मैसूरु-टिप्पनी

[[कौटिलीयम्-अर्थशास्त्रम् Source: EB]]

[

[TABLE]

CHIEF EDITOR’S NOTE.

_____________

IT is with no small diffidence that I allow the present volume to go forth as a number of the Mysore Government Oriental Library Series, the edition being based on a single manuscript of the text and a second one containing only a gloss on a very small section of the work. My only excuse for sending forth the volume at all is a long-cherished desire to make known, to the scholars engaged in the study of the ancient Sanskrit Literature in its bearing on Indian History specially and on historical research generally, the existence of what seems to be the oldest and most elaborate and systematic work extant on the Arthasàstra,—the social and civil polity of the ancient Hindus,**—**which will surely throw a flood of light on the material, moral, social and political condition of the ancient Hindus during the four or five centuries preceding the Christian Era. There is ample evidence to shew that Chànakya alias Vishnugupta’s Arthasàstra, known also as Dandaniti, with which this work is identified, has been the basis of many a shorter treatise on the subject, including the Nitisàra of Kàmandaka. While venturing to publish such an important work edited from a single manuscript, I cherish a hope that, if any scholar should own a manuscript of the whole work or even of its part, he will be so kind as to place it at my disposal for a short time, so that all the better readings it may contain may be noted in the supplementary part which, among other things will contain a full index and a glossary of technical terms.

MYSORE,
A. MAHADEVA SASTRI,
20th March 1909.
Curator, Govt. Oriental Library.

उपोद्घातः

<MISSING_FIG href="../books_images/U-IMG-1728539877Screenshot(3"/>.png)

इहतावद्विष्णुगुप्तश्चाणक्य इति च विख्यातोऽर्थशास्त्रप्रवीणः कौटिल्यो नाम ब्राह्मणः क्रिस्ताब्दारम्भात्पूर्वं वत्सराणां चतुर्थे शतके नन्दवंशमुन्मूल्य चन्द्रगुप्तमभिषिषेचेति विष्णुपुराणात्ज्ञायते—

“महापद्मः; तत्पुत्राश्चैकं वर्षशतमवनीपतयो भविष्यन्ति नवैव.तान्नन्दान्कौटिल्यो ब्राह्मणस्समुद्धरिष्यति. तेषामभावे मौर्याश्च पृथिवीं भोक्ष्यन्ति. कौटिल्य एव चन्द्रगुप्तं राज्येऽभिषेक्ष्यति. तस्यापि पुत्रो बिन्दुसारो भविष्यति तस्याप्य शोकवर्धनः”इतिविष्णुपुराणे चतुर्थांशे चतुर्विंशाध्याये स्पष्ट मभिहितं दृश्यते.

क्रिस्ताब्दारम्भात्पूर्वं द्वासप्तत्यधिकशतद्वयपरिमितेवर्षे समारूढराज्यसिंहासनेन चद्रगुप्तपौत्रेणाङ्गीकृतबौद्धविज्ञानेनाशोकवर्धनेन भरतखण्डचक्रवर्तिना ये प्रत्युप्तबौद्धधर्माश्शिलास्तम्भा न्यखानिषत तेऽद्यापि दरीदृश्यन्ते. अशोकपितामहश्चन्द्रगुप्तोऽपि क्रिस्ताब्दारम्भात्पूर्वं सप्तविंशत्यधिकशतत्रयपरिमितेषु वर्षेषु राज्यं चकारेति पाश्चात्यराजचरित्रादपि बाढं ज्ञायते. तस्यैतस्य चन्द्रगुप्तस्य सचिवः कौटिल्यः प्राचीना-

चार्यविरचितान्यर्थशास्त्राणि सङ्क्षिप्यैकमिदं षट्सहस्रग्रन्थपरिमितमर्थशास्त्रं1प्रणिनायेत्येतस्मादेवार्थशास्त्रादिव दण्डिविरचिताद्दशकुमारचरितादपि स्पष्टमाकल्यते—

“अधीष्व तावद्दण्डनीतिम्. इयमिदानीमाचार्यविष्णुगुप्तेन मौर्यार्थे षड्भिः श्लोकसहस्रैस्सङ्क्षिप्ता. सैवेयमधीत्य सम्यगनुष्ठीयमाना यथोक्तकर्मक्षमेति” इति दशकुमारचरितेऽष्टम उच्छ्वासे चन्द्रगुप्तोपदेशायैवेदमर्थशास्त्रं कृतमिति दण्डिना विशदीकृतम् एवं च—“सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च।कौटिल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः” इत्यध्यक्षप्रचारे दशमेऽध्याये प्रयुक्तो नरेन्द्रशब्दो मौर्यचन्द्रगुप्तमेवाभिदधातीति भाति.

