१७

Guarding against princes

विश्वास-प्रस्तुतिः - 01

01 रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च, पूर्वं दारेभ्यः पुत्रेभ्यश्च

मूलम् - 01

01 रक्षितो राजा राज्यं रक्षत्यासन्नेभ्यः परेभ्यश्च, पूर्वं दारेभ्यः पुत्रेभ्यश्च

विश्वास-प्रस्तुतिः - 02

02 दाररक्षणं निशान्तप्रणिधौ वक्ष्यामः

मूलम् - 02

02 दाररक्षणं निशान्तप्रणिधौ वक्ष्यामः

विश्वास-प्रस्तुतिः - 03

03 पुत्ररक्षणं तु

मूलम् - 03

03 पुत्ररक्षणं तु

विश्वास-प्रस्तुतिः - 04

04 जन्मप्रभृति राजपुत्रान् रक्षेत्

मूलम् - 04

04 जन्मप्रभृति राजपुत्रान् रक्षेत्

विश्वास-प्रस्तुतिः - 05

05 कर्कटकसधर्माणो हि जनकभक्षा राजपुत्राः

मूलम् - 05

05 कर्कटकसधर्माणो हि जनकभक्षा राजपुत्राः

विश्वास-प्रस्तुतिः - 06

06 तेषां अजातस्नेहे पितर्युपांशुदण्डः श्रेयान् इति भारद्वाजः

मूलम् - 06

06 तेषां अजातस्नेहे पितर्युपांशुदण्डः श्रेयान् इति भारद्वाजः

विश्वास-प्रस्तुतिः - 07

07 नृशंसं अदुष्टवधः क्षत्रबीजविनाशश्च इति विशालाक्षः

मूलम् - 07

07 नृशंसं अदुष्टवधः क्षत्रबीजविनाशश्च इति विशालाक्षः

विश्वास-प्रस्तुतिः - 08

08 तस्माद् एकस्थानावरोधः श्रेयान् इति

मूलम् - 08

08 तस्माद् एकस्थानावरोधः श्रेयान् इति

विश्वास-प्रस्तुतिः - 09

09 अहिभयं एतद् इति पाराशराः

मूलम् - 09

09 अहिभयं एतद् इति पाराशराः

विश्वास-प्रस्तुतिः - 10

10 कुमारो हि विक्रमभयान् मां पिताऽवरुणद्धि इति ज्ञात्वा तं एवाङ्के कुर्यात्

मूलम् - 10

10 कुमारो हि विक्रमभयान् मां पिताऽवरुणद्धि इति ज्ञात्वा तं एवाङ्के कुर्यात्

विश्वास-प्रस्तुतिः - 11

11 तस्माद् अन्तपालदुर्गे वासः श्रेयान् इति

मूलम् - 11

11 तस्माद् अन्तपालदुर्गे वासः श्रेयान् इति

विश्वास-प्रस्तुतिः - 12

12 औरभ्रं भयं एतद् इति पिशुनः

मूलम् - 12

12 औरभ्रं भयं एतद् इति पिशुनः

विश्वास-प्रस्तुतिः - 13

13 प्रत्यापत्तेर्हि तद् एव कारणं ज्ञात्वाऽन्तपालसखः स्यात्

मूलम् - 13

13 प्रत्यापत्तेर्हि तद् एव कारणं ज्ञात्वाऽन्तपालसखः स्यात्

विश्वास-प्रस्तुतिः - 14

14 तस्मात् स्वविषयाद् अपकृष्टे सामन्तदुर्गे वासः श्रेयान् इति

मूलम् - 14

14 तस्मात् स्वविषयाद् अपकृष्टे सामन्तदुर्गे वासः श्रेयान् इति

विश्वास-प्रस्तुतिः - 15

15 वत्सस्थानं एतद् इति कौणपदन्तः

मूलम् - 15

15 वत्सस्थानं एतद् इति कौणपदन्तः

विश्वास-प्रस्तुतिः - 16

16 वत्सेन इव हि धेनुं पितरं अस्य सामन्तो दुह्यात्

मूलम् - 16

16 वत्सेन इव हि धेनुं पितरं अस्य सामन्तो दुह्यात्

विश्वास-प्रस्तुतिः - 17

17 तस्मान् मातृबन्धुषु वासः श्रेयान् इति

मूलम् - 17

17 तस्मान् मातृबन्धुषु वासः श्रेयान् इति

विश्वास-प्रस्तुतिः - 18

18 ध्वजस्थानं एतद् इति वातव्याधिः

मूलम् - 18

18 ध्वजस्थानं एतद् इति वातव्याधिः

विश्वास-प्रस्तुतिः - 19

19 तेन हि ध्वजेनादितिकौशिकवद् अस्य मातृबान्धवा भिक्षेरन्

मूलम् - 19

19 तेन हि ध्वजेनादितिकौशिकवद् अस्य मातृबान्धवा भिक्षेरन्

