१०

Ascertainment of the integrity or the absence of integrity of ministerbymeans of secret tests

विश्वास-प्रस्तुतिः - 01

01 मन्त्रिपुरोहितसखः सामान्येष्वधिकरणेषु स्थापयित्वाऽमात्यान् उपधाभिः शोधयेत्

मूलम् - 01

01 मन्त्रिपुरोहितसखः सामान्येष्वधिकरणेषु स्थापयित्वाऽमात्यान् उपधाभिः शोधयेत्

विश्वास-प्रस्तुतिः - 02

02 पुरोहितं अयाज्ययाजनाध्यापने नियुक्तं अमृष्यमाणं राजाऽवक्षिपेत्

मूलम् - 02

02 पुरोहितं अयाज्ययाजनाध्यापने नियुक्तं अमृष्यमाणं राजाऽवक्षिपेत्

विश्वास-प्रस्तुतिः - 03

03 स सत्त्रिभिः शपथपूर्वं एकैकं अमात्यं उपजापयेत् - अधार्मिको अयं राजा, साधु धार्मिकं अन्यं अस्य तत्कुलीनं अपरुद्धं कुल्यं एकप्रग्रहं सामन्तं आटविकं औपपादिकं वा प्रतिपादयामः, सर्वेषां एतद् रोचते, कथं वा तव इति

मूलम् - 03

विश्वास-प्रस्तुतिः - 04

04 प्रत्याख्याने शुचिः । इति धर्म उपधा

मूलम् - 04

04 प्रत्याख्याने शुचिः । इति धर्म उपधा

विश्वास-प्रस्तुतिः - 05

05 सेनापतिरसत्प्रग्रहेणावक्षिप्तः सत्त्रिभिरेकैकं अमात्यं उपजापयेत् लोभनीयेनार्थेन राजविनाशाय, सर्वेषां एतद् रोचते, कथं वा तव इति

मूलम् - 05

विश्वास-प्रस्तुतिः - 06

06 प्रत्याख्याने शुचिः । इत्यर्थ उपधा

मूलम् - 06

06 प्रत्याख्याने शुचिः । इत्यर्थ उपधा

विश्वास-प्रस्तुतिः - 07

07 परिव्राजिका लब्धविश्वासाऽन्तःपुरे कृतसत्कारा महामात्रं एकैकं उपजपेत् - राजमहिषी त्वां कामयते कृतसमागम उपाया, महान् अर्थश्च ते भविष्यति इति

मूलम् - 07

विश्वास-प्रस्तुतिः - 08

08 प्रत्याख्याने शुचिः । इति काम उपधा

मूलम् - 08

08 प्रत्याख्याने शुचिः । इति काम उपधा

विश्वास-प्रस्तुतिः - 09

09 प्रहवणनिमित्तं एको अमात्यः सर्वान् अमात्यान् आवाहयेत्

मूलम् - 09

09 प्रहवणनिमित्तं एको अमात्यः सर्वान् अमात्यान् आवाहयेत्

विश्वास-प्रस्तुतिः - 10

10 तेन उद्वेगेन राजा तान् अवरुन्ध्यात्

मूलम् - 10

10 तेन उद्वेगेन राजा तान् अवरुन्ध्यात्

विश्वास-प्रस्तुतिः - 11

11 कापटिकश्चात्र पूर्वावरुद्धः तेषां अर्थमानावक्षिप्तं एकैकं अमात्यं उपजपेत् - असत् प्रवृत्तो अयं राजा, साध्वेनं हत्वाऽन्यं प्रतिपादयामः, सर्वेषां एतद् रोचते, कथं वा तव इति

मूलम् - 11

विश्वास-प्रस्तुतिः - 12

12 प्रत्याख्याने शुचिः । इति भय उपधा

मूलम् - 12

12 प्रत्याख्याने शुचिः । इति भय उपधा

विश्वास-प्रस्तुतिः - 13

13 तत्र धर्म उपधाशुद्धान् धर्मस्थीयकण्टकशोधनेषु कर्मसु स्थापयेत्, अर्थ उपधाशुद्धान् समाहर्तृसम्निधातृनिचयकर्मसु, काम उपधा शुद्धान् बाह्याभ्यन्तरविहाररक्षासु, भय उपधाशुद्धान् आसन्नकार्येषु राज्ञः

मूलम् - 13

विश्वास-प्रस्तुतिः - 14

14 सर्व उपधाशुद्धान् मन्त्रिणः कुर्यात्

मूलम् - 14

14 सर्व उपधाशुद्धान् मन्त्रिणः कुर्यात्

विश्वास-प्रस्तुतिः - 15

15 सर्वत्राशुचीन् खनिद्रव्यहस्तिवनकर्मान्तेषु उपयोजयेत्

मूलम् - 15

15 सर्वत्राशुचीन् खनिद्रव्यहस्तिवनकर्मान्तेषु उपयोजयेत्

विश्वास-प्रस्तुतिः - 16

16ab त्रिवर्गभयसंशुद्धान् अमात्यान् स्वेषु कर्मसु ।
16chd अधिकुर्याद् यथा शौचं इत्याचार्या व्यवस्थिताः

मूलम् - 16

विश्वास-प्रस्तुतिः - 17

17ab न त्वेव कुर्याद् आत्मानं देवीं वा लक्ष्यं ईश्वरः ।
17chd शौचहेतोरमात्यानां एतत् कौटिल्यदर्शनम्

मूलम् - 17

17ab न त्वेव कुर्याद् आत्मानं देवीं वा लक्ष्यं ईश्वरः ।
17chd शौचहेतोरमात्यानां एतत् कौटिल्यदर्शनम्

विश्वास-प्रस्तुतिः - 18

18ab न दूषणं अदुष्टस्य विषेण इवाम्भसश्चरेत् ।
18chd कदाचिद्द् हि प्रदुष्टस्य नाधिगम्येत भेषजम्

मूलम् - 18

18ab न दूषणं अदुष्टस्य विषेण इवाम्भसश्चरेत् ।
18chd कदाचिद्द् हि प्रदुष्टस्य नाधिगम्येत भेषजम्

विश्वास-प्रस्तुतिः - 19

19ab कृता च कलुषाबुद्धिरुपधाभिश्चतुर्विधा ।
19chd नागत्वाऽन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ

मूलम् - 19

19ab कृता च कलुषाबुद्धिरुपधाभिश्चतुर्विधा ।
19chd नागत्वाऽन्तं निवर्तेत स्थिता सत्त्ववतां धृतौ

विश्वास-प्रस्तुतिः - 20

20ab तस्माद् बाह्यं अधिष्ठानं कृत्वा कार्ये चतुर्विधे ।
20chd शौचाशौचं अमात्यानां राजा मार्गेत सत्त्रिभिः (इति)

मूलम् - 20