Appointment of roving spies Rules for secret servants
विश्वास-प्रस्तुतिः - 01
01 ये चाप्यस्मबन्धिनो अवश्यभर्तव्याः ते लक्षणं अङ्गविद्यां जम्भकविद्यां मायागतं आश्रमधर्मं निमित्तं अन्तरचक्रं इत्यधीयानाः सत्त्रिणः, संसर्गविद्यां च
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 ये जनपदे शूराः त्यक्तात्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुः ते तीक्ष्णाः
मूलम् - 02
02 ये जनपदे शूराः त्यक्तात्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुः ते तीक्ष्णाः
विश्वास-प्रस्तुतिः - 03
03 ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः
मूलम् - 03
03 ये बन्धुषु निह्स्नेहाः क्रूरा अलसाश्च ते रसदाः
विश्वास-प्रस्तुतिः - 04
04 परिव्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्यन्तःपुरे कृतसत्कारा महामात्रकुलान्यभिगच्छेत्
मूलम् - 04

विश्वास-प्रस्तुतिः - 05
05 एतया मुण्डा वृषल्यो व्याख्याताः इति सञ्चाराः ।
मूलम् - 05
05 एतया मुण्डा वृषल्यो व्याख्याताः इति सञ्चाराः ।
विश्वास-प्रस्तुतिः - 06
06 तान् राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वंशिकप्रशास्तृ
मूलम् - 06
06 तान् राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वंशिकप्रशास्तृ
विश्वास-प्रस्तुतिः - 07
07 तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहन उपग्राहिणः तीक्ष्णा विद्युः
मूलम् - 07
07 तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहन उपग्राहिणः तीक्ष्णा विद्युः
विश्वास-प्रस्तुतिः - 08
08 तं सत्त्रिणः संस्थास्वर्पयेयुः
मूलम् - 08
08 तं सत्त्रिणः संस्थास्वर्पयेयुः
विश्वास-प्रस्तुतिः - 09
09 सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधक उदकपरिचारका रसदाः
मूलम् - 09
09 सूदारालिकस्नापकसंवाहकास्तरककल्पकप्रसाधक उदकपरिचारका रसदाः
विश्वास-प्रस्तुतिः - 10
10 तं भिक्ष्क्यः संस्थास्वप्रयेयुः
मूलम् - 10
10 तं भिक्ष्क्यः संस्थास्वप्रयेयुः
विश्वास-प्रस्तुतिः - 11
11 संस्थानां अन्तेवासिनः सञ्ज्ञालिपिभिश्चारसञ्चारं कुर्युः
मूलम् - 11
11 संस्थानां अन्तेवासिनः सञ्ज्ञालिपिभिश्चारसञ्चारं कुर्युः
विश्वास-प्रस्तुतिः - 12
12 न चान्योन्यं संस्थाः ते वा विद्युः
मूलम् - 12
12 न चान्योन्यं संस्थाः ते वा विद्युः
विश्वास-प्रस्तुतिः - 13
13 भिक्षुकीप्रतिषेधे द्वाह्स्थपरम्परा मातापितृव्यञ्जनाः शिल्पकारिकाः कुशीलवा दास्यो
मूलम् - 13
13 भिक्षुकीप्रतिषेधे द्वाह्स्थपरम्परा मातापितृव्यञ्जनाः शिल्पकारिकाः कुशीलवा दास्यो
विश्वास-प्रस्तुतिः - 14
14 दीर्घरोग उन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम्
मूलम् - 14
14 दीर्घरोग उन्मादाग्निरसविसर्गेण वा गूढनिर्गमनम्
विश्वास-प्रस्तुतिः - 15
15 त्रयाणां एकवाक्ये सम्प्रत्ययः
मूलम् - 15
15 त्रयाणां एकवाक्ये सम्प्रत्ययः
विश्वास-प्रस्तुतिः - 16
16 तेषां अभीक्ष्णविनिपाते तूष्णीन्दण्डः प्रतिषेधः
मूलम् - 16
16 तेषां अभीक्ष्णविनिपाते तूष्णीन्दण्डः प्रतिषेधः
विश्वास-प्रस्तुतिः - 17
17 कण्टकशोधन उक्ताश्चापसर्पाः परेषु कृतवेतना वसेयुरसम्पातिनश्चारार्थम्
मूलम् - 17
17 कण्टकशोधन उक्ताश्चापसर्पाः परेषु कृतवेतना वसेयुरसम्पातिनश्चारार्थम्
विश्वास-प्रस्तुतिः - 18
18 त उभयवेतनाः
मूलम् - 18
18 त उभयवेतनाः
विश्वास-प्रस्तुतिः - 19
19ab गृहीतपुत्रदारांश्च कुर्याद् उभयवेतनान् ।
19chd तांश्चारिप्रहितान् विद्यात् तेषां शौचं च तद्विधैः
मूलम् - 19

विश्वास-प्रस्तुतिः - 20
20ab एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् ।
20chd उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि
मूलम् - 20
20ab एवं शत्रौ च मित्रे च मध्यमे चावपेच्चरान् ।
20chd उदासीने च तेषां च तीर्थेष्वष्टादशस्वपि
विश्वास-प्रस्तुतिः - 21
21ab अन्तर्गृहचराः तेषां कुब्जवामनपण्डकाः ।
21chd शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छजातयः
मूलम् - 21
21ab अन्तर्गृहचराः तेषां कुब्जवामनपण्डकाः ।
21chd शिल्पवत्यः स्त्रियो मूकाश्चित्राश्च म्लेच्छजातयः
विश्वास-प्रस्तुतिः - 22
22ab दुर्गेषु वणिजः संस्था दुर्गान्ते सिद्धतापसाः ।
22chd कर्षक उदास्थिता राष्ट्रे राष्ट्रान्ते व्रजवासिनः
मूलम् - 22

विश्वास-प्रस्तुतिः - 23
23ab वने वनचराः कार्याः श्रमणाटविकादयः ।
23chd परप्रवृत्तिज्ञानार्थाः शीघ्राश्चारपरम्पराः
मूलम् - 23
23ab वने वनचराः कार्याः श्रमणाटविकादयः ।
23chd परप्रवृत्तिज्ञानार्थाः शीघ्राश्चारपरम्पराः
विश्वास-प्रस्तुतिः - 24
24ab परस्य च एते बोद्धव्याः तादृशैरेव तादृशाः ।
24chd चारसञ्चारिणः संस्था गूढाश्चागूढसञ्ज्ञिताः
मूलम् - 24
24ab परस्य च एते बोद्धव्याः तादृशैरेव तादृशाः ।
24chd चारसञ्चारिणः संस्था गूढाश्चागूढसञ्ज्ञिताः
विश्वास-प्रस्तुतिः - 25
25ab अकृत्यान् कृत्यपक्षीयैर्दर्शितान् कार्यहेतुभिः ।
25chd परापसर्पज्ञानार्थं मुख्यान् अन्तेषु वासयेत् (इति)
मूलम् - 25