यात्वा वैरिपुराभ्याशं भूभागे साधुसम्मते ।
स्कन्धावारनिवेशज्ञः स्कन्धावारं निवेशयेत् ॥१॥
चतुरश्रं चतुर्द्वारं नातिविस्तारसङ्कटम् ।
साट्टप्रतोलीप्राकारं महाखातसमावृतम् ॥२॥
शृङगाटकार्धचन्द्रं वा मण्डलं दीर्घम् एव वा ।
भूमिप्रदेशसामर्थ्याद् अगारम् उपकल्पयेत् ॥३॥
विभक्तैश् च विविक्तैश् च पार्श्वैर् अन्वितम् आयतैः ।
गुप्तं कक्षपुटाकारं महामार्गसमावृतम् ॥४॥
तस्य मध्ये मनोह्लादि महामौलबलावृतम् ।
अन्तः कोशगृहोपेतं कारयेद् राजमन्दिरम् ॥५॥
मौलं भृतं श्रेणि सुहृद् द्विषदाटविकं बलम् ।
राजहर्म्यं समावृत्य क्रमेण विनिवेशयेत् ॥ ६॥
अन्तः स्ववर्गिणः क्रूरान् अलुब्धान् दृष्टकर्मणः ।
पर्याप्तवेतनानाप्तान् मण्डलेन निवेशयेत् ॥७॥
हस्तिनो लब्धनामानस् तुरङ्गाश् च मनोजवाः ।
गृहोपकण्ठे नृपतेर् वसेयुः स्वाप्तरक्षिताः ॥८॥
यामवृत्त्या सुसन्नद्धं रात्रिन्दिवाम् उदायुद्धम् ।
अन्तर्वंशिकसैन्यं च तिष्ठेद् राजाभिगुप्तये ॥९॥
युद्धयोग्यो महादन्ती सन्नद्धः साध्वधिष्ठितः ।
तिषठेन् नरपतिद्वारे वेगवांश् च तुरङ्गमः ॥१०॥
सैन्यैकदेशः सन्नद्धः सेनापतिपुरःसरः ।
प्रत्यत्नवान् परिपतेन् मण्डलेन बहिर् निशि ॥११॥
परसैन्यप्रचारांश् च सत्त्वाढ्याः शीघ्रगामिनः ।
वाताश्विका विजानीयुर् दूरसीमान्तचारिणः ॥१२॥
तोरणाबद्धमाल्येषु यन्त्रवत्सु पताकिषु ।
द्वारेषु परमां गुप्तिं कारयेद् आप्तकारिभिः ॥१३॥
निर्गच्छेत् प्रविशेच् चैव सर्व एवोपलक्षितः ।
तिष्ठेयुः परदूताश् च राजशासनगोचराः ॥१४॥
वृथाकोलाहलाद्धास्याद् द्यूतात् पानाच् च वारितः ।
सज्जोपकरणस् तिष्ठेत् सर्वकार्योन्मुखो जनः ॥१५॥
बहिः खातात् तु सैन्यानां मुक्त्वा सञ्चारम् आत्मनः ।
परसैन्यविघातार्थं सर्वां भूमिं विनाशयेत् ॥१६॥
क्वचित् कण्टकशाखाभिः क्वचिच् छूलैर् अयोमुखैः ।
दूषयेत् परितो भूमिं प्रच्छन्नैः प्रदरैर् अपि ॥१७॥
निर्वृक्षक्षुपपाषाणस्थाणुवल्मीकनिर्दरे ।
कारयेत् करणैश् चित्रैः सैन्यव्यायामभूमिकाः ॥१८॥
यस्मिन् देशे यथाकामं सैन्यव्यायामभूमयः ।
परस्य विपरीताश् च श्रुतो देशः स उत्तमः ॥१९॥
आत्मनश् च परेषां च तुल्या व्यायामभूमयः ।
यत्र मध्यम उद्दिष्टो देशः शास्त्रार्थचिन्तकैः ॥२०॥
अरातिसैन्यव्यायामसुपर्याप्तमहीतलः ।
आत्मनो विपरीतश् च यः स देशो ऽधमः स्मृतः ॥२१॥
नित्यम् उत्तमम् आकाङ्क्षेत् तदभावे तु मध्यमम् ।
अधमं बन्धनागारं नोपसेवेत सिद्धये ॥२२॥