ये चार्थशास्त्रविषया दण्डिना “इयत ओदनस्य पाकायैतावदिन्धनम्” इत्यारभ्य “प्राहसीत्प्रफुल्ललोचनः प्रमदाजनः”2 इत्यन्तेन ग्रन्थजालेन प्रमदाजनहास्यास्पदतां नीतास्तेऽप्येतदर्थशास्त्रगताएवेत्यधस्ताद्दर्शितटिप्पण्यां बाढमाकलयितुं शक्यते—

(1) “इयत ओदनस्य पाकायैतदिन्धनम्” (1) “काष्ठपञ्चविंशतिपलं तण्डुलप्रस्थसाधनम्” अधि. II, अध्या. 19.

[TABLE]

अपि च“किं वा तेषां साम्प्रतं येषामतिनृशंसप्रायोपदेशनिर्घृणं कौटिल्यशास्त्रं प्रमाणं, अभिचारक्रियाक्रूरैकप्रकृतयः पुरोधसो गुरवः, पराभिसन्धानपरा मन्त्रिणः उपदेष्टारः, नरपतिसहस्रोज्झितायां लक्ष्म्यामासक्तिः, मारणात्मकेषु शास्त्रेष्वभियोगः, सहजप्रेमार्द्रहृदयानुरक्ता भ्रातर उच्छेद्याः3” इति कादम्बर्योबाणेनापि कौटिलीयार्थशास्त्रे

कण्टकशोधनाद्यधिकरणेषु प्रतिपादिता दूष्यवधाद्युपायास्स्पष्टं निन्दिता दृश्यन्ते. पुरातनप्रसिद्धश्रीहर्षादिराजास्थानेषु माननीयपदवीमारूढैः बाणादिभिः विद्वद्भिः कृतैषैव निन्दाऽर्थशास्त्रोपदेशधिक्काराय कारणमभूदिति स्पष्टमवगम्यते. अतश्च यान्यर्थशास्त्राणि “मानवाः”‚ “औशनसः”,“बार्हस्पत्याः”, “विशालाक्षः”,“पिशुनः”, “वातव्याधिः” इति कौटिल्येन तत्तद्ग्रन्थकृन्नाम्नाऽनूदितानि तान्युत्तरकालिकविद्वद्भिर्धिक्कृतानि खिलान्यासन्निति बाढं सुवचम्.

“किं च—क्रिस्ताब्दारम्भात्पूर्वमुत्तरं वा भरतखण्डमपहाय बलिद्वीपमाश्रितवद्भिरार्यजनैः यः कामन्दकीयनीतिसारो नाम राजनीतिग्रन्थः सङ्गृहीतोऽद्यापि बलिद्वीपे दृश्यत इति श्रूयते तस्मिन्नीतिसारे ग्रन्थादौ,

“नीतिशास्त्रामृतं धीमानर्थशास्त्रमहोदधेः।
समुद्दध्रेनमस्तस्मै विष्णुगुप्ताय वेधसे”॥

इति वदता कामन्दकेनापि कौटिलीयार्थशास्त्रमेतदेव बाढं परिज्ञातपूर्वमासीदिति न कोऽपि सन्देहः.

किंच—“ततो धर्मशास्त्राणि मन्वादीन्यर्थशास्त्रणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि”इति पञ्चतन्त्रे कथामुखे वदन् पञ्चतन्त्रकर्ताऽपि कौटिलीयार्थशास्त्रे कृतपरिचयोऽभूदिति स्पष्टमवगम्यते.

