१३

keeping a watch over the seducible and non-seducible parties in ones own territory

विश्वास-प्रस्तुतिः - 01

01 कृतमहामात्रापसर्पः पौरजानपदान् अपसर्पयेत्

मूलम् - 01

01 कृतमहामात्रापसर्पः पौरजानपदान् अपसर्पयेत्

विश्वास-प्रस्तुतिः - 02

02 सत्त्रिणो द्वन्द्विनः तीर्थसभापूगजनसमवायेषु विवादं कुर्युः

मूलम् - 02

02 सत्त्रिणो द्वन्द्विनः तीर्थसभापूगजनसमवायेषु विवादं कुर्युः

विश्वास-प्रस्तुतिः - 03

03 सर्वगुणसम्पन्नश्चायं राजा श्रूयते, न चास्य कश्चिद् गुणो दृश्यते यः पौरजानपदान् दण्डकराभ्यां पीडयति इति

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 तत्र येऽनुप्रशंसेयुः तान् इतरः तं च प्रतिषेधयेत्

मूलम् - 04

04 तत्र येऽनुप्रशंसेयुः तान् इतरः तं च प्रतिषेधयेत्

विश्वास-प्रस्तुतिः - 05

05 मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे

मूलम् - 05

05 मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे

विश्वास-प्रस्तुतिः - 06

06 धान्यषड्भागं पण्यदशभागं हिरण्यं चास्य भागधेयं प्रकल्पयाम्-आसुः

मूलम् - 06

06 धान्यषड्भागं पण्यदशभागं हिरण्यं चास्य भागधेयं प्रकल्पयाम्-आसुः

विश्वास-प्रस्तुतिः - 07

07 तेन भृता राजानः प्रजानां योगक्षेमावहाः

मूलम् - 07

07 तेन भृता राजानः प्रजानां योगक्षेमावहाः

विश्वास-प्रस्तुतिः - 08

08 तेषां किल्बिषं अदण्डकरा हरन्त्ययोगक्षेमावहाश्च प्रजानाम्

मूलम् - 08

08 तेषां किल्बिषं अदण्डकरा हरन्त्ययोगक्षेमावहाश्च प्रजानाम्

विश्वास-प्रस्तुतिः - 09

09 तस्माद् उञ्छषड्भागं आरण्यकाऽपि निर्वपन्ति - तस्य एतद् भागधेयं योऽस्मान् गोपायति इति

मूलम् - 09

09 तस्माद् उञ्छषड्भागं आरण्यकाऽपि निर्वपन्ति - तस्य एतद् भागधेयं योऽस्मान् गोपायति इति

विश्वास-प्रस्तुतिः - 10

10 इन्द्रयमस्थानं एतद् राजानः प्रत्यक्षहेडप्रसादाः

मूलम् - 10

10 इन्द्रयमस्थानं एतद् राजानः प्रत्यक्षहेडप्रसादाः

विश्वास-प्रस्तुतिः - 11

11 तान् अवमन्यमानान् दैवोऽपि दण्डः स्पृशति

मूलम् - 11

11 तान् अवमन्यमानान् दैवोऽपि दण्डः स्पृशति

विश्वास-प्रस्तुतिः - 12

12 तस्माद् राजानो नावमन्तव्याः

मूलम् - 12

12 तस्माद् राजानो नावमन्तव्याः

विश्वास-प्रस्तुतिः - 13

13 इत्येवं क्षुद्रकान् प्रतिषेधयेत्

मूलम् - 13

13 इत्येवं क्षुद्रकान् प्रतिषेधयेत्

विश्वास-प्रस्तुतिः - 14

14 किंवदन्तीं च विद्युः

मूलम् - 14

14 किंवदन्तीं च विद्युः

विश्वास-प्रस्तुतिः - 15

15 ये चास्य धान्यपशुहिरण्यान्याजीवन्ति, तैरुपकुर्वन्ति व्यसनेऽभ्युदये वा, कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति, अमित्रं आटविकं वा प्रतिषेधयन्ति, तेषां मुण्डजटिलव्यञ्जनाः तुष्टातुष्टत्वं विद्युः

मूलम् - 15

विश्वास-प्रस्तुतिः - 16

16 तुष्टान् भूयोऽर्थमानाभ्यां पूजयेत्

मूलम् - 16

16 तुष्टान् भूयोऽर्थमानाभ्यां पूजयेत्

विश्वास-प्रस्तुतिः - 17

17 अतुष्टांः तुष्टिहेतोः त्यागेन साम्ना च प्रसादयेत्

मूलम् - 17

17 अतुष्टांः तुष्टिहेतोः त्यागेन साम्ना च प्रसादयेत्

विश्वास-प्रस्तुतिः - 18

18 परस्पराद् वा भेदयेद् एनान्, सामन्ताटविकतत्कुलीनापरुद्धेभ्यश्च

मूलम् - 18

18 परस्पराद् वा भेदयेद् एनान्, सामन्ताटविकतत्कुलीनापरुद्धेभ्यश्च

विश्वास-प्रस्तुतिः - 19

19 तथाऽप्यतुष्यतो दण्डकरसाधनाधिकारेण जनपदविद्वेषं ग्राहयेत्

मूलम् - 19

19 तथाऽप्यतुष्यतो दण्डकरसाधनाधिकारेण जनपदविद्वेषं ग्राहयेत्

विश्वास-प्रस्तुतिः - 20

20 विविष्टान् उपांशुदण्डेन जनपदकोपेन वा साधयेत्

मूलम् - 20

20 विविष्टान् उपांशुदण्डेन जनपदकोपेन वा साधयेत्

विश्वास-प्रस्तुतिः - 21

21 गुप्तपुत्रदारान् आकरकर्मान्तेषु वा वासयेत् परेषां आस्पदभयात्

मूलम् - 21

21 गुप्तपुत्रदारान् आकरकर्मान्तेषु वा वासयेत् परेषां आस्पदभयात्

विश्वास-प्रस्तुतिः - 22

22 क्रुद्धलुब्धभीतमानिनः तु परेषां कृत्याः

मूलम् - 22

22 क्रुद्धलुब्धभीतमानिनः तु परेषां कृत्याः

विश्वास-प्रस्तुतिः - 23

23 तेषां कार्तान्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्पराभिसम्बन्धं अमित्राटविकसम्बन्धं वा विद्युः

मूलम् - 23

23 तेषां कार्तान्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्पराभिसम्बन्धं अमित्राटविकसम्बन्धं वा विद्युः

विश्वास-प्रस्तुतिः - 24

24 तुष्टान् अर्थमानाभ्यां पूजयेत् ।

मूलम् - 24

24 तुष्टान् अर्थमानाभ्यां पूजयेत् ।

विश्वास-प्रस्तुतिः - 25

25 अतुष्टान् सामदानभेददण्डैः साधयेत्

मूलम् - 25

25 अतुष्टान् सामदानभेददण्डैः साधयेत्

विश्वास-प्रस्तुतिः - 26

26ab एवं स्वविषये कृत्यान् अकृत्यांश्च विचक्षणः ।
26chd पर उपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् अपि (इति)

मूलम् - 26