पञ्चारत्नि धनुस् तस्मिन् धन्विनं स्थापयेद् युधि ।
त्रिगुणे ऽश्वं गजरथौ योज्यौ पञ्चसु पञ्चसु ॥२५॥
शमान्तरस् तु पुरुषस् तुरङ्गस् त्रिशमान्तरः ।
कुञ्जरः स्यन्दनश् चैव स्मृतौ पञ्चशमान्तरौ ॥२६॥
तथा वा खलु युध्येरन् पत्त्यश्वरथदन्तिनः ।
यथा भवेन् न सम्बाधो व्यायामविनिवर्तने ॥२७॥
असङ्करेण युध्येरन् सङ्करः सङ्कुलावहः ।
महासङ्करयुद्धे च संश्रयेरन् महागजान् ॥२८॥
अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास् त्रयः ।
इति कल्प्यास् तु पञ्चाश्वा विधेयाः कुञ्जरस्य च ॥२९॥
पादगोपाश् च तावन्तः पुरुषा दश पञ्च च ।
विधानम् इति नागस्य कथितं स्यन्दनस्य च ॥३०॥
अनीकम् इति विज्ञेयम् इति कल्प्या नव द्विपाः ।
अनीकस्य च रन्ध्रं च पञ्चचापं प्रचक्षते ॥३१॥
इत्यनीकविधानेन स्थापयेद् व्यूहसम्पदः ।
उरस्यकक्षपक्षांश् च तुल्यान् एतान् प्रचक्षते ॥३२॥
उरः कक्षो च पक्षौ च मध्यः पृष्ठः प्रतिग्रहः।
कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह इष्यते ॥३३॥
उरस्यकक्षपक्षैस् तु व्यूहो ऽयं सप्रतिग्रहः ।
गुरोर् एष च शुक्रस्य कक्षाभ्यां परिवर्जितः ॥३४॥
अभेद्याः कुलजा मौला लब्धलक्षाः प्रहारिणः ।
सेनाङ्गपतयः कार्या युद्धदृष्टप्रतिक्रियाः ॥३५॥
प्रवीरपुरुषैर् एते तिष्ठेयुः परिवारिताः ।
अभेदेनैव युध्येरन् रक्षेयुश् च परस्परम् ॥३६॥
फल्गु सैन्यस्य यत् किञ्चिन् मध्ये व्यूहस्य तद् भवेत् ।
युद्धवस्तु च यत् किञ्चित् प्रायस् तज्जघने भवेत् ॥३७॥
युद्धार्थं युद्धकुशलं मुण्डानीकं प्रयोजयेत् ।
युद्धं हि नायकप्राणं हन्येत तदनायकम् ॥३८॥
व्यूहो ऽनुपृष्ठम् अचलः पत्त्यश्वरथदन्तिभिः ।
तथाप्रतिहतो ज्ञेयो हस्त्यश्वरथपत्तिभिः ॥३९॥
उरसि स्थापयेन् नागान् प्रचण्डान् कक्षयो रथान् ।
हयांश् च पक्षयोर् व्यूहो मध्यभेदी प्रकीर्तितः ॥४०॥
मध्यदेशे हयानीकं रथानीकं तु कक्षयोः ।
पक्षयोश् च गजानीकं व्यूहो ऽन्तभिद् अयं स्मृतः ॥४१॥
रथस्थाने हयान् दद्यात् पदातींश् च हयाश्रये ।
रथाभावे तु सर्वत्र नागान् एव प्रकल्पयेत् ॥४२॥
विभज्य प्रक्षिपेद् व्यूहे रथपत्त्यश्वकुञ्जरान् ।
यदि स्याद् दण्डबाहुल्यं स चावापः प्रकीर्तितः ॥४३॥
मण्डलो ऽसंहतो भोगो दण्डश् चेति मनीषिभिः ।
चत्वारः प्रकृतिव्यूहा भेदास् त्व् एषां प्रकीर्तिताः ॥४४॥
तिर्यग्वृत्तिस् तु दण्डः स्याद् भोगो ऽन्वावृत्तिर् एव च ।
मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिर् असंहतः ॥४५॥
प्रदरो दृढको ऽसह्यश् चापस् तत्कुक्षिर् एव च ।
प्रतिष्ठः सुप्रतिष्ठिश् च श्येनो विजयसञ्जयौ ॥४६॥
विशालविजयः सूची स्थूणाकर्णश् चमूमुखः ।
झषास्यो वलयश् चैव दण्डभेदाः सुदुर्जयः ॥४७॥
अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्यां कक्षपक्षतः ।
अतिक्रान्तश् च पक्षाभ्यां त्रयो ऽन्ये तु विपर्यये ॥४८॥
पक्षोरस्यैर् अतिक्रान्तः प्रविष्टो ऽन्यो विपर्यये ।
स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः ॥४९॥
द्विगुणान्त्यस् त्र्यभिक्रान्तपक्षो ऽन्यो ऽस्य विपर्यये ।
द्विचतुर्दण्ड इत्य् एते ज्ञेया लक्षणतः क्रमात् ॥५०॥
गोमूत्रिकाहिसारी च शकटो मकरस् तथा ।
भोगभेदाः समाख्यातास् तथा परिपतन्तिकः ॥५१॥
दण्डपक्षो युगोरस्यः शकटस् तद्विपर्यये ।
मकरो व्यवकीर्णश् च शेषः कुञ्जरवाजिभिः ॥५२॥
मण्डलव्यूहभेदौ च सर्वतोभद्रदुर्जयौ ।
अष्टानीको द्वितीयस् तु प्रथमः सर्वतोमुखः ॥५३॥
अर्धचन्द्रक उद्धानो वज्रो भेदास् त्व् असंहते ।
तथा कर्कटशृङ्गी च काकपादी च गोधिका ॥५४॥
त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः ।
इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः ॥५५॥
एते सप्तदश प्रोक्ता दण्डव्यूहास् तु भेदतः ।
तथा व्यूहद्वयं चैव मण्डलस्य समासतः ॥५६॥
असंहतास् तु षड् व्यूहा भोगव्यूहास् तु पञ्चधा ।
व्यूहज्ञैस् ते प्रयोज्याः स्युर् युद्धकाल उपस्थित् ए॥५७॥