०३ प्रयाणव्यसनरक्षणप्रकरणम्

नायकः पुरतो यायात् प्रवीरपुरुषावृतः ।
मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ॥४५॥

पार्श्वयोर् उभयोर् अश्वा अश्वानां पार्श्वयो रथाः ।
रथानां पार्श्वयोर् नागा नागानां चाटवीबलम् ॥४६॥

पश्चात् सेनापतिः सर्वं पुरस्कृत्य कृती स्वयम् ।
यायात् सन्नद्धसैन्यौघः खिन्नानाश्वासयञ् छनैः ॥४७॥

यायाद् व्यूहेन महता मकरेण पुरोभये ।
श्येनेनोद्धृतपक्षेण सूच्या वा वीरवक्त्रया ॥४८॥

पश्चाद्भये तु शकटं पार्श्वयोर् वज्रसञ्ज्ञितम् ।
सर्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत् ॥४९॥
कन्दरे शैलगहने निम्नगावनसङ्कटे ।
दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लमम् ॥५०॥

व्याधिदुर्भिक्षमारकपीडितं दस्युभिर् द्रुतम् ।
पङ्कपांसुजलच्छन्नं व्यस्तं पुञ्जीकृतं पथि ॥५१॥

प्रसुप्तं भोजनव्यग्रम् अभूमिष्ठम् असंस्थितम् ।
चोराग्निभयवित्रस्तं वृष्टिवातसमाकुलम् ॥५२॥

एवमादिषु जातेषु व्यसनेष्व् असमाकुलः ।
स्वसैन्यं साधु संरक्षेत् परसैन्यं च घातयेत् ॥५३॥