यच्च नन्दिसूत्रनामके जैनग्रन्थे—

** “खमए अमच्चपुत्ते चाणक्के चैव थूलबद्देय।”4**

(क्षपकः अमात्यपुत्रः चाणक्यश्चैव स्थूलभद्रश्च) इति क्षपकामात्यपुत्रचाणक्यस्थूलभद्राणां पारिणामिकीबुद्धिं दृष्टान्तद्वारेण विशदीकृत्य “भारहं रामायणं भीमासुरक्कंकोडिल्लियम्”5 इति भारतरामायणभीमासुरीयककौटिलीयकानि मिथ्याशास्त्रत्वेन निर्दिष्टानि, तत्र कौटिलीयशब्देनैतदेव चाणक्यकृतमर्थशास्त्रमभिप्रेतमिति बाढं सुवचम्.

यच्च यशोधरमहाराजसमकालेन सोमदेवसूरिणा नीतिवाक्यामृतं नाम नीतिशास्त्रं विरचितं तदपि कामन्दकीयमिव कौटिलीयार्थशास्रादेव सङ्क्षिप्य सङ्गृहीतमिति तद्ग्रन्थपदवाक्य शैलीपरीक्षायां निस्संशयं ज्ञायते.

मल्लिनाथसूरिणाऽपि रघुवंशे सप्तदशसर्गे एकोनपञ्चाशश्लोकव्याख्याने षट्सप्ततितमश्लोकव्याख्याने च‚ तथाऽष्टादशसर्गे पश्चाशश्लोकव्याख्याने चार्थशास्त्रीयपारिभाषिकशब्दाभिधेयप्रमाणतया कौटिलीयार्थशास्त्रपङ्किरुदाहृता दृश्यते.

अतश्च क्रिस्ताब्दारम्भादा च क्रिस्ताब्दानां पञ्चदशशतकादर्थशास्त्रमिदं विद्वद्भिः कृतपरिचयं प्रथितमासीदिति स्पष्टम्.

यच्चैतदर्थशास्त्रस्य याज्ञवल्क्यस्मृतिव्यवहारकाण्डस्य चेतरस्मृत्यसाधारणमानुपूर्वीसाम्यंतत्रतत्राधस्तनटिप्पण्यामत्र ग्रन्थे प्रदर्शितं तत्रेयमाशङ्का प्रसरति, किमिदमर्थशास्त्रं याज्ञवल्क्यस्मृत्युत्तरकालिकमथवा सैव स्मृतिरेतदर्थशास्त्रोत्तरकालिकी, आहोस्विदेतद्ग्रन्थद्वयमप्युभयसाधारणग्रन्थान्तरानुरोधि? इति

तत्र “युक्तकर्मणि चायुक्तस्य”6इति राज्यकार्येऽनधिकृतस्य राज्याधिकृतकार्यकरणे दण्डविधानपरमर्थशास्त्रवाक्यं, “अयोग्यो योग्यकर्मकृत्” इत्ययोग्यस्य शूद्रादेर्योग्यब्राह्मणादिकर्मकरणे दण्डः इत्यर्थान्तरे प्रयुञ्जानस्स्मृतिकर्ता प्रायेण चाणक्योत्तरकालिक एव स्यादिति भाति. किं च “शापथवाक्याभियोगमनिसृष्टं कुर्वतः”7इति राजाननुज्ञातस्य प्रमाणपूर्वकं चोरादिवाक्यकर्मपरीक्षायां दण्डविधायकमर्थशास्त्रवाक्यं, “अयुक्तं शपथं कुर्वन्” इत्यनुचितशपथकरणे दण्डविधानपरत्वेन स्मृतौ व्यत्यस्तं दृश्यते. तथा “पाणिपाददन्तभङ्गे कर्णनासाच्छेदने प्राणविदारणे चान्यत्र दुष्टव्रणेभ्यः”8 इति दुष्टव्रणोद्भेदनिमित्तान्यनिमित्तककरादिच्छेदने प्राणविदारणे च दण्डविधायकमर्थशास्त्रवाक्यं “करपाददतो भङ्गेछेदने कर्णनासयोः। मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा।” इति व्रणोद्भेदेऽपि दण्डविधायकपरत्वेन स्मृतौ व्यत्यस्तंदृश्यते. एते चान्येऽपि व्यत्यस्त-

विषयाःयथावदर्थाज्ञानमूलका वा स्वोत्प्रेक्षामूलका वेति याज्ञवल्क्यीयत्वेनाधुनोपलभ्यमानायास्स्मृतेरुत्तरकालिकत्वं स्पष्टयन्ति.

