०१ उपायविकल्पप्रकरणम्

महाप्रज्ञानसम्पन्नः सहायैर् उपबृंहितः ।
उद्योगाध्यवसायाभ्याम् उपायान् निक्षिपेत् परे ॥१॥

चतुरङ्गं बलं मुक्त्वा कोशो मन्त्रश् च युध्यते ।
तत्साधुमन्त्रो मन्त्रेण कोशेन च जयेद् अरीन् ॥२॥

साम दानं च भेदश् च दण्डश् चेति चतुष्टयम् ।
मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः ॥३॥

परस्परोपकाराणां दर्शनं गुणकीर्तनम् ।
सम्बन्धस्य समाख्यानम् आयतेः सम्प्रदर्शनम् ॥४॥

वाचा पेशलया साधु तवाहम् इति चार्पणम् ।
इति सामप्रभेदज्ञैः साम पञ्चविधं स्मृतम् ॥५॥

यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ।
प्रतिदानं तथा तस्य गृहीतस्यानुमोदनम् ॥६॥

द्रव्यदानम् अपूर्वं च स्वयङ्ग्राहप्रवर्तनम् ।
देयस्य प्रतिमोक्षश् च दानं पञ्चविधं स्मृतम् ॥७॥

स्नेहरागापनयनं सङ्घर्षोत्पादनं तथा ।
सन्तर्जनं च भेदज्ञैर् भेदस् तु त्रिविधः स्मृतः ॥८॥

वधो ऽर्थहरणं चैव परिक्लेशस् तथैव च ।
इति दण्डविभागज्ञैर् दण्डस् तु त्रिविधः स्मृतः ॥९॥

प्रकाशश् चाप्रकाशश् च वधो द्विविध उच्यते ।
प्रकाशदण्डं कुर्वीत लोकद्विष्टे तथा रिपौ ॥१०॥

उद्वेज्यते हतैर् लोको यैर् ये स्युर् नृपवल्लभाः ।
बाधन्ते ऽभ्यधिका ये तु तेषूपांशु प्रशस्यते ॥११॥

विषेणोपनिषद्योगैः शस्त्रेणोद्वर्तनेन वा ।
तथोपांशु नयेद् दण्डं यथान्यो न विभावयेत् ॥१२॥
ब्राह्मणे जातिमात्रे ऽपि धार्मिके चान्त्यजे ऽपि वा ।
धर्मोन्निनीषया धीमान् न वधं दण्डम् आदिशेत् ॥१३॥

उपेक्षया वा हन्तव्या येषूपांशु प्रशस्यते ।
उपेक्षां चापि निपुणः प्रत्यक्षं परिवर्जयेत् ॥१४॥

प्रलिम्पन्न् इव चेतांसि दृष्ट्या साधु पिबन्न् इव ।
स्रवन्न् इवामृतं साम प्रुयुञ्जीत प्रियं वचः ॥१५॥

वाग् अनुद्वेगजननी सामेति परिकीर्त्यते ।
सामाख्ये सूनृते सान्त्वे प्रिये स्तोत्रे च कीर्त्यते ॥१६॥

आत्मनो विक्रयम् इव कुर्वन् दद्यात् समीहितम् ।
जलवत् पर्वताञ् छत्रून् भिन्द्याद् अनुपलक्षितः ॥१७॥

दण्डपाणिर् इवाधृष्यो दण्डं दण्ड्येषु पातयेत् ।
प्रत्यक्षाम् अपि चोपेक्षाम् अप्रत्यक्षाम् इवाचरेत् ॥१८॥

साम्नार्थसिद्धये विद्वान् यतेत यतमानसः ।
सामसिद्धिं प्रशंसन्ति सर्वतश् च विपश्चितः ॥१९॥

क्षीरोदो मथितः साम्ना फलायामरदानवैः ।
निजघ्निरे धार्तराष्ट्राः सामप्रद्वेषिणो ऽचिरात् ॥२०॥

दारुणं विग्रहं विद्वान् दानेन प्रशमं नयेत् ।
इन्द्रो ऽपचारे शुक्रस्य दानेन शमम् एयिवान् ॥२१॥

