०१ गजाश्वरथपत्तिकर्मप्रकरणम्

प्रयाणे पूर्वयायित्वं वनदुर्गप्रवेशनम् ।
अकृतानां च मार्गाणां तीर्थानां च प्रवर्तनम् ॥१॥

तोयावतारसन्ताराव् एकाङ्गविजयस् तथा ।
अभिन्नानाम् अनीकानां भेदनं भिन्नसङ्ग्रहः ॥२॥
बिभीषिकाभिघातश् च प्राकारद्वारभञ्जनम् ।
कोशनीतिर् भयत्राणं हस्तिकर्म प्रचक्षते ॥३॥

चतुरङ्गस्य सैन्यस्य निषेधो बलरक्षणम् ।
अभिन्नभेदनं भिन्नसन्धानं रथकर्म तत् ॥४॥

वनदिङ्मार्गविचयो वीवधासाररक्षणम् ।
अनुयानापसरणे शीघ्रकार्योपपादनम् ॥५॥

दीनानुसरणं घातः कोटीनां जघनस्य च ।
इत्य् अश्वकर्म पत्तेश् च सर्वदा शस्त्रधारणम् ॥६॥

शोधनं कूपतीर्थानां मार्गाणां शिबिरस्य च ।
यवसादि च यत् किञ्चिद् विज्ञेयं विष्टिकर्म तत् ॥७॥

जातिः सत्त्वं वयः स्थानं प्राणिता वर्ष्म वेगिता ।
तेजः शिल्पम् उदग्रत्वं स्थैर्यं साधु विधेयता ॥८॥

सुव्यञ्जनाचारतेति पत्तिकुञ्जरवाजिनाम् ।
इति लक्षणम् एतेन युक्तान् कर्मसु योजयेत् ॥९॥