The topic of counsel
विश्वास-प्रस्तुतिः - 01
01 कृतस्वपक्षपरपक्ष उपग्रहः कार्यारम्भांश्चिन्तयेत्
मूलम् - 01
01 कृतस्वपक्षपरपक्ष उपग्रहः कार्यारम्भांश्चिन्तयेत्
विश्वास-प्रस्तुतिः - 02
02 मन्त्रपूर्वाः सर्वारम्भाः
मूलम् - 02
02 मन्त्रपूर्वाः सर्वारम्भाः
विश्वास-प्रस्तुतिः - 03
03 तद्।उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् ।
मूलम् - 03
03 तद्।उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् ।
विश्वास-प्रस्तुतिः - 04
04 श्रूयते हि शुकसारिकाभिर्मन्त्रो भिन्नः, श्वभिरप्यन्यैश्च तिर्यग्योनिभिरिति
मूलम् - 04
04 श्रूयते हि शुकसारिकाभिर्मन्त्रो भिन्नः, श्वभिरप्यन्यैश्च तिर्यग्योनिभिरिति
विश्वास-प्रस्तुतिः - 05
05 तस्मान् मन्त्र उद्देशं अनायुक्तो न उपगच्छेत्
मूलम् - 05
05 तस्मान् मन्त्र उद्देशं अनायुक्तो न उपगच्छेत्
विश्वास-प्रस्तुतिः - 06
06 उच्छिद्येत मन्त्रभेदी
मूलम् - 06
06 उच्छिद्येत मन्त्रभेदी
विश्वास-प्रस्तुतिः - 07
07 मन्त्रभेदो हि दूतामात्यस्वामिनां इङ्गिताकाराभ्याम्
मूलम् - 07
07 मन्त्रभेदो हि दूतामात्यस्वामिनां इङ्गिताकाराभ्याम्
विश्वास-प्रस्तुतिः - 08
08 इङ्गितं अन्यथावृत्तिः
मूलम् - 08
08 इङ्गितं अन्यथावृत्तिः
विश्वास-प्रस्तुतिः - 09
09 आकृतिग्रहणं आकारः
मूलम् - 09
09 आकृतिग्रहणं आकारः
विश्वास-प्रस्तुतिः - 10
10 तस्य संवरणं आयुक्तपुरुषरक्षणं आकार्यकालाद् इति
मूलम् - 10
10 तस्य संवरणं आयुक्तपुरुषरक्षणं आकार्यकालाद् इति
विश्वास-प्रस्तुतिः - 11
11 तेषां हि प्रमादमदसुप्तप्रलापाः, कामादिरुत्सेकः, प्रच्छन्नोऽवमतो वा मन्त्रं भिनत्ति
मूलम् - 11
11 तेषां हि प्रमादमदसुप्तप्रलापाः, कामादिरुत्सेकः, प्रच्छन्नोऽवमतो वा मन्त्रं भिनत्ति
विश्वास-प्रस्तुतिः - 12
12 तस्माद् आद्रक्षेन् मन्त्रम्
मूलम् - 12
12 तस्माद् आद्रक्षेन् मन्त्रम्
विश्वास-प्रस्तुतिः - 13
13 मन्त्रभेदो ह्ययोगक्षेमकरो राज्ञः तद्।आयुक्तपुरुषाणां च
मूलम् - 13
13 मन्त्रभेदो ह्ययोगक्षेमकरो राज्ञः तद्।आयुक्तपुरुषाणां च
विश्वास-प्रस्तुतिः - 14
14 तस्माद् गुह्यं एको मन्त्रयेत इति भारद्वाजः
मूलम् - 14
14 तस्माद् गुह्यं एको मन्त्रयेत इति भारद्वाजः
विश्वास-प्रस्तुतिः - 15
15 मन्त्रिणां अपि हि मन्त्रिणो भवन्ति, तेषां अप्यन्ये
मूलम् - 15
15 मन्त्रिणां अपि हि मन्त्रिणो भवन्ति, तेषां अप्यन्ये
विश्वास-प्रस्तुतिः - 16
16 सा एषा मन्त्रिपरम्परा मन्त्रं भिनत्ति
मूलम् - 16
16 सा एषा मन्त्रिपरम्परा मन्त्रं भिनत्ति
विश्वास-प्रस्तुतिः - 17
17ab तस्मान्नास्य परे विद्युः कर्म किञ्चिच्चिकीर्षितम् ।
17chd आरब्धारः तु जानीयुरारब्धं कृतं एव वा
मूलम् - 17
17ab तस्मान्नास्य परे विद्युः कर्म किञ्चिच्चिकीर्षितम् ।
17chd आरब्धारः तु जानीयुरारब्धं कृतं एव वा
विश्वास-प्रस्तुतिः - 18
18 न एकस्य मन्त्रसिद्धिरस्ति इति विशालाक्षः
मूलम् - 18
18 न एकस्य मन्त्रसिद्धिरस्ति इति विशालाक्षः
विश्वास-प्रस्तुतिः - 19
19 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः
मूलम् - 19
19 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः
विश्वास-प्रस्तुतिः - 20
20 अनुपलब्धस्य ज्ञानं उपलब्धस्य निश्चितबलाधानं अर्थद्वैधस्य संशयच्छेदनं एकदेशदृष्टस्य शेष उपलब्धिरिति मन्त्रिसाध्यं एतत्
