आक्रान्त इव केनापि रोगानीकैर् अभिद्रुतः ।
अकस्माद् भवदुद्वेगो रजोनीहारसंवृतः ॥२३॥
विधूम्रैः परुषैर् वातैर् अकस्माच् च पतद्ध्वजः ।
परस्परभवद् द्रोहो नतथातूर्यनिस्वनः॥२४॥
उत्प्रेक्षितभयत्रासो निर्घातोल्काभिदूषितः ।
उद्वमत्प्रज्वलच्छस्त्रो विदक्षिणशिवारुतः ॥२५॥
मण्डलैः काकगृध्राणाम् आकीर्णो रूक्षवाशिभिः ।
मुहुरत्युग्रतादीप्तः संसिक्तो रक्तवृष्टिभिः ॥२६॥
परीतराजनक्षत्रः क्रूरैर् औत्पातिकैर् ग्रहैः ।
सूर्यदृष्टकबन्धादिर् अकस्मान् मूढवाहनः ॥२७॥
अकस्मान् मत्तमातङ्गः सुंशुष्यद्दानशीकरः ।
इत्यादिविकृतोपेतः स्कन्धावारो न शस्यते ॥२८॥
प्रहृष्टनरनारीकः प्रशस्तस्वनदुन्दुभिः ।
गम्भीरहेषितहयः पूजितद्विपबृंहितः ॥२९॥
पुण्याहब्रह्मघोषाढ्यो नृत्तगीतसमाकुलः ।
निरीतिको महोत्साह आकाङ्क्षितजनोदयः ॥३०॥
विरजस्को ऽभिवृष्टश् च प्रादक्षिण्यस्थितग्रहः ।
दिव्यान्तरिक्षैर् उत्पातैः पार्थिवैश् च विवर्जितः ॥३१॥
प्रशस्तकूजद्विहगः प्रदक्षिणशिवारुतः ।
नीचैः प्रवृत्तानुलोममारुतः स्तुतमङ्गलः ॥३२॥
हृष्टपुष्टजनः साधुः सुगन्धिज्वलितानलः ।
अमन्दमत्तमातङ्ग आसाराभ्युदयान्वितः ॥३३॥
इत्यादिलक्षणोपेतः स्कन्धावारः प्रशस्यते ।
शस्ते तस्मिन् द्विषो भङ्गो ऽशस्ते ज्ञेयो विपर्ययः ॥३४॥
सिद्ध्यसिद्धी निमित्तानि यतः शंसन्ति कर्मणाम् ।
विद्याद् आत्महिताकाङ्क्षी तस्माद् एतानि तत्त्वतः ॥३५॥
प्रशस्तेन निमित्तेन विशुद्धेनान्तरात्मना ।
व्यक्तम् आरभ्यमाणं हि सिद्धिं याति समीहितम् ॥३६॥
सहायसम्पत्प्रज्ञानं सत्त्वं दैवानुकूलता ।
उद्योगो ऽध्यवसायश् च यस्यैते तस्य सिद्धयः ॥३७॥
तन्मूलत्वात् प्रजानां तु राजा स्कन्ध उदाहृतः ।
आवारो ऽमात्यदण्डादिर् वृतिर् आवार उच्यते ॥३८॥
भूतानां भूतिनिष्पत्तेर् आवारेण महीयसा ।
आवृतस् तु यतः स्कन्धः स्कन्धावारस् ततः स्मृतः ॥३९॥
समवस्कन्दघासाम्बुवीवधासारनिग्रहाः ।
एते प्रयत्नतो रक्ष्याः स्कन्धावारस्य मृत्यवः ॥४०॥
इति प्रयत्नेन निवेशयेद् बलं
शुभाशुभं चास्य तथोपलक्षयेत् ।
परस्य चैतन् निपुणं विलोकयेत्
समारभेताशुभहीनदर्शने ॥४१॥