Appointment of persons in secret service
विश्वास-प्रस्तुतिः - 01
01 उपधाभिः शुद्धामात्यवर्गो गूढपुरुषान् उत्पादयेत् कापटिक उदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्त्रितीष्क्णरसदभिक्षुकीश्च
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 परमर्मज्ञः प्रगल्भश्छात्रः कापटिकः
मूलम् - 02
02 परमर्मज्ञः प्रगल्भश्छात्रः कापटिकः
विश्वास-प्रस्तुतिः - 03
03 तं अर्थमानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् - राजानं मां च प्रमाणं कृत्वा यस्य यद् अकुशलं पश्यसि तत् तदानीं एव प्रत्यादिश इति
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 प्रव्रज्या प्रत्यवसितः प्रज्ञाशौचयुक्त उदास्थितः
मूलम् - 04
04 प्रव्रज्या प्रत्यवसितः प्रज्ञाशौचयुक्त उदास्थितः
विश्वास-प्रस्तुतिः - 05
05 स वार्त्ताकर्मप्रदिष्टायां भूमौ प्रभूतहिरण्यान्तेवासी कर्म कारयेत्
मूलम् - 05
05 स वार्त्ताकर्मप्रदिष्टायां भूमौ प्रभूतहिरण्यान्तेवासी कर्म कारयेत्
विश्वास-प्रस्तुतिः - 06
06 कर्मफलाच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविदध्यात्
मूलम् - 06
06 कर्मफलाच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविदध्यात्
विश्वास-प्रस्तुतिः - 07
07 वृत्तिकामांश्च उपजपेत् - एतेन एव वेषेण राजार्थश्चरितव्यो भक्तवेतनकाले च उपस्थातव्यम् इति
मूलम् - 07
07 वृत्तिकामांश्च उपजपेत् - एतेन एव वेषेण राजार्थश्चरितव्यो भक्तवेतनकाले च उपस्थातव्यम् इति
विश्वास-प्रस्तुतिः - 08
08 सर्वप्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः
मूलम् - 08
08 सर्वप्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः
विश्वास-प्रस्तुतिः - 09
09 कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः
मूलम् - 09
09 कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः
विश्वास-प्रस्तुतिः - 10
10 स कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण
मूलम् - 10
10 स कृषिकर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण
विश्वास-प्रस्तुतिः - 11
11 वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदेहकव्यञ्जनः
मूलम् - 11
11 वाणिजको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदेहकव्यञ्जनः
विश्वास-प्रस्तुतिः - 12
12 स वणिक्कर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण
मूलम् - 12
12 स वणिक्कर्मप्रदिष्टायां भूमौ - इति समानं पूर्वेण
विश्वास-प्रस्तुतिः - 13
13 मुण्डो जटिलो वा वृत्तिकामः तापसव्यञ्जनः
मूलम् - 13
13 मुण्डो जटिलो वा वृत्तिकामः तापसव्यञ्जनः
विश्वास-प्रस्तुतिः - 14
14 स नगराभ्याशे प्रभूतमुण्डजटिलान्तेवासी शाकं यवमुष्टिं वा मासद्विमासान्तरं प्रकाशं अश्नीयात्, गूढं इष्टं आहारम्
मूलम् - 14

विश्वास-प्रस्तुतिः - 15
15 वैदेहकान्तेवासिनश्च एनं समिद्धयोगैरर्चयेयुः
मूलम् - 15
15 वैदेहकान्तेवासिनश्च एनं समिद्धयोगैरर्चयेयुः
विश्वास-प्रस्तुतिः - 16
16 शिष्याश्चास्यावेदयेयुः - असौ सिद्धः सामेधिकः इति
मूलम् - 16
16 शिष्याश्चास्यावेदयेयुः - असौ सिद्धः सामेधिकः इति
विश्वास-प्रस्तुतिः - 17
17 समेधाशास्तिभिश्चाभिगतानां अङ्गविद्यया शिष्यसञ्ज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् - अल्पलाभं अग्निदाहं चोरभयं दूष्यवधं तुष्टिदानं विदेशप्रवृत्तिज्ञानं, इदं अद्य श्वो वा भविष्यति, इदं वा राजा करिष्यति इति
मूलम् - 17

विश्वास-प्रस्तुतिः - 18
18 तद् अस्य गूढाः सत्त्रिणश्च सम्पादयेयुः
मूलम् - 18
18 तद् अस्य गूढाः सत्त्रिणश्च सम्पादयेयुः
विश्वास-प्रस्तुतिः - 19
19 सत्त्वप्रज्ञावाक्यशक्तिसम्पन्नानां राजभाग्यं अनुव्याहरेत्, मन्त्रिसम्योगं च ब्रूयात्
मूलम् - 19
19 सत्त्वप्रज्ञावाक्यशक्तिसम्पन्नानां राजभाग्यं अनुव्याहरेत्, मन्त्रिसम्योगं च ब्रूयात्
विश्वास-प्रस्तुतिः - 20
20 मन्त्री च एषां वृत्तिकर्मभ्यां वियतेत
मूलम् - 20
20 मन्त्री च एषां वृत्तिकर्मभ्यां वियतेत
विश्वास-प्रस्तुतिः - 21
21 ये च कारणाद् अभिक्रुद्धाः तान् अर्थमानाभ्यां शमयेत्, अकारणक्रुद्धांः तूष्णीं दण्डेन, राजद्विष्टकारिणश्च
मूलम् - 21

विश्वास-प्रस्तुतिः - 22
22ab पूजिताश्चार्थमानाभ्यां राज्ञा राज उपजीविनाम् ।
22chd जानीयुः शौचं इत्येताः पञ्चसंस्थाः प्रकीर्तिताः (इति)
मूलम् - 22