Winning over the seducible and non-seducible parties in the enemy territory
विश्वास-प्रस्तुतिः - 01
01 कृत्याकृत्यपक्ष उपग्रहः स्वविषये व्याख्यातः, परविषये वाच्यः
मूलम् - 01
01 कृत्याकृत्यपक्ष उपग्रहः स्वविषये व्याख्यातः, परविषये वाच्यः
विश्वास-प्रस्तुतिः - 02
02 संश्रुत्यार्थान् विप्रलब्धः, तुल्यकारिणोः शिल्पे वा उपकारे वा विमानितः, वल्लभावरुद्धः,
मूलम् - 02
02 संश्रुत्यार्थान् विप्रलब्धः, तुल्यकारिणोः शिल्पे वा उपकारे वा विमानितः, वल्लभावरुद्धः,
विश्वास-प्रस्तुतिः - 03
03 स्वयं उपहतः, विप्रकृतः, पापकर्माभिख्यातः, तुल्यदोषदण्डेन उद्विग्नः, पर्यात्तभूमिः, दण्डेन उपनतः, सर्वाधिकरणस्थः, सहसा उपचितार्थः, तत्कुलीन उपाशंसुः, प्रद्विष्टो राज्ञा, राजद्वेषी च - इति भीतवर्गः
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 परिक्षीणः, अन्यात्तस्वः, कदर्यः, व्यसनी, अत्याहितव्यवहारश्च - इति लुब्धवर्गः
मूलम् - 04
04 परिक्षीणः, अन्यात्तस्वः, कदर्यः, व्यसनी, अत्याहितव्यवहारश्च - इति लुब्धवर्गः
विश्वास-प्रस्तुतिः - 05
05 आत्मसम्भावितः, मानकामः, शत्रुपूजाऽमर्षितः, नीचैरुपहितः, तीक्ष्णः, साहसिकः, भोगेनासन्तुष्टः - इति मानिवर्गः
मूलम् - 05

विश्वास-प्रस्तुतिः - 06
06 तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयः तं तेन उपजापयेत्
मूलम् - 06
06 तेषां मुण्डजटिलव्यञ्जनैर्यो यद्भक्तिः कृत्यपक्षीयः तं तेन उपजापयेत्
विश्वास-प्रस्तुतिः - 07
07 यथा मदान्धो हस्ती मत्तेनाधिष्ठितो यद् यद् आसादयति तत् सर्वं प्रमृद्नाति, एवं अयं अशास्त्रचक्षुरन्धो राजा पौरजानपदवधायाभ्युत्थितः, शक्यं अस्य प्रतिहस्तिप्रोत्साहनेनापकर्तुं, अमर्षः क्रियताम् इति क्रुद्धवर्गं उपजापयेत्
मूलम् - 07

विश्वास-प्रस्तुतिः - 08
08 यथा लीनः सर्पो यस्माद् भयं पश्यति तत्र विषं उत्सृजति, एवं अयं राजा जातदोषाशङ्कः त्वयि पुरा क्रोधविषं उत्सृजति, अन्यत्र गम्यताम् इति भीतवर्गं।उपजापयेत्
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 यथा श्वगणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः, एवं अयं राजा सत्त्वप्रज्ञावाक्यशक्तिहीनेभ्यो दुह्यते नात्मगुणसम्पन्नेभ्यः, असौ राजा पुरुषविशेषज्ञः, तत्र गम्यताम् इति लुब्धवर्गं।उपजापयेत्
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 यथा चण्डाल उदपानश्चण्डालानां एव उपभोग्यो नान्येषां, एवं अयं राजा नीचो नीचानां एव उपभोग्यो न त्वद्विधानां आर्याणां, असौ राजा पुरुषविशेषज्ञः, तत्र गम्यताम् इति मानिवर्गं उपजापयेत्
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11ab तथा इति प्रतिपन्नांः तान् संहितान् पणकर्मणा ।
11chd योजयेत यथाशक्ति स-अपसर्पान् स्वकर्मसु
मूलम् - 11
11ab तथा इति प्रतिपन्नांः तान् संहितान् पणकर्मणा ।
11chd योजयेत यथाशक्ति स-अपसर्पान् स्वकर्मसु
विश्वास-प्रस्तुतिः - 12
12ab लभेत सामदानाभ्यां कृत्यांश्च परभूमिषु ।
12chd अकृत्यान् भेददण्डाभ्यां परदोषांश्च दर्शयन् (इति)
मूलम् - 12