गजेष्व् आरोपितः साधुः शीघ्रपातैर् अधिष्ठितः ।
यत्र राज तत्र कोशः कोशाधीना हि राजता ॥१९॥
प्रत्यग्रे कर्मणि कृते श्लाघमानः कृतादरः ।
योधेभ्यस् तु ततो दद्यात् को हि दातुर् न युध्यते ॥२०॥
दद्यात् प्रहृष्टो नियुतं भराणां राजघातिने ।
तदर्धं तत्सुतवधे सेनापतिवधे तथा ॥२१॥
प्रवीराणां तु मुख्यस्य शतं शतगुणं वधे ।
तदर्धं कुञ्जरवधे प्रदेयं स्यन्दनस्य च ॥२२॥
साहस्रो ऽश्ववधः शत्यः पत्तिमुख्यवधः स्मृतः ।
शिरो विंशतिकं शेषं भोगद्वैगुण्यम् एव च ॥२३॥
युग्यं हेम च कुप्यं च यो यज् जयति तस्य तत् ।
दद्याद् वस्त्वनुरूपं वा हृष्टो योधान् प्रहर्षयेत् ॥ २४॥