अथापि चाणक्यात्पूर्वेन धर्मशास्त्राण्यासन्निति वक्तुं न शक्यते, यतः “शास्त्रं विप्रतिपद्येत धर्मन्यायेन केनचित्। न्यायस्तत्र प्रमाणं स्यात्तत्र पाठो हि नश्यति॥”9इति न्यायविरुद्धस्य धर्मशास्त्रवचनस्य स्वमूलश्रुतिपाठाज्ञानमूलकत्वेन त्याज्यतां वदता कौटिल्येन स्वकालेऽपि धर्मशास्त्रसत्ता स्पष्टमभ्युपगता दृश्यते. याज्ञवल्क्यस्मृतावपि “अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः” इति चाणक्योक्तिविपरीतमेवोक्तं दृश्यते. अतश्च याज्ञवल्क्यस्मृतिकर्तुः कालेऽर्थशास्त्रमासीदिति चाणक्यस्य काले च धर्मशास्त्रमासीदिति च सिद्धम्. परं तु चाणक्यस्य कालेऽधुनोपलभ्यमानं याज्ञवल्क्यधर्मशास्त्रं नासीदिति भाति. न ह्येककाल एव व्रणोद्भेदोऽपराधोऽनपराध इति च गृह्यते. नाप्येककाल एव युक्तायुक्तशब्दौ राज्याधिकृतानधिकृतपरत्वेन योग्यायोग्यपरत्वेन च प्रयुज्येते. अतश्च चाणक्यकालिकं धर्मशास्त्रमधुनातनाद्याज्ञवल्क्यधर्मशास्त्रादन्यदेवासीदिति भाति. एवमेव ये पुनर्मानवबार्हस्पत्यौशनसा भिन्नाभिप्रायास्तत्रतत्र कौटिल्येन परामृष्टाः न तेऽधुनोपलभ्यमानेषु तत्तद्धर्मशास्त्रेषु दृश्यन्त इति कौटिल्यपरामृष्टानि तानि शास्त्राण्यन्यान्येवेति बाढं सुवचम्.

यत्तु न कोऽपि ग्रन्थकर्ता स्वनामनिर्देशपूर्वकं स्वाभिप्रायं व्यनक्तीत्यधुनातनसम्प्रदायमुररीकृत्य केचित्पाश्चात्यविद्वांसः“इति बादरायणः”, “इत्याह बोधायनः”‚ “नेति कौटिल्यः”, इति निर्दिष्टबादरायणबोधायनादिनामानो ग्रन्था न बादरायणबोधायनादिकृता इति मन्यन्ते तत्प्राचीनार्यविद्वत्सम्प्रदायानववो धमूलकमेव। पराभिप्रायनिराकरणपूर्वकं स्वाभिप्रायप्रकटनं ही ग्रन्थकृतामस्मच्छब्दप्रयोगेण वा स्वनामनिर्देशेन वा कर्तुं शक्यते अहन्ताबोधकास्मच्छब्दप्रयोगोऽहन्तात्यागे बद्धमानसेभ्यो भरतखण्डीयावद्वद्भयो नाद्यापि रोचते अतश्च स्वनामनिर्देशेनैव स्वाभिप्रायप्रकटनमनुल्लङ्घनीयमासीत् तथा च “इति कौटिल्यः” इत्यनेकशोऽत्रार्थशास्त्रे प्रयोगे दृश्यमानेऽपि नेदमर्थशास्त्रं कौटिल्यकृतमपि तु तच्छिष्यकोटौ केनचिद्विचितमिति न युक्तं वक्तुम्. अतश्च—

“येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः।
अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदं कृतम्”॥

इतीदंशब्दप्रयोगोऽस्य ग्रन्थस्य चाणक्यकृतत्व एव युज्यते.

