सामादीनाम् उपायानां त्रयाणां विफले नये ।
विनयेन् नयसम्पन्नो दण्डं दण्ड्येषु दण्डवित् ॥१॥
देवान् अभ्यर्च्य विप्रांश् च प्रशस्तग्रहतारकम् ।
षड्विधं तु बलं व्यूह्य द्विषतो ऽभिमुखं व्रजेत् ॥२॥
मौलं भृतं श्रेणि सुहृद्द्विषदाटविकं बलम् ।
पूर्वं पूर्वं गरीयस् तु बलानां व्यसनं तथा ॥३॥
सत्काराद् अनुरागाच् च सहसङ्कथनासनात् ।
नित्यं तद्भावभावित्वान् मौलं भृतबलाद् गुरु ॥४॥
सन्निकृष्टतया नित्यं क्षिप्रोत्थानतयापि च ।
वृत्तेश् च स्वाम्यधीनत्वाद् भृतं श्रेणिबलाद् गुरु ॥५॥
तुल्यसङ्घर्षणामर्षात् सुखलाभात् तथैव च ।
बलाज् जानपदत्वाच् च मैत्राच् छ्रेणिबलं गुरु ॥६॥
असङ्ख्यदेशकालत्वाद् एकार्थोपगमात् तथा ।
बलान् मेदनयोगाच् च शत्रोर् मित्रबलं गुरु ॥७॥
प्रकृत्याधार्मिका लुब्धा अनार्याः सत्यभेदिनः ।
तस्माद् आरण्यकतया तेभ्यः शत्रुबलं गुरु ॥८॥
उभयं तद्विलोपार्थं कालापेक्षं व्यवस्थितम् ।
विलोपे व्यसने चैव तत्रास्य विजयो ध्रुवः ॥९॥
उपजापकृतात् तु स्याद् भयम् अस्माद् विशेषतः ।
परस्य चाप्य् उपजपेद् उपजापाद् ध्रुवो जयः ॥१०॥
स्फीतसारानुरक्तेन मौलेनोपचितः परः ।
तत्तुल्येनैव यातव्यः क्षयव्ययसहिष्णुना ॥११॥
प्रकृष्टे ऽध्वनि काले वा गच्छेन् मौलैः सुमानितैः ।
मौलास् तु दीर्घकालत्वात् क्षयव्ययसहिष्णवः ॥१२॥
एषु वस्तुषु मेधावी भृतादीनि विवर्जयेत् ।
दीर्घाध्वकालखिन्नेषु तेषु भेदभयं भवेत् ॥१३॥
बहुत्वाद् एव सैन्यानां दीर्घकालाच् च खेदतः ।
नित्यप्रवासयानाभ्यां भेदो ऽवश्यं हि जायते ॥१४॥
प्रभूतं मे भृतबलं मौलम् अल्पम् असारवत् ।
अरेर् अल्पं विरक्तं वा मौलं प्रायो ऽल्पसारवत् ॥१५॥
प्रायो मन्त्रेण योद्धव्यम् अल्पायासेन चैव हि ।
अल्पः कालस् तु देशो वाप्रभूतौ च क्षयव्ययौ ॥१६॥
शान्तोपजापविश्वस्तम् अस्मत्सैन्यं परस्य वा ।
अल्पः प्रसारो हन्तव्य इत्य् उपेयाद् भृतैर् बलैः ॥१७॥
स्फीतं श्रेणिबलं शक्यम् आधातुं यानवस्तुनोः ।
ह्रस्वौ प्रवासव्यायामाव् इति श्रेण्या समुत्पतेत् ॥१८॥
प्रभूतं हि सुहृत्सैन्यं शक्यम् आधातुम् आत्मनि ।
अल्पप्रवासो मन्त्राच् च भूयो व्यायामयोधनम् ॥१९॥
मित्रसाधारणे कार्ये मित्रायत्ते फलोदये ।
अनुग्राह्ये च पीड्ये च मित्रेणैव सह व्रजेत् ॥२०॥
प्रभूतेनारिसैन्येन योधयेन् महतो रिपून् ।
श्वसूकरवधापेक्षी नयं चण्डालवन् नयेत् ॥२१॥
अत्यूर्जितं कोपभयाद् अभ्याशे तु रिपोर् बलम् ।
वासयेत् कर्शयेच् चैव दुर्गकण्टकमर्दनैः ॥२२॥
नित्यम् आटविकं सैन्यं दुर्गकण्टकशोधने ।
परदेशप्रवेशे च पुरस्कुर्वीत पण्डितः ॥२३॥
एतन् मौलादिषड्भेदं चतुरङ्गं बलं विदुः ।
षडङ्गं मन्त्रकोशाभ्यां पदात्यश्वरथद्विपैः ॥२४॥
इति षड्विधम् एतद् धि यथायोगं बलं बली ।
सुनिश्छिद्रं प्रतिव्यूह्य यायात् परबलं प्रति ॥२५॥
योगम् अस्य विजानीयात् सर्वं मन्त्रादिना नृपः ।
कृताकृतं प्रचारं च साधु सेनापतेस् तथा ॥२६॥