Section.2: Association with elders
विश्वास-प्रस्तुतिः - 01
01 तस्माद् दण्डमूलाः तिस्रो विद्याः
मूलम् - 01
01 तस्माद् दण्डमूलाः तिस्रो विद्याः
विश्वास-प्रस्तुतिः - 02
02 विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः
मूलम् - 02
02 विनयमूलो दण्डः प्राणभृतां योगक्षेमावहः
विश्वास-प्रस्तुतिः - 03
03 कृतकः स्वाभाविकश्च विनयः
मूलम् - 03
03 कृतकः स्वाभाविकश्च विनयः
विश्वास-प्रस्तुतिः - 04
04 क्रिया हि द्रव्यं विनयति नाद्रव्यम्
मूलम् - 04
04 क्रिया हि द्रव्यं विनयति नाद्रव्यम्
विश्वास-प्रस्तुतिः - 05
05 शुश्रूषा श्रवणग्रहणधारणविज्ञान ऊहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति न इतरम्
मूलम् - 05
05 शुश्रूषा श्रवणग्रहणधारणविज्ञान ऊहापोहतत्त्वाभिनिविष्टबुद्धिं विद्या विनयति न इतरम्
विश्वास-प्रस्तुतिः - 06
06 विद्यानां तु यथास्वं आचार्यप्रामाण्याद् विनयो नियमश्च
मूलम् - 06
06 विद्यानां तु यथास्वं आचार्यप्रामाण्याद् विनयो नियमश्च
विश्वास-प्रस्तुतिः - 07
07 वृत्तचौलकर्मा लिपिं सङ्ख्यानं च उपयुञ्जीत
मूलम् - 07
07 वृत्तचौलकर्मा लिपिं सङ्ख्यानं च उपयुञ्जीत
विश्वास-प्रस्तुतिः - 08
08 वृत्त उपनयनः त्रयीं आन्वीक्षिकीं च शिष्टेभ्यो वार्त्तां अध्यक्षेभ्यो दण्डनीतिं वक्तृप्रयोक्तृभ्यः
मूलम् - 08

विश्वास-प्रस्तुतिः - 09
09 ब्रह्मचर्यं च षोडशाद् वर्षात्
मूलम् - 09
09 ब्रह्मचर्यं च षोडशाद् वर्षात्
विश्वास-प्रस्तुतिः - 10
10 अतो गोदानं दारकर्म चास्य
मूलम् - 10
10 अतो गोदानं दारकर्म चास्य
विश्वास-प्रस्तुतिः - 11
11 नित्यश्च विद्यावृद्धसम्योगो विनयवृद्ध्य्ऽर्थं, तन्मूलत्वाद् विनयस्य
मूलम् - 11
11 नित्यश्च विद्यावृद्धसम्योगो विनयवृद्ध्य्ऽर्थं, तन्मूलत्वाद् विनयस्य
विश्वास-प्रस्तुतिः - 12
12 पूर्वं अहर्भागं हस्त्य्ऽश्वरथप्रहरणविद्यासु विनयं गच्छेत् ।
मूलम् - 12
12 पूर्वं अहर्भागं हस्त्य्ऽश्वरथप्रहरणविद्यासु विनयं गच्छेत् ।
विश्वास-प्रस्तुतिः - 13
13 पश्चिमं इतिहासश्रवणे
मूलम् - 13
13 पश्चिमं इतिहासश्रवणे
विश्वास-प्रस्तुतिः - 14
14 पुराणं इतिवृत्तं आख्यायिक उदाहरणं धर्मशास्त्रं अर्थशास्त्रं च इति इतिहासः
मूलम् - 14
14 पुराणं इतिवृत्तं आख्यायिक उदाहरणं धर्मशास्त्रं अर्थशास्त्रं च इति इतिहासः
विश्वास-प्रस्तुतिः - 15
15 शेषं अहोरात्रभागं अपूर्वग्रहणं गृहीतपरिचयं च कुर्यात्, अगृहीतानां आभीक्ष्ण्यश्रवणं च
मूलम् - 15
15 शेषं अहोरात्रभागं अपूर्वग्रहणं गृहीतपरिचयं च कुर्यात्, अगृहीतानां आभीक्ष्ण्यश्रवणं च
विश्वास-प्रस्तुतिः - 16
16 श्रुताद्द् हि प्रज्ञा उपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता इति विद्यानां सामर्थ्यम्
मूलम् - 16
16 श्रुताद्द् हि प्रज्ञा उपजायते प्रज्ञाया योगो योगाद् आत्मवत्ता इति विद्यानां सामर्थ्यम्
विश्वास-प्रस्तुतिः - 17
17ab विद्याविनीतो राजा हि प्रजानां विनये रतः ।
17chd अनन्यां पृथिवीं भुङ्क्ते सर्वभूतहिते रतः (इति)
मूलम् - 17