किंच—मन्वादिस्मृतीनां भिन्नकर्तृतायां न केवलं मन्वादिबोधितत्वेन चाणक्येन परामृष्टानामभिप्रायाणामधुनोपलभ्यमानासु तासु स्मृतिष्वभाव एव कारणमपि तु “एतद्वोऽयं भृगुश्शास्त्रं श्रावयिष्यत्यशेषतः” इति मानवीयं वचनं‚ या-

ज्ञवल्क्यस्मृतेस्तु “याज्ञवल्क्यशिष्यः कश्चन प्रश्नोत्तररूपं याज्ञवल्क्यप्रणीतं धर्मशास्त्रं सङ्क्षिप्य कथयामास यथा मनुप्रोक्तं भृगुः” इति विज्ञानेश्वरवचनं च कारणं दरीदृश्यते. कौटिलीयार्थशास्त्रविषये तु न तादृशं कारणं दृश्यत इतीदमर्थशास्त्रं कौटिल्यकृतमेवेति सुवचम्.

अर्थशास्त्रापेक्षया धर्मशास्त्रस्य प्राबल्याभ्युपगमे च कारणानि न दुरूहानि.गूढचारमुखाद्दूष्यज्ञानं, दूष्यवधोपायाः,परस्परद्वेषनिमित्तं, विवाहबन्धमोचनं, प्रोषितभर्तृकाणां मृतभर्तृकाणां च स्त्रीणां पुनर्विवाहः, ऋतुमत्यास्स्वयंवरणं, दुर्भिक्षोपद्रवनिवारणाय धनिकानां वमनं कर्शनं वा, औपनिषदिकाधिकरणोक्ताः काणकुष्ठादियोगाः, इत्यादयोऽर्थशास्त्रोपदिष्टाः निखिलजनद्विष्टा उपायाः धर्मशास्त्रकारैर्दूरीकृता इति भाति.

यथा ग्रीक्जनाः भरतखण्डीयराज्यनीतिमवर्णयन् तथैवात्रार्थशास्त्रे प्रतिपादिता राजनीतिरिति ‘विन्सेंट् स्मित्’ नाम्ना पाश्चात्यविदुषा स्वीयभरतखण्डचरित्रे समुल्लिखितं दृश्यते. अतश्चास्यार्थशास्त्रस्य प्राचीनता बाढं परिदृश्यते.

कोशान्तरानुपलम्भात्तालपत्रेषु ग्रन्थाक्षरैर्लिखितामेकामेव मूलमातृकां, द्वितियाधिकरणाष्टमाध्यायादारभ्य अधिकरणसमाप्तिपर्यन्तमुपलब्धां भट्टस्वामिकृतां प्रतिपदपञ्चिकानाम्नीं व्याख्यां च परीक्ष्यैतद्ग्रन्थमुद्रणं साधितम्.

MYSORE,  

5th November 1908.

