पक्षादीनाम् अथैकेन हत्वा शेषैः परिक्षिपेत् ।
उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत् ॥५८॥
परकोटी समाक्रम्य पक्षाभ्यां सप्रतिग्रहः ।
कोटिभ्यां जघनं हन्याद् उरसा च प्रपीडयेत् ॥५९॥
यतः फल्गु यतो भिन्नं यतो दूष्यैर् अधिष्ठितम् ।
ततो रिपुबलं हन्याद् आत्मनश् चोपबृंहयेत् ॥६०॥
सारं द्विगुणसारेण फल्गु सारेण पीडयेत् ।
संहतं च गजानीकैः प्रचण्डैर् अपसारयेत् ॥६१॥
दुर्जयान् करिणः सिंहवसासिक्तैर् मतङ्गजैः ।
आहन्यात् करिणीनां वा समूहैः साध्वधिष्ठितैः ॥६२॥
सलोहजालैर् दृढबन्धदन्तैः
सुकल्पितैर् ऊर्जितपादरक्षैः ।
प्रवीरयोधैर् मददुर्निवारैर्
हन्याद् गजेन्द्रैर् द्विषताम् अनीकम् ॥६३॥
एको ऽपि वारणपतिर् द्विषताम् अनीकं
युक्तं निहन्ति मदसत्त्वगुणोपपन्नः ।
नागेषु हि क्षितिभृतां विजयो निबद्धस्
तस्माद् गजाधिकबलो नृपतिः सदा स्यात् ॥६४॥