विश्वास-प्रस्तुतिः - 20

20 तस्माद् ग्राम्य सुखेष्वेनं अवसृजेत्

मूलम् - 20

20 तस्माद् ग्राम्य सुखेष्वेनं अवसृजेत्

विश्वास-प्रस्तुतिः - 21

21 सुख उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति इति

मूलम् - 21

21 सुख उपरुद्धा हि पुत्राः पितरं नाभिद्रुह्यन्ति इति

विश्वास-प्रस्तुतिः - 22

22 जीवन्मरणं एतद् इति कौटिल्यः

मूलम् - 22

22 जीवन्मरणं एतद् इति कौटिल्यः

विश्वास-प्रस्तुतिः - 23

23 काष्ठं इव घुणजग्धं राजकुलं अविनीतपुत्रं अभियुक्तमात्रं भज्येत

मूलम् - 23

23 काष्ठं इव घुणजग्धं राजकुलं अविनीतपुत्रं अभियुक्तमात्रं भज्येत

विश्वास-प्रस्तुतिः - 24

24 तस्माद् ऋतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः

मूलम् - 24

24 तस्माद् ऋतुमत्यां महिष्यां ऋत्विजश्चरुं ऐन्द्राबार्हस्पत्यं निर्वपेयुः

विश्वास-प्रस्तुतिः - 25

25 आपन्नसत्त्वायाः कौमारभृत्यो गर्भभर्मणि प्रसवे च वियतेत

मूलम् - 25

25 आपन्नसत्त्वायाः कौमारभृत्यो गर्भभर्मणि प्रसवे च वियतेत

विश्वास-प्रस्तुतिः - 26

26 प्रजातायाः पुत्रसंस्कारं पुरोहितः कुर्यात्

मूलम् - 26

26 प्रजातायाः पुत्रसंस्कारं पुरोहितः कुर्यात्

विश्वास-प्रस्तुतिः - 27

27 समर्थं तद्विदो विनयेयुः

मूलम् - 27

27 समर्थं तद्विदो विनयेयुः

विश्वास-प्रस्तुतिः - 28

28 सत्त्रिणां एकश्च एनं मृगयाद्यूतमद्यस्त्रीभिः प्रलोभयेत् पितरि विक्रम्य राज्यं गृहाण इति

मूलम् - 28

28 सत्त्रिणां एकश्च एनं मृगयाद्यूतमद्यस्त्रीभिः प्रलोभयेत् पितरि विक्रम्य राज्यं गृहाण इति

विश्वास-प्रस्तुतिः - 29

29 तं अन्यः सत्त्री प्रतिषेधयेत् इत्याम्भीयाः

मूलम् - 29

29 तं अन्यः सत्त्री प्रतिषेधयेत् इत्याम्भीयाः

विश्वास-प्रस्तुतिः - 30

30 महादोषं अबुद्धबोधनं इत् कौटिल्यः

मूलम् - 30

30 महादोषं अबुद्धबोधनं इत् कौटिल्यः

विश्वास-प्रस्तुतिः - 31

31 नवं हि द्रव्यं येन येनार्थजातेन उपदिह्यते तत् तद् आचूषति

मूलम् - 31

31 नवं हि द्रव्यं येन येनार्थजातेन उपदिह्यते तत् तद् आचूषति

विश्वास-प्रस्तुतिः - 32

32 एवं अयं नवबुद्धिर्यद् यद् उच्यते तत् तत्शास्त्र उपदेशं इवाभिजानाति

मूलम् - 32

32 एवं अयं नवबुद्धिर्यद् यद् उच्यते तत् तत्शास्त्र उपदेशं इवाभिजानाति

विश्वास-प्रस्तुतिः - 33

33 तस्माद् धर्म्यं अर्थ्यं चास्य उपदिशेन्नाधर्म्यं अनर्थ्यं च

मूलम् - 33

33 तस्माद् धर्म्यं अर्थ्यं चास्य उपदिशेन्नाधर्म्यं अनर्थ्यं च

विश्वास-प्रस्तुतिः - 34

34 सत्त्रिणः त्वेनं तव स्मः इति वदन्तः पालयेयुः

मूलम् - 34

34 सत्त्रिणः त्वेनं तव स्मः इति वदन्तः पालयेयुः

विश्वास-प्रस्तुतिः - 35

35 यौवन उत्सेकात् परस्त्रीषु मनः कुर्वाणं आर्याव्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्यागारेषु रात्रावुद्वेजयेयुः

मूलम् - 35

35 यौवन उत्सेकात् परस्त्रीषु मनः कुर्वाणं आर्याव्यञ्जनाभिः स्त्रीभिरमेध्याभिः शून्यागारेषु रात्रावुद्वेजयेयुः