}

                     **R. SHAMA SASTRY**.

विषयानुक्रमणिका

____________

I.विनयाधिकारिकम्
राजवृत्तिर्नाम प्रकरणाधिकरणसमुद्देशः
विद्यासमुद्देशः, आन्वीक्षिकीस्थापना, त्रयीस्थापना, वार्तास्थापना, दडनीतिस्थापना
वृद्धसंयोगः
इन्द्रियजयः, अरिषड्वर्गत्यागः, राजर्षिवृत्तम्
अमात्योत्पत्तिः
मन्त्रिपुरोहितोत्पत्तिः
उपधाभिश्शौचाशौचज्ञानममात्यानाम्
गूढपुरुषोत्पत्तिः, संस्थोत्पतिः
गूढपुरुषप्रणिधिः, संचारोत्पत्तिः
स्वविषये कृत्याकृत्यपक्षरक्षणम्
परविषये कृत्याकृत्यपक्षोपग्रहः
मन्त्राधिकारः
दूतप्रणिधिः
राजपुत्ररक्षणम्
अवरुद्धवृत्तम्
अवरुद्धे वृत्तिः
राजप्रणिधिः
निशान्तप्रणिधिः
आत्मरक्षितकम II
** II.अध्यक्षप्रचारः-**
जनपदनिवेशः
भूमिच्छिद्रविधानम्
दुर्गविधानम्
दुर्गनिवेशः
सन्निधातृचेयकर्म
समाहर्तृसमुदयप्रस्थापनम्
अक्षपटले गाणनिक्याधिकारः
समुदयस्य युक्तापहृतस्य प्रत्यायनम्
उपयुक्तपरीक्षा
शासनाधिकारः
कोशप्रवेश्यरत्नपरीक्षा
आकरकर्मान्तप्रवर्तनम्
अक्षशालायां सुवर्णाध्यक्षः
विशिखायां सौवर्णिकप्रचारः
कोष्ठागाराध्यक्षः
पण्याध्यक्षः
कुप्याध्यक्षः
आयुधागाराध्यक्षः
तुलामानपौतवम्
देशकालमानम्
शुल्काध्यक्षः, शुल्कव्यवहारः
सूत्राध्यक्षः
सीताऽध्यक्षः
सुराऽध्यक्षः
सूनाध्यक्षः
गणिकाऽध्यक्षः
नावध्यक्षः
गोऽध्यक्षः
अश्वाध्यक्षः
हस्त्यध्यक्षः, हस्तिप्रचारः
ग्याध्यक्षः, पत्त्यध्यक्षः, सेनापतिप्रचारः
मुद्राऽध्यक्षः, विवीताध्यक्षः
समाहर्तृप्रचारः, गृहपतिवैदेहकतापसव्यञ्जनाः प्रणिधयः
नागरकप्रणिधिः
III. धर्मस्थीयम्—
व्यवहारस्थापना, विवादपदनिबन्धः
विवाहसंयुक्तम्, विवाहधर्मः, स्त्रीधनकल्प, आधिवेदनिकम, शुश्रूषा, मर्म, पारुष्यम्, द्वेषः, अतिचारः, उपकारः, व्यवहारप्रतिषेधः, निष्पतनं, पथ्यनुसरणं, ह्रस्वप्रवासः, दीर्घप्रवासः
दायविभागः, दायक्रमः, अंशविभागः, पुत्रविभागः
वास्तुकम्, गृहवास्तुकम्, वास्तुविक्रयः, सीमाविवादः, मर्यादास्थापनम्‚ बाधाबाधिकम्‚ विवोतक्षेत्रपथहिंसा
समयस्यानपाकर्म
ऋणादानम्
औपनिधिकम्
दासकर्मकरकल्पः, स्वाम्यधिकारः, भृतकाधिकारः
सम्भूयसमुत्थानम्
विक्रीतक्रीतानुशयः
दत्तस्यानपाकर्म
अस्वामिविक्रयः, स्वस्वामिसम्बन्धः
साहसम्
वाक्पारुष्यम्
दण्डपारुष्यम्
द्यूतसमाख्यम्, प्रकीर्णकानि
IV.कण्टकशोधनम्—
कारूकरक्षणम्
वैदेहकरक्षणम्
उषनिपातप्रतीकारः
गूढाजीविनां रक्षा
सिद्धव्यञ्जनैर्माणवप्रकाशनम्
शङ्कारूपकर्माभिप्रहः
आशुमृतकपरीक्षा
वाक्यकर्मानुयोगः
सर्वाधिकरणरक्षणम्
एकाङ्गवधनिष्क्रयः
शुद्धश्चित्रश्च दण्डकल्पः
कन्याप्रकर्म
अतिचारदण्डः
V. योगवृत्तम्—
दाण्डकार्मिकम्
कोशाभिसंहरणम्
भृत्यभरणीयम्
