१६ यात्राभियोक्तृप्रदर्शनप्रकरणम्

नानाप्रकारैर् व्यसनैर् विमुक्तः
शक्तित्रयेणाप्रतिमेन युक्तः ।
परं दुरन्तव्यसनोपपन्नं
यायान् नरेन्द्रो विजयाभिकाङ्क्षी ॥१॥

प्रायेण सन्तो व्यसने रिपूणां
यातव्यम् इत्य् एवम् उपादिशन्ति ।
तत्रैष पक्षो व्यसनं ह्य् अनित्यं
क्षमस् तु सन्न् अभ्युदितो हि यायात् ॥२॥

यदा क्षमस् तु प्रसभं निहन्तुं
पराक्रमाद् ऊर्जितम् अप्य् अमित्रम् ।
तदा हि यायाद् अहितानि कर्तुं
परस्य वा पीडनकर्शनानि ॥३॥

सम्पन्नसस्यं विषयं परस्य
यायात् प्रमृद्नन् विजयाय राजा ।
सस्योपघातेन परस्य वृत्तेश्
छेदः स्वसैन्योपचयश् च साधु ॥४॥

विशुद्धपृष्ठः पुरतो विचिन्वन्
भयप्रदेशान् परकर्मवेदी ।
स्ववीवधासारविशुद्धमार्गो
विशेद् धरित्रीं द्विषतो ऽप्रमत्तः ॥५॥

समे प्रदेशे विषमे च भूमेर्
निम्ने स्थले वा स्वमुखेन यायात् ।
अनातुरः सन्न् अभयो हि विद्वान्
सन्नद्धसैन्यो विहितान्नतोयः ॥६॥

ग्रीष्मे प्रभूताम्बुवनेन यायान्
निर्वापणार्थं करिणां पथा तु ।
ऋते ऽम्भसो ग्रीष्मकृतात् प्रतापाद्
भवन्ति कुष्ठानि मतङ्गजानाम् ॥७॥

स्वस्थक्रियाणाम् अपि कुञ्जराणाम्
ऊष्मा शरीरेषु हि जाज्वलीति ।
आयासयोगेन च सम्प्रवृद्धः
प्रसह्य हन्ति द्विरदान् प्रतापः॥८॥

सर्वाणि सत्त्वानि खलूष्णकाले
विनाम्बुना यान्ति पराम् अवस्थाम् ।
अत्यर्थम् उष्णप्रतितप्तकायाः
प्रयान्ति सद्यः करिणो ऽपिबन्तः ॥९॥

सुगन्धिदानस्रुतिशीकरेषु
दन्ताभिघातस्फुटितोपलेषु ।
गजेषु नीलाभ्रसमप्रभेषु
राज्यं निबद्धं पृथिवीपतीनाम् ॥१०॥

सङ्कल्पितः संयति दृष्टमार्गः
स्वधिष्ठितो वीरतमेन पुंसा ।
तुरङ्गमानाम् अपि कल्पितानाम्
एको गजः षष्टिशतानि हन्ति ॥११॥

जले स्थले च द्रुमसङ्कटे च
समे ऽसमे साधु चले ऽचले च ।
प्राकारहर्म्याट्टविदारणे च
जयो ध्रुवं नागवतां बलानाम् ॥१२॥

तस्माद् यतो भूरिजलस् तु पन्था
यतो ऽन्नपानोपचयो ऽविशङ्कः ।
ततो हि यायाज् जनयन् प्रतापं
शनैः शनैर् विश्रमयन् बलानि ॥१३॥

अभ्युन्नतानाम् अणुर् अप्य् उदारं
पश्चात् प्रकोपं जनयेद् अरीणाम् ।
तं चाप्रमत्तः प्रसमीक्ष्य यायान्
न नाशयेद् दृष्टम् अदृष्टहेतोः ॥१४॥

पश्चात् प्रकोपः पुरतः फलं च
पश्चात् प्रकोपस् तु तयोर् गरीयान् ।
रन्ध्रं हि तद्विप्रकृता महत्त्वं
नयन्ति तस्मात् प्रविधाय यायात् ॥१५॥

पुरश् च पश्चाच् च यदा समर्थस्
तदाभियायान् महते फलाय ।
पुरः प्रसर्पन्न् अविशुद्धपृष्ठः
प्राप्नोति तीव्रं खलु पार्ष्णिभेदम् ॥१६॥

यास्यन् पुरो रक्ष्यम् अनेकवर्गम्
अनेकमुख्यं च बलं विदध्यात् ।
अनेकमुख्यस्य हि नैकमत्यम्
अनेकमुख्यं द्विषताम् अभेद्यम् ॥१७॥

अवश्ययातव्यतयोद्यतः सन्
पश्चात् प्रकोपाहितयानशङ्कः ।
सेनापतिं वाप्य् अथ वा कुमारं
बलैकदेशेन पुरो निदध्यात् ॥१८॥

