०४

Ii) Establishing (the necessity of) Economics, and (iv) the Science of Politics

विश्वास-प्रस्तुतिः - 01

01 कृषिपाशुपाल्ये वणिज्या च वार्ता, धान्यपशुहिरण्यकुप्यविष्टिप्रदानाद् औपकारिकी

मूलम् - 01

01 कृषिपाशुपाल्ये वणिज्या च वार्ता, धान्यपशुहिरण्यकुप्यविष्टिप्रदानाद् औपकारिकी

विश्वास-प्रस्तुतिः - 02

02 तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम्

मूलम् - 02

02 तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम्

विश्वास-प्रस्तुतिः - 03

03 आन्वीक्षिकी त्रयी वार्त्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिर्दण्ड नीतिः, अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च

मूलम् - 03

03 आन्वीक्षिकी त्रयी वार्त्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिर्दण्ड नीतिः, अलब्धलाभार्था लब्धपरिरक्षणी रक्षितविवर्धनी वृद्धस्य तीर्थे प्रतिपादनी च

विश्वास-प्रस्तुतिः - 04

04 तस्यां आयत्ता लोकयात्रा

मूलम् - 04

04 तस्यां आयत्ता लोकयात्रा

विश्वास-प्रस्तुतिः - 05

05 तस्माल्लोकयात्राऽर्थी नित्यं उद्यतदण्डः स्यात्

मूलम् - 05

05 तस्माल्लोकयात्राऽर्थी नित्यं उद्यतदण्डः स्यात्

विश्वास-प्रस्तुतिः - 06

06 न ह्येवंविधं वश उपनयनं अस्ति भूतानां यथा दण्डः । इत्याचार्याः

मूलम् - 06

06 न ह्येवंविधं वश उपनयनं अस्ति भूतानां यथा दण्डः । इत्याचार्याः

विश्वास-प्रस्तुतिः - 07

07 न इति कौटिल्यः

मूलम् - 07

07 न इति कौटिल्यः

विश्वास-प्रस्तुतिः - 08

08 तीक्ष्णदण्डो हि भूतानां उद्वेजनीयो भवति

मूलम् - 08

08 तीक्ष्णदण्डो हि भूतानां उद्वेजनीयो भवति

विश्वास-प्रस्तुतिः - 09

09 मृदुदण्डः परिभूयते

मूलम् - 09

09 मृदुदण्डः परिभूयते

विश्वास-प्रस्तुतिः - 10

10 यथाऽर्हदण्डः पूज्यते

मूलम् - 10

10 यथाऽर्हदण्डः पूज्यते

विश्वास-प्रस्तुतिः - 11

11 सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति

मूलम् - 11

11 सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति

विश्वास-प्रस्तुतिः - 12

12 दुष्प्रणीतः कामक्रोधाभ्यां अवज्ञानाद् वा वानप्रस्थपरिव्राजकान् अपि कोपयति, किंऽङ्ग पुनर्गृहस्थान्

मूलम् - 12

12 दुष्प्रणीतः कामक्रोधाभ्यां अवज्ञानाद् वा वानप्रस्थपरिव्राजकान् अपि कोपयति, किंऽङ्ग पुनर्गृहस्थान्

विश्वास-प्रस्तुतिः - 13

13 अप्रणीतः तु मात्स्यन्यायं उद्भावयति

मूलम् - 13

13 अप्रणीतः तु मात्स्यन्यायं उद्भावयति

विश्वास-प्रस्तुतिः - 14

14 बलीयान् अबलं हि ग्रसते दण्डधराभावे

मूलम् - 14

14 बलीयान् अबलं हि ग्रसते दण्डधराभावे

विश्वास-प्रस्तुतिः - 15

15 स तेन गुप्तः प्रभवति इति

मूलम् - 15

15 स तेन गुप्तः प्रभवति इति

विश्वास-प्रस्तुतिः - 16

16ab चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः ।
16chd स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु (इति)

मूलम् - 16

16ab चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः ।
16chd स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु (इति)