अपराधेन दुहितुः कुपिते भृगुनन्दने ।
वृषपर्वा च दानेन दानवेन्द्रो ऽभवत् सुखी ॥२२॥

उपच्छन्द्यापि दातव्यं बलिने शान्तिम् इच्छता ।
समूलम् एव गान्धारिर् अप्रयच्छन् गतः क्षयम् ॥२३॥

किञ्चित् प्रयच्छन् भूयस्या तृष्णया विप्रलोभयन् ।
भिन्द्याच् चतुर्विधान् भेद्यान् प्रविश्योभयवेतनैः ॥२४॥

अलब्धवेतनो लुब्धो मानी चाप्य् अवमानितः ।
क्रुद्धश् च कोपितो ऽकस्मात् तथा भीतश् च भीषितः ॥२५॥

यथाभिलषितैः कामैर् भिन्द्याद् एतांश् चतुर्विधान् ।
परपक्षे स्वपक्षे च यथावत् प्रशमं नयेत् ॥२६॥

भेदं कुर्वीत यत्नेन मन्त्र्यमात्यपुरोधसाम् ।
तेषु भिन्नेषु भिन्नं हि युवराजे तथोर्जिते ॥२७॥

अमात्यो युवराजश् च भुजाव् एतौ महीपतेः ।
मन्त्री नेत्रं हि तद्भिन्न एतस्मिन्न् अपि तद्वधः ॥२८॥

सर्वावस्थं तु मेधावी तत्कुलीनं विकारयेत् ।
विकृतस् तत्कुलीनस् तु स्वयोनिं ग्रसते ऽग्निवत् ॥२९॥

तत्कुलीनेन तुल्यस् तु पुमान् अभ्यन्तरोषितः ।
तस्माद् एतौ परे भिन्द्याच् छमं चात्मनि सन्नयेत् ॥३०॥

तत्रोपजापः कर्तव्यो यः कोपानुग्रहक्षमः ।
स कल्याणः शठो वेति परीक्ष्यः सूक्ष्मया धिया ॥३१॥

कल्याणस् तु यथाशक्ति करोति सफलं वचः ।
शठः पक्षौ चलयति द्वाव् अप्य् अर्थोपलिप्सया ॥३२॥

पूर्वं सम्भाषितो ऽनीचः कालयापनम् आश्रितः ।
मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः ॥३३॥

राजद्वेषी तत्कुलीनो द्विष्यते यश् च भूभुजा ।
आहितव्यवहारश् च तथा कारनिवेशितः ॥३४॥

रणप्रियः साहसिक आत्मसम्भावितस् तथा ।
विच्छिन्नधर्मकामार्थः क्रुद्धो मानी विमानितः ॥३५॥

भीतः स्वदोषवित्रस्तः कृतवैरो ऽतिसान्त्वितः ।
अतुल्येन सहासक्तस् तुल्यमानान् निराकृतः ॥३६॥

अकारणनिरुद्धश् च कारणाच् च विशेषतः ।
अकारणात् परित्यक्तः पूजार्हो ऽप्रतिपूजितः ॥३७॥

हृतद्रव्यकलत्रश् च महाभोगाभिकाङ्क्षितः ।
परिक्षीणो बहिर्बन्धुर् बहिर्द्रव्यो बहिष्कृतः ॥३८॥

इति भेद्याः समाख्याता भिन्द्याद् एतान् परे स्थितान् ।
आगतान् पूजयेत् कामैर् निजांश् च प्रशमं नयेत् ॥३९॥

समतृष्णानुसन्धानम् अत्युग्रभयदर्शनम् ।
प्रधानं दानमानं च भेदोपायाः प्रकीर्तिताः ॥४०॥

भेदं कुर्वीत मतिमान् विगृहीतो बलीयसा ।
शण्डामर्कौ सुरैर् भित्त्वा बलवन्तौ पराजितौ ॥४१॥

दण्डेन हि समाहन्याद् भित्त्वारेः संहतं बलम् ।
तत् काष्ठम् इव भिन्नं हि घुणजग्धं विशीर्यते ॥४२॥

उत्साहदेशकालैस् तु संयुक्तः सुसहायवान् ।
युधिष्ठिर इवात्यर्थं दण्डेनास्तं नयेद् अरीन् ॥४३॥

आत्मनः शक्तिम् उद्वीक्ष्य दण्डम् अप्य् अधिके नयेत् ।
एकाकी शक्तिसम्पन्नो रामः क्षत्रं पुरावधीत् ॥४४॥