आभ्यन्तराद् बाह्यकृताच् च कोपाद्
आभ्यन्तरस् त्व् एव तयोर् गरीयान् ।
आदाय गच्छेद् अबहिःप्रचारान्
बाह्यांश् च कृत्वा विहितार्थकल्यान् ॥१९॥

पुरोहितामात्यकुमारकुल्याः
सेनाभिगोप्तार इमे प्रधानाः ।
एषां हि सन्तो ऽन्यतमप्रकोपम्
अन्तःप्रकोपं समुपादिशन्ति ॥२०॥

राष्ट्रान्तपालाटविकाभिसीम्नां
बाह्यप्रकोपो ऽन्यतमप्रकोपः ।
उत्पद्यमानो निपुणप्रचारैस्
तं मन्त्रिभिः सम्यग् उपाददीत ॥२१॥

सामादिभिः संशमयेत् प्रकोपं
परस्परावग्रहभेदनैश् च ।
तथा च धीरः शमयेद् विकारं
यथा भजेरन् न परान् प्रतप्ताः ॥२२॥

मनुष्ययुग्यापचयः क्षयो हि
हिरण्यधान्यापचयो व्ययस् तु ।
तस्माद् इमां नैव विदग्धबुद्धिः
क्षयव्ययायासकरीम् उपेयात् ॥२३॥

अवश्यनिष्पत्तिमहाफलाढ्याम्
अदीर्घसूत्रां परिणामकल्याम् ।
कामं व्ययायासकरीम् उपेयान्
न त्व् एव जातु क्षयदोषयुक्ताम् ॥२४॥

वस्तुष्व् अशक्येषु समुद्यमश् च
शक्येषु चाकालसमुद्यमश् च ।
शक्येषु मोहाद् असमुद्यमश् च
त्रिधैव कार्यव्यसनं वदन्ति ॥२५॥

कामो ऽक्षमादक्षिणतानुकम्पा
ह्री साध्वसं क्रौर्यम् अनार्यता च ।
दम्भो ऽभिमानो ऽप्य् अतिधार्मिकत्वं
दैन्यं स्वयूथस्य विमाननं च ॥२६॥

द्रोहो भयं शश्वद् उपेक्षणं च
शीतोष्णवर्षास्व् असहिष्णुता च ।
एतानि काले समुपाहितानि
कुर्वन्त्य् अवश्यं खलु सिद्धिविघ्नम् ॥२७॥

निजो ऽथ मैत्रश् च समाश्रितश् च
सम्बन्धजः कार्यसमुद्भवश् च ।
भृत्यो गृहीतो विविधोपचारैः
पक्षं बुधाः सप्तविधं वदन्ति ॥२८॥

सदानुसृत्या गुणकीर्तनेन
निन्दासहत्वेन च रन्ध्रगुप्त्या ।
तदर्थशौचोद्यमसङ्कथाभिः
पक्षो ऽनुरागीति स वेदितव्यः ॥२९॥

कुलीनम् आर्यं श्रुतवद् विनीतं
मानोन्नतं सभ्यम् अहार्यबुद्धिम् ।
कृतज्ञतोर्जामतिसत्त्वयुक्तं
सद्वृत्तपक्षं खलु तं च विद्यात् ॥३०॥

उद्योगमेधाधृतिसत्त्वसत्य-
त्यागानुरागस्थितिगौरवाणि ।
जितेन्द्रियत्वं प्रसहिष्णुता ह्रीः
प्रागल्भ्यम् इत्य् आत्मगुणप्रवेकः ॥३१॥

मन्त्रस्य शक्तिं सुनयप्रचारं
स्वकोशदण्डौ प्रभुशक्तिम् आहुः ।
उत्साहशक्तिं बलवद्विचेष्टां
त्रिशक्तियुक्तो भवतीह जेता ॥३२॥

शैघ्र्यं सुदाक्ष्यं व्यसनेष्व् अदैन्यम्
उत्साहसम्पत्स्व् अतिधीरता च ।
औत्पादिकी शास्त्रसमुद्भवा च
सांसर्गिकी धीः परिणामिनी च ॥३३॥

उत्साहसत्त्वाध्यवसायचेष्टा
दार्ढ्यं च कर्मस्व् इह पौरुषं च ।
अरोगता कर्मफलोपपत्तिर्
दैवानुकूल्यं च निराधिता च ॥३४॥

पक्षादिनानेन गृहीतकोशः
पक्षादिहीनं रिपुम् अभ्युपेयात् ।
इति प्रसर्पन् नियतं समुद्र-
प्रक्षालितां तां लभते धरित्रीम् ॥३५॥

कालो गजानां सजलाभ्रजालो
यातुं तदन्यश् च तुरङ्गमाणाम् ।
नात्यर्थवर्षोष्णतुषारयुक्तः
सम्पन्नसस्यस् त्व् इति कालसम्पत् ॥३६॥

