Appointment of ministers
विश्वास-प्रस्तुतिः - 01
01 सहाध्यायिनो अमात्यान् कुर्वीत, दृष्टशौचसामर्थ्यत्वात् इति भारद्वाजः
मूलम् - 01
01 सहाध्यायिनो अमात्यान् कुर्वीत, दृष्टशौचसामर्थ्यत्वात् इति भारद्वाजः
विश्वास-प्रस्तुतिः - 02
02 ते ह्यस्य विश्वास्या भवन्ति इति
मूलम् - 02
02 ते ह्यस्य विश्वास्या भवन्ति इति
विश्वास-प्रस्तुतिः - 03
03 न इति विशालाक्षः
मूलम् - 03
03 न इति विशालाक्षः
विश्वास-प्रस्तुतिः - 04
04 सहक्रीडितत्वात् परिभवन्त्येनम्
मूलम् - 04
04 सहक्रीडितत्वात् परिभवन्त्येनम्
विश्वास-प्रस्तुतिः - 05
05 ये ह्यस्य गुह्यसधर्माणः तान् अमात्यान् कुर्वीत, समानशीलव्यसनत्वात्
मूलम् - 05
05 ये ह्यस्य गुह्यसधर्माणः तान् अमात्यान् कुर्वीत, समानशीलव्यसनत्वात्
विश्वास-प्रस्तुतिः - 06
06 ते ह्यस्य मर्मज्ञभयान्नापराध्यन्ति इति
मूलम् - 06
06 ते ह्यस्य मर्मज्ञभयान्नापराध्यन्ति इति
विश्वास-प्रस्तुतिः - 07
07 साधारण एष दोषः इति पाराशराः
मूलम् - 07
07 साधारण एष दोषः इति पाराशराः
विश्वास-प्रस्तुतिः - 08
08 तेषां अपि मर्मज्ञभयात् कृताकृतान्यनुवर्तेत
मूलम् - 08
08 तेषां अपि मर्मज्ञभयात् कृताकृतान्यनुवर्तेत
विश्वास-प्रस्तुतिः - 09
09ab यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुषाधिपः ।
09chd अवशः कर्मणा तेन वश्यो भवति तावताम्
मूलम् - 09
09ab यावद्भ्यो गुह्यं आचष्टे जनेभ्यः पुरुषाधिपः ।
09chd अवशः कर्मणा तेन वश्यो भवति तावताम्
विश्वास-प्रस्तुतिः - 10
10 य एनं आपत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुः तान् अमात्यान् कुर्वीत, दृष्टानुरागत्वात् इति
मूलम् - 10
10 य एनं आपत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुः तान् अमात्यान् कुर्वीत, दृष्टानुरागत्वात् इति
विश्वास-प्रस्तुतिः - 11
11 न इति पिशुनः
मूलम् - 11
11 न इति पिशुनः
विश्वास-प्रस्तुतिः - 12
12 भक्तिरेषा न बुद्धिगुणः
मूलम् - 12
12 भक्तिरेषा न बुद्धिगुणः
विश्वास-प्रस्तुतिः - 13
13 सङ्ख्यातार्थेषु कर्मसु नियुक्ता ये यथाऽऽदिष्टं अर्थं सविशेषं वा कुर्युः तान् अमात्यान् कुर्वीत, दृष्टगुणत्वात् इति
मूलम् - 13
13 सङ्ख्यातार्थेषु कर्मसु नियुक्ता ये यथाऽऽदिष्टं अर्थं सविशेषं वा कुर्युः तान् अमात्यान् कुर्वीत, दृष्टगुणत्वात् इति
विश्वास-प्रस्तुतिः - 14
14 न इति कौणपदन्तः
मूलम् - 14
14 न इति कौणपदन्तः
विश्वास-प्रस्तुतिः - 15
15 अन्यैरमात्यगुणैरयुक्ता ह्येते
मूलम् - 15
15 अन्यैरमात्यगुणैरयुक्ता ह्येते
विश्वास-प्रस्तुतिः - 16
16 पितृपैतामहान् अमात्यान् कुर्वीत, दृष्टावदानत्वात्
मूलम् - 16
16 पितृपैतामहान् अमात्यान् कुर्वीत, दृष्टावदानत्वात्
विश्वास-प्रस्तुतिः - 17
17 ते ह्येनं अपचरन्तं अपि न त्यजन्ति, सगन्धत्वात्
मूलम् - 17
17 ते ह्येनं अपचरन्तं अपि न त्यजन्ति, सगन्धत्वात्
विश्वास-प्रस्तुतिः - 18
18 अमानुषेष्वपि च एतद् दृश्यते
मूलम् - 18
18 अमानुषेष्वपि च एतद् दृश्यते
विश्वास-प्रस्तुतिः - 19
19 गावो ह्यसगन्धं गोगणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति
मूलम् - 19
19 गावो ह्यसगन्धं गोगणं अतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति
विश्वास-प्रस्तुतिः - 20
20 न इति वातव्याधिः
मूलम् - 20
20 न इति वातव्याधिः
विश्वास-प्रस्तुतिः - 21
21 ते ह्यस्य सर्वं अवगृह्य स्वामिवत् प्रचरन्ति
मूलम् - 21
21 ते ह्यस्य सर्वं अवगृह्य स्वामिवत् प्रचरन्ति
विश्वास-प्रस्तुतिः - 22
22 तस्मान्नीतिविदो नवान् अमात्यान् कुर्वीत
मूलम् - 22
22 तस्मान्नीतिविदो नवान् अमात्यान् कुर्वीत
विश्वास-प्रस्तुतिः - 23
23 नवाः तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्ति इति
मूलम् - 23
23 नवाः तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्ति इति
विश्वास-प्रस्तुतिः - 24
24 न इति बाहुदन्ती पुत्रः
मूलम् - 24
24 न इति बाहुदन्ती पुत्रः
विश्वास-प्रस्तुतिः - 25
25 शास्त्रविद् अदृष्टकर्मा कर्मसु विषादं गच्छेत्
मूलम् - 25
25 शास्त्रविद् अदृष्टकर्मा कर्मसु विषादं गच्छेत्
विश्वास-प्रस्तुतिः - 26
26 तस्माद् अभिजनप्रज्ञाशौचशौर्यानुरागयुक्तान् अमात्यान् कुर्वीत, गुणप्राधान्यात् इति
मूलम् - 26
26 तस्माद् अभिजनप्रज्ञाशौचशौर्यानुरागयुक्तान् अमात्यान् कुर्वीत, गुणप्राधान्यात् इति
विश्वास-प्रस्तुतिः - 27
27 सर्वं उपपन्नं इति कौटिल्यः
मूलम् - 27
27 सर्वं उपपन्नं इति कौटिल्यः
विश्वास-प्रस्तुतिः - 28
28 कार्यसामर्थ्याद्द् हि पुरुषसामर्थ्यं कल्प्यते
मूलम् - 28
28 कार्यसामर्थ्याद्द् हि पुरुषसामर्थ्यं कल्प्यते
विश्वास-प्रस्तुतिः - 29
29ab सामर्थ्यश्च विभज्यामात्यविभवं देशकालौ च कर्म च ।
29chd अमात्याः सर्व एव एते कार्याः स्युर्न तु मन्त्रिणः (इति)
मूलम् - 29
29ab सामर्थ्यश्च विभज्यामात्यविभवं देशकालौ च कर्म च ।
29chd अमात्याः सर्व एव एते कार्याः स्युर्न तु मन्त्रिणः (इति)