मूलम् - 20

विश्वास-प्रस्तुतिः - 21
21 तस्माद् बुद्धिवृद्धैः सार्धं अध्यासीत मन्त्रम्
मूलम् - 21
21 तस्माद् बुद्धिवृद्धैः सार्धं अध्यासीत मन्त्रम्
विश्वास-प्रस्तुतिः - 22
22ab न कञ्चिद् अवमन्येत सर्वस्य शृणुयान् मतम् ।
22chd बालस्याप्यर्थवद्वाक्यं उपयुञ्जीत पण्डितः ।
मूलम् - 22
22ab न कञ्चिद् अवमन्येत सर्वस्य शृणुयान् मतम् ।
22chd बालस्याप्यर्थवद्वाक्यं उपयुञ्जीत पण्डितः ।
विश्वास-प्रस्तुतिः - 23
23 एतन् मन्त्रज्ञानं, न एतन् मन्त्ररक्षणम् इति पाराशराः
मूलम् - 23
23 एतन् मन्त्रज्ञानं, न एतन् मन्त्ररक्षणम् इति पाराशराः
विश्वास-प्रस्तुतिः - 24
24 यद् अस्य कार्यं अभिप्रेतं तत्प्रतिरूपकं मन्त्रिणः पृच्छेत् - कार्यं इदं एवं आसीत्, एवं वा यदि भवेत्, तत् कथं कर्तव्यम् इति
मूलम् - 24

विश्वास-प्रस्तुतिः - 25
25 ते यथा ब्रूयुः तत् कुर्यात्
मूलम् - 25
25 ते यथा ब्रूयुः तत् कुर्यात्
विश्वास-प्रस्तुतिः - 26
26 एवं मन्त्र उपलब्धिः संवृतिश्च भवति इति
मूलम् - 26
26 एवं मन्त्र उपलब्धिः संवृतिश्च भवति इति
विश्वास-प्रस्तुतिः - 27
27 न इति पिशुनः
मूलम् - 27
27 न इति पिशुनः
विश्वास-प्रस्तुतिः - 28
28 मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा
मूलम् - 28
28 मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा
विश्वास-प्रस्तुतिः - 29
29 स दोषः
मूलम् - 29
29 स दोषः
विश्वास-प्रस्तुतिः - 30
30 तस्मात् कर्मसु ये येष्वभिप्रेताः तैः सह मन्त्रयेत
मूलम् - 30
30 तस्मात् कर्मसु ये येष्वभिप्रेताः तैः सह मन्त्रयेत
विश्वास-प्रस्तुतिः - 31
31 तैर्मन्त्रयमाणो हि मन्त्रसिद्धिं गुप्तिं च लभते इति
मूलम् - 31
31 तैर्मन्त्रयमाणो हि मन्त्रसिद्धिं गुप्तिं च लभते इति
विश्वास-प्रस्तुतिः - 32
32 न इति कौटिल्यः
मूलम् - 32
32 न इति कौटिल्यः
विश्वास-प्रस्तुतिः - 33
33 अनवस्था ह्येषा
मूलम् - 33
33 अनवस्था ह्येषा
विश्वास-प्रस्तुतिः - 34
34 मन्त्रिभिः त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत
मूलम् - 34
34 मन्त्रिभिः त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत
विश्वास-प्रस्तुतिः - 35
35 मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्चयं नाधिगच्छेत्
मूलम् - 35
35 मन्त्रयमाणो ह्येकेनार्थकृच्छ्रेषु निश्चयं नाधिगच्छेत्
विश्वास-प्रस्तुतिः - 36
36 एकश्च मन्त्री यथा इष्टं अनवग्रहश्चरति
मूलम् - 36
36 एकश्च मन्त्री यथा इष्टं अनवग्रहश्चरति
विश्वास-प्रस्तुतिः - 37
37 द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते, विगृहीताभ्यां विनाश्यते
मूलम् - 37
37 द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते, विगृहीताभ्यां विनाश्यते
विश्वास-प्रस्तुतिः - 38
38 तत् त्रिषु चतुषु वा कृच्छ्रेण उपपद्यते
मूलम् - 38
38 तत् त्रिषु चतुषु वा कृच्छ्रेण उपपद्यते
विश्वास-प्रस्तुतिः - 39
39 महादोषं उपपन्नं तु भवति
मूलम् - 39
39 महादोषं उपपन्नं तु भवति
विश्वास-प्रस्तुतिः - 40
40 ततः परेषु कृच्छ्रेणार्थनिश्चयो गम्यते, मन्त्रो वा रक्ष्यते
मूलम् - 40
40 ततः परेषु कृच्छ्रेणार्थनिश्चयो गम्यते, मन्त्रो वा रक्ष्यते
विश्वास-प्रस्तुतिः - 41