अनुजीविवृत्तम्
समयाचारिकम्
राज्यप्रतिसन्धानम्, एकैश्वर्यम्
VI.मण्डलयोनिः—
प्रकृतिसम्पदः
शमव्यायामिकम्
VII.षाड्गुण्यम् —
षाड्गुण्यसमुद्देशः, क्षयस्थानवृद्धिनिश्चयः
संश्रयवृत्तिः
समहीनज्यायसां गुणाभिनिवेशः, हीनसन्धिः
विगृह्यासनम्, सन्धायासनन्, विगृह्य यानम्, सन्धाय यानम्, सम्भूय प्रयाणम्
यातव्यामित्रयोरभिप्रहचिन्ता क्षयलोभविरागहेतवः प्रकृतीनां सामवायिकविपरिमर्शः
संहितप्रयाणिकम् परिपाणितापरिपणितापसृताश्च सन्धयः
द्वैधीभाविकास्सन्धिविक्रमाः
यातव्यवृत्तिः अनुग्राह्यमित्रविशेषाः
मित्रसन्धिः, हिरण्यसन्धिः, भूमिसन्धिः, अनवसितसन्धिः, कर्मसन्धिः
पार्ष्णिप्राहचिन्ता
हीनशक्तिपूरणम्
बलवता विगृह्योपरोधहेतवः दण्डोपनतवृत्तम्
दण्डोपनायिवृत्तम्
सन्धिकर्म, सन्धिमोक्षः
मध्यमचरितम्, उदासीनचरितम्, मण्डलचरितम्
VIII. व्यसनाधिकारिकम्—
प्रकृतिव्यसनवर्गः
राजराज्ययोर्व्यसनचिन्ता
पुरुषव्यसनवर्गः
पीडनवर्गः, स्तम्भवर्गः, कोशसङ्गवर्गः
बलव्यसनवर्गः, मित्रव्यसनवर्गः
IX. अभियास्यत्कर्म—
शक्तिदेशकालबलाबलज्ञानम्, यात्राकालाः
बलोपदानकालाः, सन्नाहगुणाः, प्रतिबलकर्म
पश्चात्कोपचिन्ता, बाह्याभ्यन्तरप्रकृतिकोपप्रतीकारः
क्षयव्ययलाभविपरिमर्शः
बाह्याभ्यन्तराश्चापदः
दूष्यशत्रुसंयुक्ताः
अर्थानर्थसंशययुक्ताः तासामुपायविकल्पजास्सिद्धयः
X. साङ्ग्रामिकम्—
स्कन्धावारनिवेशः
स्कन्धावारप्रयाणम्, बलव्यसनावस्कन्दकालरक्षणम्
कूटयुद्धविकल्पाः, स्वसैन्योत्साहनम्, स्वबलान्यबलव्यायोगः
युद्धभूमयः, पत्यश्वरथहस्तिकर्माणि
पक्षकक्षोरस्थानां बलाग्रतो व्यूहविभागः, सारगुल्फबलविभागः, पत्त्यश्वरथहस्तियुद्धानि
दण्डभोगमण्डलासंहतव्यूहनम्, तस्य प्रतिव्यूहस्थापनम्
XI. सङ्घवृत्तम्—
भेदोपदानानि, उपांशुदण्डः
XII. आवलीयसम्—
दूतकर्माणि
मन्त्रयुद्धम्
सेनामुख्यवधः, मण्डलप्रोत्साहनम्
शस्त्राग्निरसप्रणिधयः, बीवधासारप्रसारवधः
योगातिसन्धानम्, दण्डातिसन्धानम्,एकविजयः
XIII. दुर्गलम्भोपायः—
उपजापः
योगवामनम्
अपसर्पप्रणिधिः
पर्युपासनकर्म, अवमर्दः
लब्धप्रशमनम्
XIV. औपनिषदिकम्—
परघातप्रयोगः
प्रलम्भनम्, अद्भुतोत्पादनम्, भैषज्यमन्त्रप्रयोगः
स्वबलोपघातप्रतीकारः
XV. तन्त्रयुक्तिः—
तन्त्रयुक्तयः
  !\#[^167].png) 

शुद्धाशुद्धम्

  1. “प.६ अर्थशास्त्रम्” ↩︎

  2. “अष्टम उच्छ्वसि” ↩︎

  3. “P. 109, Kadambari Bombay Education Society’s Press.” ↩︎

  4. “प. 133 नन्दिसूत्रम्.” ↩︎

  5. “प. 391नन्दिसूत्रम्.” ↩︎

  6. “प. 197 अर्थशास्त्रम्” ↩︎

  7. “प.197 अर्थशास्त्रम्” ↩︎

  8. “प 195 अर्थशास्त्रम्” ↩︎

  9. “प. 150 अर्थशास्त्रम्” ↩︎