Rules for the envoy
विश्वास-प्रस्तुतिः - 01
01 उद्वृत्तमन्त्रो दूतप्रणिधिः
मूलम् - 01
01 उद्वृत्तमन्त्रो दूतप्रणिधिः
विश्वास-प्रस्तुतिः - 02
02 अमात्यसम्पदा उपेतो निसृष्टार्थः
मूलम् - 02
02 अमात्यसम्पदा उपेतो निसृष्टार्थः
विश्वास-प्रस्तुतिः - 03
03 पादगुणहीनः परिमितार्थः
मूलम् - 03
03 पादगुणहीनः परिमितार्थः
विश्वास-प्रस्तुतिः - 04
04 अर्धगुणहीनः शासनहरः
मूलम् - 04
04 अर्धगुणहीनः शासनहरः
विश्वास-प्रस्तुतिः - 05
05 सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत
मूलम् - 05
05 सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत
विश्वास-प्रस्तुतिः - 06
06 शासनं एवं वाच्यः परः, स वक्ष्यत्येवं, तस्य इदं प्रतिवाक्यं, एवं अतिसन्धातव्यं, इत्यधीयानो गच्छेत्
मूलम् - 06

विश्वास-प्रस्तुतिः - 07
07 अटव्य्ऽन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेत्
मूलम् - 07
07 अटव्य्ऽन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गं गच्छेत्
विश्वास-प्रस्तुतिः - 08
08 अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावेक्षेत
मूलम् - 08
08 अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य चावेक्षेत
विश्वास-प्रस्तुतिः - 09
09 दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि च उपलभेत
मूलम् - 09
09 दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि च उपलभेत
विश्वास-प्रस्तुतिः - 10
10 पराधिष्ठानं अनुज्ञातः प्रविशेत्
मूलम् - 10
10 पराधिष्ठानं अनुज्ञातः प्रविशेत्
विश्वास-प्रस्तुतिः - 11
11 शासनं च यथा उक्तं ब्रूयात्, प्राणाबाधेऽपि दृष्टे
मूलम् - 11
11 शासनं च यथा उक्तं ब्रूयात्, प्राणाबाधेऽपि दृष्टे
विश्वास-प्रस्तुतिः - 12
12 परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्यपूजनं इष्टपरिप्रश्नं गुणकथासङ्गं आसन्नं आसनं सत्कारं इष्टेषु स्मरणं विश्वासगमनं च लक्षयेत् तुष्टस्य, विपरीतं अतुष्टस्य
मूलम् - 12

विश्वास-प्रस्तुतिः - 13
13 तं ब्रूयात् - दूतमुखा हि राजानः, त्वं चान्ये च
मूलम् - 13
13 तं ब्रूयात् - दूतमुखा हि राजानः, त्वं चान्ये च
विश्वास-प्रस्तुतिः - 14
14 तस्माद् उद्यतेष्वपि शस्त्रेषु यथा उक्तं वक्तारो दूताः
मूलम् - 14
14 तस्माद् उद्यतेष्वपि शस्त्रेषु यथा उक्तं वक्तारो दूताः
विश्वास-प्रस्तुतिः - 15
15 तेषां अन्तावसायिनोऽप्यवध्याः, किं अङ्ग पुनर्ब्राह्मणाः
मूलम् - 15
15 तेषां अन्तावसायिनोऽप्यवध्याः, किं अङ्ग पुनर्ब्राह्मणाः
विश्वास-प्रस्तुतिः - 16
16 परस्य एतद् वाक्यम्
मूलम् - 16
16 परस्य एतद् वाक्यम्
विश्वास-प्रस्तुतिः - 17
17 एष दूतधर्मः इति
मूलम् - 17
17 एष दूतधर्मः इति
विश्वास-प्रस्तुतिः - 18
18 वसेद् अविसृष्टः पूजया न उत्सिक्तः
मूलम् - 18
18 वसेद् अविसृष्टः पूजया न उत्सिक्तः
विश्वास-प्रस्तुतिः - 19
19 परेषु बलित्वं न मन्येत
मूलम् - 19
19 परेषु बलित्वं न मन्येत
विश्वास-प्रस्तुतिः - 20
20 वाक्यं अनिष्टं सहेत
मूलम् - 20
20 वाक्यं अनिष्टं सहेत
विश्वास-प्रस्तुतिः - 21
21 स्त्रियः पानं च वर्जयेत्
मूलम् - 21
21 स्त्रियः पानं च वर्जयेत्
विश्वास-प्रस्तुतिः - 22
22 एकः शयीत
मूलम् - 22
22 एकः शयीत
विश्वास-प्रस्तुतिः - 23
23 सुप्तमत्तयोर्हि भावज्ञानं दृष्टम्
मूलम् - 23
23 सुप्तमत्तयोर्हि भावज्ञानं दृष्टम्
विश्वास-प्रस्तुतिः - 24
24 कृत्यपक्ष उपजापं अकृत्यपक्षे गूढप्रणिधानं रागापरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापसवैदेहकव्यञ्जनाभ्यां उपलभेत, तयोरन्तेवासिभिश्चिकित्सकपाषण्डव्यञ्जन उभयवेतनैर्वा
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 तेषां असम्भाषायां याचकमत्त उन्मत्तसुप्तप्रलापैः पुण्यस्थानदेवगृहचित्रलेख्यसञ्ज्ञाभिर्वा चारं उपलभेत
मूलम् - 25

