०२ सेनापतिप्रचारप्रकरणम्

कुलोद्गतं जानपदं मन्त्रज्ञं मन्त्रिसम्मतम् ।
दण्डनीतेः प्रयोक्तारम् अध्येतारं च तत्त्वतः ॥२७॥

सत्यसत्त्वक्षमास्थैर्यमाधुर्यार्यगुणान्वितम् ।
प्रभावोत्साहसम्पन्नम् आजीव्यम् अनुजीविनाम् ॥२८॥
मित्रवन्तम् उदाराढ्यं बहुस्वजनबान्धवम् ।
व्यवहारिणम् अक्षुद्रं पौरप्रकृतिसम्मतम् ॥२९॥

नित्याकारणवैराणाम् अकर्तारम् अनाविलम् ।
शुभानुबन्धिकर्माणम् अल्पामित्रं बहुश्रुतम् ॥३०॥

अरोगं व्यायतं शूरं त्यागिनं कालवेदिनम् ।
कल्याणाकृतिसम्पन्नं सत्सम्भाव्यपराक्रमम् ॥३१॥

गजाश्वरथचर्यासु शिक्षितं सुजितश्रमम् ।
खड्गयुद्धे नियुद्धे च शीघ्रचङ्क्रमणक्षमम् ॥३२॥

युद्धभूमिविभागज्ञं सिंहवद् दृढविक्रमम् ।
अदीर्घसूत्रं निस्तन्द्रम् अमर्षणम् अनुद्धतम् ॥३३॥

हस्त्यश्वरथशस्त्राणां सम्यग्लक्षणवेदिनम् ।
नरान्तरविवेकज्ञं कृतज्ञम् अनुकम्पकम् ॥३४॥

वर्मकर्मसमायोगे कुशलं कुशलानुगम् ।
सर्वयुद्धक्रियोपेतं शक्तं तत्परिकर्मणि ॥३५॥

स्वभावचित्तज्ञतया युक्तम् अश्वनृदन्तिनाम् ।
तन्नाम्नां चापि वेत्तारं तद्विधानोपपादकम् ॥३६॥

देशभाषास्वभावज्ञं लिपिज्ञं सुदृढस्मृतिम् ।
निशाप्रचारकुशलं शकुनज्ञाननिश्चितम् ॥३७॥

उदयास्तमयज्ञं च नक्षत्राणां ग्रहैः सह ।
दिग्देशमार्गविज्ञानसम्पन्नं तज्ज्ञसेवितम् ॥३८॥

क्षुत्पिपासाक्लमत्रासशीतवातोष्णवृष्टिभिः ।
अनाहितभयक्लान्तिं तत्संविग्नाभयप्रदम् ॥३९॥

हन्तारं परसैन्यानां दुःसाध्याहितनिश्चयम् ।
हतानां च स्वसैन्यानां सम्यग्विष्टम्भनक्षमम् ॥४०॥

अवस्कन्दाभिमन्तारं वेत्तारं सैन्यकर्मणाम्।
परदूतप्रचारज्ञं महारम्भफलोपगम् ॥४१॥
शश्वत्संसिद्धकर्माणं सिद्धकर्मनिषेवितम् ।
पराभवेष्व् अनिर्विण्णं श्रीमद्राजार्थतत्परम् ॥४२॥

इत्यादिलक्षणोपेतं कुर्वीत ध्वजिनीपतिम् ।
ध्वजिनीं तु सदोद्युक्तः स गोपयेद् दिवानिशम् ॥ ४३॥

नद्यद्रिवनदुर्गेषु यत्र यत्र भयं भवेत् ।
सेनापतिस् तत्र तत्र गच्छेद् व्यूहीकृतैर् बलैः ॥४४॥