Establishing (the necessity of) the Vedic Lore
विश्वास-प्रस्तुतिः - 01
01 साम।ऋग्यजुर्वेदाः त्रयः त्रयी
मूलम् - 01
01 साम।ऋग्यजुर्वेदाः त्रयः त्रयी
विश्वास-प्रस्तुतिः - 02
02 अथर्ववेद इतिहासवेदौ च वेदाः
मूलम् - 02
02 अथर्ववेद इतिहासवेदौ च वेदाः
विश्वास-प्रस्तुतिः - 03
03 शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविचितिर्ज्योतिषं इति चाङ्गानि
मूलम् - 03
03 शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविचितिर्ज्योतिषं इति चाङ्गानि
विश्वास-प्रस्तुतिः - 04
04 एष त्रयीधर्मश्चतुर्णां वर्णानां आश्रमाणां च स्वधर्मस्थापनाद् औपकारिकः
मूलम् - 04
04 एष त्रयीधर्मश्चतुर्णां वर्णानां आश्रमाणां च स्वधर्मस्थापनाद् औपकारिकः
विश्वास-प्रस्तुतिः - 05
05 स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च
मूलम् - 05
05 स्वधर्मो ब्राह्मणस्य अध्ययनं अध्यापनं यजनं याजनं दानं प्रतिग्रहश्च
विश्वास-प्रस्तुतिः - 06
06 क्षत्रियस्याध्ययनं यजनं दानं शस्त्राजीवो भूतरक्षणं च
मूलम् - 06
06 क्षत्रियस्याध्ययनं यजनं दानं शस्त्राजीवो भूतरक्षणं च
विश्वास-प्रस्तुतिः - 07
07 वैश्यस्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वणिज्या च
मूलम् - 07
07 वैश्यस्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वणिज्या च
विश्वास-प्रस्तुतिः - 08
08 शूद्रस्य द्विजातिशुश्रूषा वार्त्ता कारुकुशीलवकर्म च
मूलम् - 08
08 शूद्रस्य द्विजातिशुश्रूषा वार्त्ता कारुकुशीलवकर्म च
विश्वास-प्रस्तुतिः - 09
09 गृहस्थस्य स्वधर्माजीवः तुल्यैरसमान।ऋषिभिर्वैवाह्यं ऋतुगामित्वं देवपित्र्ऽतिथिपूजा भृत्येषु त्यागः शेषभोजनं च
मूलम् - 09

विश्वास-प्रस्तुतिः - 10
10 ब्रह्मचारिणः स्वाध्यायो अग्निकार्याभिषेकौ भैक्षव्रतित्वं आचार्ये प्राणान्तिकी वृत्तिः तद्ऽभावे गुरुपुत्रे स-ब्रह्मचारिणि वा
मूलम् - 10

विश्वास-प्रस्तुतिः - 11
11 वानप्रस्थस्य ब्रह्मचर्यं भूमौ शय्या जटाऽजिनधारणं अग्निहोत्राभिषेकौ देवतापित्र्ऽतिथिपूजा वन्यश्चाहारः
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12 परिव्राजकस्य जित इन्द्रियत्वं अनारम्भो निष्किञ्चनत्वं सङ्गत्यागो भैक्षव्रतं अनेकत्रारण्ये च वासो बाह्याभ्यन्तरं च शौचम्
मूलम् - 12

विश्वास-प्रस्तुतिः - 13
13 सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च
मूलम् - 13
13 सर्वेषां अहिंसा सत्यं शौचं अनसूय आनृशंस्यं क्षमा च
विश्वास-प्रस्तुतिः - 14
14 स्वधर्मः स्वर्गायानन्त्याय च
मूलम् - 14
14 स्वधर्मः स्वर्गायानन्त्याय च
विश्वास-प्रस्तुतिः - 15
15 तस्यातिक्रमे लोकः सङ्कराद् उच्छिद्येत
मूलम् - 15
15 तस्यातिक्रमे लोकः सङ्कराद् उच्छिद्येत
विश्वास-प्रस्तुतिः - 16
16ab तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।
16chd स्वधर्मं सन्दधानो हि प्रेत्य च इह च नन्दति
मूलम् - 16
16ab तस्मात् स्वधर्मं भूतानां राजा न व्यभिचारयेत् ।
16chd स्वधर्मं सन्दधानो हि प्रेत्य च इह च नन्दति
विश्वास-प्रस्तुतिः - 17
17ab व्यवस्थितार्यमर्यादः कृतवर्णाश्रमस्थितिः ।
17chd त्रय्याऽभिरक्षितो लोकः प्रसीदति न सीदति (इति)
मूलम् - 17