41 देशकालकार्यवशेन त्वेकेन सह द्वाभ्यां एको वा यथासामर्थ्यं मन्त्रयेत alterNative views approved
मूलम् - 41
41 देशकालकार्यवशेन त्वेकेन सह द्वाभ्यां एको वा यथासामर्थ्यं मन्त्रयेत alterNative views approved
विश्वास-प्रस्तुतिः - 42
42 कर्मणां आरम्भ उपायः पुरुषद्रव्यसम्पद् देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिरिति पञ्चाङ्गो मन्त्रः
मूलम् - 42

विश्वास-प्रस्तुतिः - 43
43 तान् एकैकशः पृच्छेत् समस्तांश्च
मूलम् - 43
43 तान् एकैकशः पृच्छेत् समस्तांश्च
विश्वास-प्रस्तुतिः - 44
44 हेतुभिश्च एषां मतिप्रविवेकान् विद्यात्
मूलम् - 44
44 हेतुभिश्च एषां मतिप्रविवेकान् विद्यात्
विश्वास-प्रस्तुतिः - 45
45 अवाप्तार्थः कालं नातिक्रामयेत्
मूलम् - 45
45 अवाप्तार्थः कालं नातिक्रामयेत्
विश्वास-प्रस्तुतिः - 46
46 न दीर्घकालं मन्त्रयेत, न तेषां पक्षीयैर्येषां अपकुर्यात्
मूलम् - 46
46 न दीर्घकालं मन्त्रयेत, न तेषां पक्षीयैर्येषां अपकुर्यात्
विश्वास-प्रस्तुतिः - 47
47 मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः
मूलम् - 47
47 मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः
विश्वास-प्रस्तुतिः - 48
48 षोडश इति बार्हस्पत्याः
मूलम् - 48
48 षोडश इति बार्हस्पत्याः
विश्वास-प्रस्तुतिः - 49
49 विंशतिम् इत्यौशनसाः
मूलम् - 49
49 विंशतिम् इत्यौशनसाः
विश्वास-प्रस्तुतिः - 50
50 यथासामर्थ्यं इति कौटिल्यः
मूलम् - 50
50 यथासामर्थ्यं इति कौटिल्यः
विश्वास-प्रस्तुतिः - 51
51 ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः
मूलम् - 51
51 ते ह्यस्य स्वपक्षं परपक्षं च चिन्तयेयुः
विश्वास-प्रस्तुतिः - 52
52 अकृतारम्भं आरब्धानुष्ठानं अनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः
मूलम् - 52
52 अकृतारम्भं आरब्धानुष्ठानं अनुष्ठितविशेषं नियोगसम्पदं च कर्मणां कुर्युः
विश्वास-प्रस्तुतिः - 53
53 आसन्नैः सह कर्माणि पश्येत्
मूलम् - 53
53 आसन्नैः सह कर्माणि पश्येत्
विश्वास-प्रस्तुतिः - 54
54 अनासन्नैः सह पत्त्रसम्प्रेषणेन मन्त्रयेत
मूलम् - 54
54 अनासन्नैः सह पत्त्रसम्प्रेषणेन मन्त्रयेत
विश्वास-प्रस्तुतिः - 55
55 इन्द्रस्य हि मन्त्रिपरिषद्।ऋषीणां सहस्रम्
मूलम् - 55
55 इन्द्रस्य हि मन्त्रिपरिषद्।ऋषीणां सहस्रम्
विश्वास-प्रस्तुतिः - 56
56 स तच्चक्षुः
मूलम् - 56
56 स तच्चक्षुः
विश्वास-प्रस्तुतिः - 57
57 तस्माद् इमं द्व्य्ऽक्षं सहस्राक्षं आहुः
मूलम् - 57
57 तस्माद् इमं द्व्य्ऽक्षं सहस्राक्षं आहुः
विश्वास-प्रस्तुतिः - 58
58 आत्ययिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात्
मूलम् - 58
58 आत्ययिके कार्ये मन्त्रिणो मन्त्रिपरिषदं चाहूय ब्रूयात्
विश्वास-प्रस्तुतिः - 59
59 तत्र यद्भूयिष्ठा ब्रूयुः कार्यसिद्धिकरं वा तत् कुर्यात्
मूलम् - 59
59 तत्र यद्भूयिष्ठा ब्रूयुः कार्यसिद्धिकरं वा तत् कुर्यात्
विश्वास-प्रस्तुतिः - 60
60 कुर्वतश्च
60ab नास्य गुह्यं परे विद्युश्छिद्रं विद्यात् परस्य च ।
60chd गूहेत् कूर्म इवाङ्गानि यत् स्याद् विवृतं आत्मनः
मूलम् - 60

विश्वास-प्रस्तुतिः - 61
61ab यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुं अर्हति ।
61chd एवं अश्रुतशास्त्रार्थो न मन्त्रं श्रोतुं अर्हति (इति)
मूलम् - 61