Enumeration of the sciences
i) Establishing (the necessity of) philosophy
विश्वास-प्रस्तुतिः - 01
01 आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च इति विद्याः
मूलम् - 01
01 आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च इति विद्याः
विश्वास-प्रस्तुतिः - 02
02 त्रयी वार्त्ता दण्ड नीतिश्च इति मानवाः
मूलम् - 02
02 त्रयी वार्त्ता दण्ड नीतिश्च इति मानवाः
विश्वास-प्रस्तुतिः - 03
03 त्रयी विशेषो ह्यान्वीक्षिकी इति
मूलम् - 03
03 त्रयी विशेषो ह्यान्वीक्षिकी इति
विश्वास-प्रस्तुतिः - 04
04 वार्त्ता दण्डनीतिश्च इति बार्हस्पत्याः
मूलम् - 04
04 वार्त्ता दण्डनीतिश्च इति बार्हस्पत्याः
विश्वास-प्रस्तुतिः - 05
05 संवरणमात्रं हि त्रयी लोकयात्राविद इति
मूलम् - 05
05 संवरणमात्रं हि त्रयी लोकयात्राविद इति
विश्वास-प्रस्तुतिः - 06
06 दण्डनीतिरेका विद्या इत्यौशनसाः
मूलम् - 06
06 दण्डनीतिरेका विद्या इत्यौशनसाः
विश्वास-प्रस्तुतिः - 07
07 तस्यां हि सर्वविद्याऽऽरम्भाः प्रतिबद्धा इति
मूलम् - 07
07 तस्यां हि सर्वविद्याऽऽरम्भाः प्रतिबद्धा इति
विश्वास-प्रस्तुतिः - 08
08 चतस्र एव विद्या इति कौटिल्यः
मूलम् - 08
08 चतस्र एव विद्या इति कौटिल्यः
विश्वास-प्रस्तुतिः - 09
09 ताभिर्धर्मार्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम्
मूलम् - 09
09 ताभिर्धर्मार्थौ यद् विद्यात् तद् विद्यानां विद्यात्वम्
विश्वास-प्रस्तुतिः - 10
10 साङ्ख्यं योगो लोकायतं च इत्यान्वीक्षिकी
मूलम् - 10
10 साङ्ख्यं योगो लोकायतं च इत्यान्वीक्षिकी
विश्वास-प्रस्तुतिः - 11
11 धर्माधर्मौ त्रय्यां अर्थानर्थौ वार्त्तायां नयानयौ दण्डनीत्यां बलाबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेऽभ्युदये च बुद्धिं अवस्थापयति प्रज्ञावाक्यक्रियावैशारद्यं च करोति
मूलम् - 11

विश्वास-प्रस्तुतिः - 12
12ab प्रदीपः सर्वविद्यानां उपायः सर्वकर्मणाम् ।
12chd आश्रयः सर्वधर्माणां शश्वद् आन्वीक्षिकी मता (इति)
मूलम् - 12