विशिष्टो देशकालाभ्यां भिन्नारिप्रकृतिर् बली ।
कुर्यात् प्रकाशयुद्धं हि कूटयुद्धं विपर्यये ॥५४॥
तेष्व् अवस्कन्दकालेषु परं हन्यात् समाकुलम् ।
अभूमिष्ठं स भूमिष्ठस् तद्भूमौ चोपजापतः ॥५५॥
प्रकृतिप्रग्रहाकृष्टं पाशैर् वनचरादिभिः ।
हन्यात् प्रवीरपुरुषैर् भङ्गदानापकर्षणैः ॥५६॥
पुरस्ताद् दर्शनं दत्त्वा तल्लक्षकृतनिश्चयः ।
हन्यात् पश्चात् प्रवीरेण बलेनोत्पीड्य वेगिना ॥५७॥
पश्चाद् वा सङ्कुलीकृत्य हन्यात् सारेण पूर्वतः ।
आभ्यां पार्श्वावघातौ तु व्याख्यातौ कूटयोधने ॥५८॥
पुरस्ताद् विषमे देशे पश्चाद् धन्यात् तु वेगवान् ।
पुरः पश्चाच् च विषम एवम् एव तु पार्श्वयोः ॥५९॥
प्रथमं योधयित्वा च दूष्यामित्राटवीबलैः ।
श्रान्तं सन्नं निराक्रन्दं हन्याद् अश्रान्तवाहनः ॥६०॥
दूष्यामित्रबलैर् वापि भङ्गं दत्त्वा प्रयत्नवान् ।
जितम् इत्येव विश्वस्तं हन्यात् सत्त्वव्यपाश्रयः ॥६१॥
स्कन्धावारपुरग्रामसस्यसार्थव्रजादिषु ।
विलोभ्य च परानीकम् अप्रमत्तो विनाशयेत् ॥६२॥
फल्गुसैन्यप्रतिच्छन्नं कृत्वा वा सारवद्बलम् ।
मन्दयत्नं तद्विलोपे हन्याद् उत्प्लुत्य सिंहवत् ॥६३॥
मृगयासम्प्रसक्तं वा हन्याच् छत्रुम् अपाश्रयम् ।
अथ वा गोग्रहाकृष्ट्या तल्लक्षं मार्गबन्धनात् ॥६४॥
अवस्कन्दभयाद् रात्रौ प्रजागरकृतश्रमम् ।
दिवाप्रसुप्तं वा हन्यान् निद्राव्याकुलसैनिकम् ॥६५॥
अहःसन्नाहतः श्रान्तम् अपराह्णे विनाशयेत् ।
निशि विस्रम्भसुप्तं वा तत्सौप्तिकविधानवित् ॥६६॥
सपादकोशावरणैर् नागैः कुर्यात् तु सौप्तिकम् ।
कुर्याद् उग्रजवोपेतैर् नरैर् वा खड्गपाणिभिः ॥६७॥
प्रतिसूर्यमहावातं हन्यात् सम्मिलितेक्षणम् ।
इत्येवं कूटयुद्धेन हन्याच् छत्रून् लघूत्थितः ॥६८॥
नीहारतिमिराङ्गारश्वभ्राग्निवननिम्नगाः ।
वदन्ति सत्रम् इत्यादि सत्रं छद्म प्रकीर्तितम् ॥६९॥
साध्वप्रमत्तो व्यवसायवर्ती
येन प्रकारेण परं निहन्यात् ।
चरैः समावेदिततत्प्रचारः
शङ्केत तेनैव ततो ऽप्रमत्तः ॥७०।
सुनियतम् उपहन्यात् कूटयुद्धेन शत्रून्
न हि तिरयति धर्मं छद्मना शत्रुघातः ।
अचकितम् अवसुप्तं पाण्डवानाम् अनीकं
निशि सुनिशितशस्त्रो द्रोणसूनुर् जघान ॥७१॥