विश्वास-प्रस्तुतिः - 26
26 उपलब्धस्य उपजापं उपेयात्
मूलम् - 26
26 उपलब्धस्य उपजापं उपेयात्
विश्वास-प्रस्तुतिः - 27
27 परेण च उक्तः स्वासां प्रकृतीनां प्रमाणं नाचक्षीत
मूलम् - 27
27 परेण च उक्तः स्वासां प्रकृतीनां प्रमाणं नाचक्षीत
विश्वास-प्रस्तुतिः - 28
28 सर्वं वेद भवान् इति ब्रूयात्, कार्यसिद्धिकरं वा
मूलम् - 28
28 सर्वं वेद भवान् इति ब्रूयात्, कार्यसिद्धिकरं वा
विश्वास-प्रस्तुतिः - 29
29 कार्यस्यासिद्धावुपरुध्यमानः तर्कयेत् - किं भर्तुर्मे व्यसनं आसन्नं पश्यन्, स्वं वा व्यसनं प्रतिकर्तुकामः, पार्ष्णिग्राहं आसारं अन्तःकोपं आटविकं वा समुत्थापयितुकामः, मित्रं आक्रन्दं वा व्याघातयितुकामः, स्वं वा परतो विग्रहं अन्तःकोपं आटविकं वा प्रतिकर्तुकामः, संसिद्धं वा मे भर्तुर्यात्राकालं अभिहन्तुकामः, सस्यपण्यकुप्यसङ्ग्रहं दुर्गकर्म बलसमुद्दानं वा कर्तुकामः, स्वसैन्यानां वा व्यायामस्य देशकालावाकाङ्क्षमाणः, परिभवप्रमादाभ्यां वा, संसर्गानुबन्धार्थी वा, मां उपरुणद्धि इति
मूलम् - 29

विश्वास-प्रस्तुतिः - 30
30 ज्ञात्वा वसेद् अपसरेद् वा
मूलम् - 30
30 ज्ञात्वा वसेद् अपसरेद् वा
विश्वास-प्रस्तुतिः - 31
31 प्रयोजनं इष्टं अवेक्षेत वा
मूलम् - 31
31 प्रयोजनं इष्टं अवेक्षेत वा
विश्वास-प्रस्तुतिः - 32
32 शासनं अनिष्टं उक्त्वा बन्धवधभयाद् अविसृष्टोऽप्यपगच्छेत्, अन्यथा नियम्येत
मूलम् - 32
32 शासनं अनिष्टं उक्त्वा बन्धवधभयाद् अविसृष्टोऽप्यपगच्छेत्, अन्यथा नियम्येत
विश्वास-प्रस्तुतिः - 33
33ab प्रेषणं सन्धिपालत्वं प्रतापो मित्रसङ्ग्रहः ।
33chd उपजापः सुहृद्भेदो गूढदण्डातिसारणम्
मूलम् - 33
33ab प्रेषणं सन्धिपालत्वं प्रतापो मित्रसङ्ग्रहः ।
33chd उपजापः सुहृद्भेदो गूढदण्डातिसारणम्
विश्वास-प्रस्तुतिः - 34
34ab बन्धुरत्नापहरणं चारज्ञानं पराक्रमः ।
34chd समाधिमोक्षो दूतस्य कर्म योगस्य चाश्रयः
मूलम् - 34
34ab बन्धुरत्नापहरणं चारज्ञानं पराक्रमः ।
34chd समाधिमोक्षो दूतस्य कर्म योगस्य चाश्रयः
विश्वास-प्रस्तुतिः - 35
35ab स्वदूतैः कारयेद् एतत् परदूतांश्च रक्षयेत् ।
35chd प्रतिदूतापसर्पाभ्यां दृश्यादृश्यैश्च रक्षिभिः (इति)
मूलम् - 35