सस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टका ।
सापसारा पद्धातीनां भूर् नातिविषमा मता ॥१०॥
स्वल्पवृक्षोपला क्षिप्रलङ्घनीयदरा स्थिरा ।
निःशर्करा विपङ्का च सापसारा च वाजिभूः ॥११॥
निःस्थाणुसिकतापङ्का निर्वल्मीकोपला समा ।
केदारव्रततिश्वभ्रवृक्षगुल्मविवर्जिता ॥१२॥
निरुत्खाता निर्दरणा खुरचङ्क्रमणक्षमा ।
स्थिरा चक्रसहा चैव रथभूमिः प्रकीर्तिता ॥१३॥
मर्दनीयतरुश्छेद्यव्रततिः पङ्कवर्जिता ।
सुगम्यशैलविषमा हस्तिभूर् इति कीर्तिता ॥१४॥
नागम्या नाम भूर् एषां तेन नागाः स्मृता बुधैः ।
तस्माद् एता भुवो ऽत्यर्थं नागानां सम्प्रकीर्तिताः ॥१५॥
तुरगादीनि भिन्नानि प्रतिगृह्णाति यद् बलम् ।
प्रतिग्रह इति ख्यातः स तु कार्यो भरक्षमः ॥१६॥
तेन शून्यस् तु यो व्यूहः स भिन्न इव लक्ष्यते ।
तस्माद् विद्वाञ् जयाकाङ्कक्षी न युध्येताप्रतिग्रहः ॥१७॥
जयार्थी नृपतिस् तिष्ठेद् दूरं गत्वा प्रतिग्रहः ।
भिन्नं च प्रतिगृह्णीयान् न हि युध्येत तं विना ॥१८॥