Section.3: Control over the senses, (i) Casting out the group of six enemies
विश्वास-प्रस्तुतिः - 01
01 विद्या विनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदहर्षत्यागात् कार्यः
मूलम् - 01
01 विद्या विनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदहर्षत्यागात् कार्यः
विश्वास-प्रस्तुतिः - 02
02 कर्णत्वग्ऽक्षिजिह्वाघ्राण इन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः, शास्त्रानुष्ठानं वा
मूलम् - 02

विश्वास-प्रस्तुतिः - 03
03 कृत्स्नं हि शास्त्रं इदं इन्द्रियजयः
मूलम् - 03
03 कृत्स्नं हि शास्त्रं इदं इन्द्रियजयः
विश्वास-प्रस्तुतिः - 04
04 तद् विरुद्धवृत्तिरवश्य इन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति
मूलम् - 04
04 तद् विरुद्धवृत्तिरवश्य इन्द्रियश्चातुरन्तो अपि राजा सद्यो विनश्यति
विश्वास-प्रस्तुतिः - 05
05 यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यां अभिमन्यमानः स-बन्धुराष्ट्रो विननाश, करालश्च वैदेहः
मूलम् - 05
05 यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यां अभिमन्यमानः स-बन्धुराष्ट्रो विननाश, करालश्च वैदेहः
विश्वास-प्रस्तुतिः - 06
06 कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्च भृगुषु
मूलम् - 06
06 कोपाज् जनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्च भृगुषु
विश्वास-प्रस्तुतिः - 07
07 लोभाद् ऐलश्चातुर्वर्ण्यं अत्याहारयमाणः, सौवीरश्चाजबिन्दुः ।
मूलम् - 07
07 लोभाद् ऐलश्चातुर्वर्ण्यं अत्याहारयमाणः, सौवीरश्चाजबिन्दुः ।
विश्वास-प्रस्तुतिः - 08
08 मानाद् रावणः परदारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च
मूलम् - 08
08 मानाद् रावणः परदारान् अप्रयच्छन्, दुर्योधनो राज्याद् अंशं च
विश्वास-प्रस्तुतिः - 09
09 मदाद् दम्भोद्भवो भूतावमानी, हैहयश्चार्जुनः
मूलम् - 09
09 मदाद् दम्भोद्भवो भूतावमानी, हैहयश्चार्जुनः
विश्वास-प्रस्तुतिः - 10
10 हर्षाद् वातापिरगस्त्यं अत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनं इति
मूलम् - 10
10 हर्षाद् वातापिरगस्त्यं अत्यासादयन्, वृष्णिसङ्घश्च द्वैपायनं इति
विश्वास-प्रस्तुतिः - 11
11ab एते चान्ये च बहवः शत्रुषड्वर्गं आश्रिताः ।
11chd स-बन्धुराष्ट्रा राजानो विनेशुरजित इन्द्रियाः
मूलम् - 11
11ab एते चान्ये च बहवः शत्रुषड्वर्गं आश्रिताः ।
11chd स-बन्धुराष्ट्रा राजानो विनेशुरजित इन्द्रियाः
विश्वास-प्रस्तुतिः - 12
12ab शत्रुषड्वर्गं उत्सृज्य जामदग्न्यो जित इन्द्रियः ।
12chd अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् (इति)
मूलम् - 12