफलं औपायनिकं च लाभं पितुरुपनाययेत्
मूलम् - 04
04 अभिरूपं च कर्मफलं औपायनिकं च लाभं पितुरुपनाययेत्
विश्वास-प्रस्तुतिः - 05
05 तथाऽप्यतुष्यन्तं अन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तं अरण्यायापृच्छेत
मूलम् - 05
05 तथाऽप्यतुष्यन्तं अन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तं अरण्यायापृच्छेत
विश्वास-प्रस्तुतिः - 06
06 बन्धवधभयाद् वा यः सामन्तो न्यायवृत्तिर्धार्मिकः सत्यवाग्ऽविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तं आश्रयेत
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 तत्रस्थः कोशदण्डसम्पन्नः प्रवीरपुरुषकन्यासम्बन्धं अटवीसम्बन्धं कृत्यपक्ष उपग्रहं च कुर्यात्
मूलम् - 07
07 तत्रस्थः कोशदण्डसम्पन्नः प्रवीरपुरुषकन्यासम्बन्धं अटवीसम्बन्धं कृत्यपक्ष उपग्रहं च कुर्यात्
विश्वास-प्रस्तुतिः - 08
08 एकचरः सुवर्णपाकमणिरागहेमरूप्यपण्याकरकर्मान्तान् आजीवेत्
मूलम् - 08
08 एकचरः सुवर्णपाकमणिरागहेमरूप्यपण्याकरकर्मान्तान् आजीवेत्
विश्वास-प्रस्तुतिः - 09
09 पाषण्डसङ्घद्रव्यं अश्रोत्रिय उपभोग्यं वा देवद्रव्यं आढ्यविधवाद्रव्यं वा गूढं अनुप्रविश्य सार्थयानपात्राणि च मदनरसयोगेनातिसन्धायापहरेत्
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 पारग्रामिकं वा योगं आतिष्ठेत्
मूलम् - 10
10 पारग्रामिकं वा योगं आतिष्ठेत्
विश्वास-प्रस्तुतिः - 11
11 मातुः परिजन उपग्रहेण वा चेष्टेत
मूलम् - 11
11 मातुः परिजन उपग्रहेण वा चेष्टेत
विश्वास-प्रस्तुतिः - 12
12 कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपाषण्डच्छद्मभिर्
मूलम् - 12
12 कारुशिल्पिकुशीलवचिकित्सकवाग्जीवनपाषण्डच्छद्मभिर्
विश्वास-प्रस्तुतिः - 13
13 अपरुद्धं तु मुख्यपुत्रापसर्पाः प्रतिपाद्यानयेयुः, माता वा प्रतिगृहीता
मूलम् - 13
13 अपरुद्धं तु मुख्यपुत्रापसर्पाः प्रतिपाद्यानयेयुः, माता वा प्रतिगृहीता
विश्वास-प्रस्तुतिः - 14
14 त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः
मूलम् - 14
14 त्यक्तं गूढपुरुषाः शस्त्ररसाभ्यां हन्युः
विश्वास-प्रस्तुतिः - 15
15 अत्यक्तं तुल्यशीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यानयेयुः
मूलम् - 15
15 अत्यक्तं तुल्यशीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यानयेयुः
विश्वास-प्रस्तुतिः - 16
16ab उपस्थितं च राज्येन मद्।ऊर्ध्वं इति सान्त्वयेत् ।
16chd एकस्थं अथ सम्रुन्ध्यात् पुत्रवांः तु प्रवासयेत् (इति)
मूलम् - 16