विश्वास-प्रस्तुतिः - 36

36 मद्यकामं योगपानेन उद्वेजयेयुः

मूलम् - 36

36 मद्यकामं योगपानेन उद्वेजयेयुः

विश्वास-प्रस्तुतिः - 37

37 द्यूतकामं कापटिकैरुद्वेजयेयुः

मूलम् - 37

37 द्यूतकामं कापटिकैरुद्वेजयेयुः

विश्वास-प्रस्तुतिः - 38

38 मृगयाकामं प्रतिरोधकव्यञ्जनैः त्रासयेयुः

मूलम् - 38

38 मृगयाकामं प्रतिरोधकव्यञ्जनैः त्रासयेयुः

विश्वास-प्रस्तुतिः - 39

39 पितरि विक्रमबुद्धिं तथा इत्यनुप्रविश्य भेदयेयुः - अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरकपातः, सङ्क्रोशः, प्रजाभिरेकलोष्टवधश्च इति

मूलम् - 39

39 पितरि विक्रमबुद्धिं तथा इत्यनुप्रविश्य भेदयेयुः - अप्रार्थनीयो राजा, विपन्ने घातः, सम्पन्ने नरकपातः, सङ्क्रोशः, प्रजाभिरेकलोष्टवधश्च इति

विश्वास-प्रस्तुतिः - 40

40 विरागं वेदयेयुः

मूलम् - 40

40 विरागं वेदयेयुः

विश्वास-प्रस्तुतिः - 41

41 प्रियं एकपुत्रं बध्नीयात्

मूलम् - 41

41 प्रियं एकपुत्रं बध्नीयात्

विश्वास-प्रस्तुतिः - 42

42 बहुपुत्रः प्रत्यन्तं अन्यविषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत्

मूलम् - 42

42 बहुपुत्रः प्रत्यन्तं अन्यविषयं वा प्रेषयेद् यत्र गर्भः पण्यं डिम्बो वा न भवेत्

विश्वास-प्रस्तुतिः - 43

43 आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत्

मूलम् - 43

43 आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत्

विश्वास-प्रस्तुतिः - 44

44 बुद्धिमान्।आहार्यबुद्धिर्दुर्बुद्धिरिति पुत्रविशेषाः

मूलम् - 44

44 बुद्धिमान्।आहार्यबुद्धिर्दुर्बुद्धिरिति पुत्रविशेषाः

विश्वास-प्रस्तुतिः - 45

45 शिष्यमाणो धर्मार्थावुपलभते चानुतिष्ठति च बुद्धिमान्

मूलम् - 45

45 शिष्यमाणो धर्मार्थावुपलभते चानुतिष्ठति च बुद्धिमान्

विश्वास-प्रस्तुतिः - 46

46 उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः

मूलम् - 46

46 उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः

विश्वास-प्रस्तुतिः - 47

47 अपायनित्यो धर्मार्थद्वेषी च इति दुर्बुद्धिः

मूलम् - 47

47 अपायनित्यो धर्मार्थद्वेषी च इति दुर्बुद्धिः

विश्वास-प्रस्तुतिः - 48

48 स यद्येकपुत्रः पुत्र उत्पत्तावस्य प्रयतेत

मूलम् - 48

48 स यद्येकपुत्रः पुत्र उत्पत्तावस्य प्रयतेत

विश्वास-प्रस्तुतिः - 49

49 पुत्रिकापुत्रान् उत्पादयेद् वा

मूलम् - 49

49 पुत्रिकापुत्रान् उत्पादयेद् वा

विश्वास-प्रस्तुतिः - 50

50 वृद्धः तु व्याधितो वा राजा मातृबन्धुकुल्यगुणवत्सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत्

मूलम् - 50

50 वृद्धः तु व्याधितो वा राजा मातृबन्धुकुल्यगुणवत्सामन्तानां अन्यतमेन क्षेत्रे बीजं उत्पादयेत्

विश्वास-प्रस्तुतिः - 51

51 न च एकपुत्रं अविनीतं राज्ये स्थापयेत्

मूलम् - 51

51 न च एकपुत्रं अविनीतं राज्ये स्थापयेत्

विश्वास-प्रस्तुतिः - 52

52ab बहूनां एकसम्रोधः पिता पुत्रहितो भवेत् ।
52chd अन्यत्रापद ऐश्वर्यं ज्येष्ठभागि तु पूज्यते

मूलम् - 52

52ab बहूनां एकसम्रोधः पिता पुत्रहितो भवेत् ।
52chd अन्यत्रापद ऐश्वर्यं ज्येष्ठभागि तु पूज्यते

विश्वास-प्रस्तुतिः - 53

53ab कुलस्य वा भवेद् राज्यं कुलसङ्घो हि दुर्जयः ।
53chd अराजव्यसनाबाधः शश्वद् आवसति क्षितिम् (इति)

मूलम् - 53

53ab कुलस्य वा भवेद् राज्यं कुलसङ्घो हि दुर्जयः ।
53chd अराजव्यसनाबाधः शश्वद् आवसति क्षितिम् (इति)