०७

I) The life of a sage-like king

विश्वास-प्रस्तुतिः - 01

01 तस्माद् अरिषड्वर्गत्यागेन इन्द्रियजयं कुर्वीत, वृद्धसम्योगेन प्रज्ञां, चारेण चक्षुः, उत्थानेन योगक्षेमसाधनं, कार्यानुशासनेन स्वधर्मस्थापनं, विनयं विद्या उपदेशेन, लोकप्रियत्वं अर्थसम्योगेन वृत्तिम्

मूलम् - 01

विश्वास-प्रस्तुतिः - 02

02 एवं वश्य इन्द्रियः परस्त्रीद्रव्यहिंसाश्च वर्जयेत्, स्वप्नं लौल्यं अनृतं उद्धतवेषत्वं अनर्थ्यसम्योगं अधर्मसम्युक्तं अनर्थसम्युक्तं च व्यवहारम्

मूलम् - 02

विश्वास-प्रस्तुतिः - 03

03 धर्मार्थाविरोधेन कामं सेवेत, न निह्सुखः स्यात्

मूलम् - 03

03 धर्मार्थाविरोधेन कामं सेवेत, न निह्सुखः स्यात्

विश्वास-प्रस्तुतिः - 04

04 समं वा त्रिवर्गं अन्योन्यानुबद्धम्

मूलम् - 04

04 समं वा त्रिवर्गं अन्योन्यानुबद्धम्

विश्वास-प्रस्तुतिः - 05

05 एको ह्यत्यासेवितो धर्मार्थकामानां आत्मानं इतरौ च पीडयति

मूलम् - 05

05 एको ह्यत्यासेवितो धर्मार्थकामानां आत्मानं इतरौ च पीडयति

विश्वास-प्रस्तुतिः - 06

06 अर्थ एव प्रधान इति कौटिल्यः

मूलम् - 06

06 अर्थ एव प्रधान इति कौटिल्यः

विश्वास-प्रस्तुतिः - 07

07 अर्थमूलौ हि धर्मकामाविति

मूलम् - 07

07 अर्थमूलौ हि धर्मकामाविति

विश्वास-प्रस्तुतिः - 08

08 मर्यादां स्थापयेद् आचार्यान् अमात्यान् वा, य एनं अपाय स्थानेभ्यो वारयेयुः, छायानालिकाप्रतोदेन वा रहसि प्रमाद्यन्तं अभितुदेयुः

मूलम् - 08

विश्वास-प्रस्तुतिः - 09

09ab सहायसाध्यं राजत्वं चक्रं एकं न वर्तते ।
09chd कुर्वीत सचिवांः तस्मात् तेषां च शृणुयान् मतम् (इति)

मूलम् - 09