Appointment of counsellors and chaplain
विश्वास-प्रस्तुतिः - 01
01 जानपदो अभिजातः स्ववग्रहः कृतशिल्पश्चक्षुष्मान् प्राज्ञो धारयिष्णुर्दक्षो वाग्मी प्रगल्भः प्रतिपत्तिमान् उत्साहप्रभावयुक्तः क्लेशसहः शुचिर्मैत्रो दृढभक्तिः शीलबलारोग्यसत्त्वयुक्तः स्तम्भचापलहीनः सम्प्रियो वैराणां अकर्ता इत्यमात्यसम्पत्
मूलम् - 01

विश्वास-प्रस्तुतिः - 02
02 अतः पादार्घगुणहीनौ मध्यमावरौ
मूलम् - 02
02 अतः पादार्घगुणहीनौ मध्यमावरौ
विश्वास-प्रस्तुतिः - 03
03 तेषां जनपद्ऽभिजनं अवग्रहं चाप्ततः परीक्षेत, समानविद्येभ्यः शिल्पं शास्त्रचक्षुष्मत्तां च, कर्मारम्भेषु प्रज्ञां धारयिष्णुतां दाक्ष्यं च, कथायोगेषु वाग्मित्वं प्रागल्भ्यं प्रतिभानवत्त्वं च, संवासिभ्यः शीलबलारोग्यसत्त्वयोगं अस्तम्भं अचापलं च, प्रत्यक्षतः सम्प्रियत्वं अवैरत्वं च
मूलम् - 03

विश्वास-प्रस्तुतिः - 04
04 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः
मूलम् - 04
04 प्रत्यक्षपरोक्षानुमेया हि राजवृत्तिः
विश्वास-प्रस्तुतिः - 05
05 स्वयं द्र्ष्टं प्रत्यक्षम्
मूलम् - 05
05 स्वयं द्र्ष्टं प्रत्यक्षम्
विश्वास-प्रस्तुतिः - 06
06 पर उपदिष्टं परोक्षम्
मूलम् - 06
06 पर उपदिष्टं परोक्षम्
विश्वास-प्रस्तुतिः - 07
07 कर्मसु कृतेनाकृतावेक्षणं अनुमेयम्
मूलम् - 07
07 कर्मसु कृतेनाकृतावेक्षणं अनुमेयम्
विश्वास-प्रस्तुतिः - 08
08 यौगपद्यात् तु कर्मणां अनेकत्वाद् अनेकस्थत्वाच्च देशकालात्ययो मा भूद् इति परोक्षं अमात्यैः कारयेत् इत्यमात्यकर्म ।
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 पुरोहितं उदित उदितकुलशीलं स-अङ्गे वेदे दैवे निमित्ते दण्डनीत्यां चाभिविनीतं आपदां दैवमानुषीणां अथर्वभिरुपायैश्च प्रतिकर्तारं कुर्वीत
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 तं आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनं इव चानुवर्तेत
मूलम् - 10
10 तं आचार्यं शिष्यः पितरं पुत्रो भृत्यः स्वामिनं इव चानुवर्तेत
विश्वास-प्रस्तुतिः - 11
11ab ब्राह्मणेन एधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् ।
11chd जयत्यजितं अत्यन्तं शास्त्रानुगमशस्त्रितम् (इति)
मूलम् - 11