अलसं विक्रमश्रान्तं विहतोपायचेष्टितम् ।
क्षयव्ययप्रवासैश् च सन्तप्तं विपरिद्रुतम् ॥४५॥

भीरुं मूर्खं स्त्रियं बालं धार्मिकं दुर्जनं पशुम् ।
मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत् ॥४६॥

लुब्धं क्षीणं च दानेन सत्कृत्य वशम् आनयेत् ।
अन्योन्यशङ्कया भिन्नान् दुष्टान् वै दण्डदर्शनात् ॥४७॥

पुत्रान् भ्रातॄंश् च बन्धूंश् च साम्नार्थेन च साधयेत् ।
एतैः कः सदृशो लोके दूरं विप्रकृतैर् अपि ॥४८॥

सामैतेषु प्रयुञ्जीत दैवात् प्रस्खलितेष्व् अपि ।
दुष्करां यान्ति विकृतिम् आर्याः शीलनिबन्धनाः ॥४९॥

कुलं शीलं दया दानं धर्मः सत्यं कृतज्ञता ।
अलोभ इति येष्व् एते तान् आर्यान् परिचक्षते ॥५०॥

पौराञ् जानपदांश् चैव दण्डमुख्यांश् च दण्डवित् ।
साधयेद् दानभेदाभ्यां यथायोगेन चापरान् ॥५१॥

अवरुद्धांस् तत्कुलीनान् सामन्तांश् च विचक्षणः ।
साधयेद् भेददण्डाभ्यां यथायोगेन चापरान् ॥५२॥

देवताप्रतिमास्तम्भसुषिरान्तर्गता नराः ॥

पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनम् ॥५३॥

वेतालोल्कापिशाचानां देवानां च सरूपता ।
इत्यादिमाया विज्ञेया मानुषी मानुषेश्वरैः ॥५४॥

कामतो रूपधारित्वं शस्त्रास्त्राश्माम्बुवर्षणम् ।
तमो ऽनिलो ऽचलो मेघा इति माया ह्य् अमानुषी ॥५५॥

जघान कीचकं भीम आश्रितः स्त्रीसरूपताम् ।
चिरं प्रच्छन्नरूपो ऽभूद् दिव्यया मायया नलः ॥५६॥

अन्याये व्यसने युद्धे प्रवृत्तस्यानिवारणम् ।
इत्य् उपेक्षार्थकुशलैर् उपेक्षा त्रिविधा स्मृता ॥५७॥

अकार्ये सज्जमानस् तु विषयान्धीकृतेक्षणः ।
कीचकस् तु विराटेन हन्यताम् इत्य् उपेक्षितः ॥५८॥

संरब्धो भीमसेनेन स्वार्थविच्छेदभीतया ।
हिडिम्बया निजो भ्राता हन्यताम् इत्य् उपेक्षितः ॥५९॥

मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनम् ।
दूरस्थानां च सैन्यानां दर्शनं ध्वजमालिनाम् ॥६०॥

छिन्नपाटितभिन्नानां संस्रुतानां प्रदर्शनम्।२५
इतीन्द्रजालं द्विषतां भीत्यर्थम् उपकल्पयेत् ॥६१॥

इत्य् उपायाः समाख्याता नाना नानार्थसाधकाः ।
साम तेषु हि कालज्ञो यथाकालं प्रयोजयेत् ॥६२॥

सामभेदौ तु कर्तव्यौ दानमानपुरःसरौ ।
दानेन हि समायुक्ताव् एताव् अप्य् अर्थसिद्धये ॥६३॥

दानरिक्तेन सर्वत्र साम्ना कृत्यं तृणेन वा ।
निर्दानं साम नायाति कलत्रेष्व् अपि संस्थितिम् ॥६४॥

इति ह्य् उपायान् निपुणं नयज्ञो
विनिक्षिपेच् छत्रुबले निजे च ।
निरभ्युपायो नियतं प्रपातं
विचेष्टमानो ऽन्ध इवाभ्युपैति ॥६५॥

अवश्यम् आयान्ति वशं विपश्चिताम्
उपायसन्दंशबलेन सम्पदः ।
भवत्य् उदारं विधिवत् प्रयोजिते
फलं हि राज्ञां क्वचिद् अर्थसिद्धये ॥६६॥