रात्राव् उलूको विनिहन्ति काकान्
काको ऽप्य् उलूकान् रजनीव्यपाये ।
इति स्म कालं समुदीक्ष्य यायात्
काले फलन्तीह समीहितानि ॥३७॥
श्वा नक्रम् आकर्षति कूलसंस्थं
श्वानं च नक्रः सलिलाभ्युपेतं ।
व्यायच्छमानो ध्रुवम् अभ्युपैति
देशस्थितः कर्मफलोपभोगम् ॥३८॥
समं तुरङ्गैर् विषमं च नागैस्
तथा जलाढ्यं समहीधरं च ।
नावाद्भिर् वृतं पत्तीबलानुयातैर्
यथाबलं च प्रसमीक्ष्य मिश्रम् ॥३९ ॥

मरुप्रगाढं पततीह तोये
ग्रीष्मे त्व् अनुपोदककक्षदुर्गम् ।
मिश्रं च संवीक्ष्य यथासुखं च
गछेन् नरेन्द्रो विजयाय देशम् ॥४०॥

न चातितोयं न च तोयहीनं
युक्तं च सम्यग् यवसेन्धनेन ।
उपेत्य मार्गं बहुतज्ज्ञयुक्तं
सुखं प्रयाणै रिपुम् अभ्युपेयात् ॥४१॥

स्ववीवधासारम् उपेततोयं
विश्वासिताक्रान्तजनं विशुद्धम् ।
तन्मात्रम् एव द्विषताम् उपेयाद्
यस्मान् न कुर्याद् अपयानम् आर्तः ॥४२॥

ये दूरयात्रां सहसा विशन्ति
मूढा रिपूणाम् अविचार्य भूमिम् ।
ते यान्ति तेषाम् अचिरेण खड्ग-
धारापरिष्वङ्गम् अयत्नसाध्यम् ॥४३॥

मार्गे च दुर्गोपनिविष्टसैन्यो
विधाय रक्षां विधिवद् विधिज्ञः ।
सन्नद्धपार्श्वस्थितवीरयोधः
सेवेत साध्वीं निशि योगनिद्राम् ॥४४॥
भ्रमत्तुरङ्गद्विरदेन्द्रहेषा-
घणटास्वनापूरितकर्णरन्ध्रः ।
तदन्तरा तु प्रतिबोधवर्ती
के जाग्रतीत्य् आहित आद्रियेत ॥४५॥

ततः प्रबुद्धः शुचिर् इष्टदेवः
श्रीमद्विभूषोज्ज्वलितः प्रहृष्टः ।
सेव्येत मन्त्रिप्रवरैर् यथावत्
पुरोहितामात्यसुहृद्गणैश् च ॥४६॥

कर्तव्यतां तैः सह सम्प्रधार्य
यानं समारुह्य विचित्रयानः ।
कुलोद्गतैः शस्त्रिभिरात्मकल्पैर्
बहिर् निरीयात् परिवारितः सन् ॥४७॥

पश्येन् नृपो हस्तिरथाश्वचर्यां
सामूहिकं योधगणं पृथक् च ।
विवक्षितांश् च द्विरदान् द्विर् अह्नस्
तुरङ्गमांश् चापि विधानयुक्तान् ॥४८॥

सुखोपगम्यः स्मितपूर्वभाषी
प्रियं वदेद् वृत्त्यधिकं च दद्यात् ।
प्रियेण दानेन च सङ्गृहीतास्
त्यजन्ति भर्तर्य् अपि जीवितानि ॥४९॥

रथाश्वनौकुञ्जरयानयोग्यो
नित्यक्रियः स्याद् धनुषि प्रगल्भः ।
सुमेधसां कर्मणि दुष्करे ऽपि
नित्यक्रिया कौशलम् आदधाति ॥५०॥

सन्नद्धम् उच्चैर् द्विपम् आस्थितः सन्
सन्नद्धसैन्यानुगतः प्रकुर्वन् ।
सामन्तदूतेन हि साधुमन्त्रं
प्रवीरयोधान्तरितेन यायात् ॥५१॥

आलोकयेद् बुद्धिगुणोपपन्नैश्
चरैश् च दूतैश् च परप्रचारम् ।
एतैर् वियुक्तो भवति क्षितीन्द्रो
जनैर् अनेत्रैश् च समानधर्मा ॥५२॥

विलोभयन् किञ्चिद् अपि प्रयच्छन्
कुर्वीत मित्रं द्विषतो ऽन्तपालम् ।
राष्ट्राद् अभीक्ष्णं द्विषतः प्रपण्यैः
पण्यं हितं नाडिकयाददीत ॥५३॥

उपक्रमं वाञ्छितम् आशु कुर्याद्
दूतोपयानात् क्रियमाणसन्धिः ।
स चेद् विसन्धिः स तु तत्र चैकः
कृतो भवत्य् आत्मसमुच्छ्रयश् च॥५४॥

दौर्गान् पथिष्व् आटविकान्तपालान्
संश्लेषयेद् दानवतापि साम्ना ।
विरुद्धदेशेषु हि सन्निरोधे
ते ह्य् अस्य मार्गोपदिशो भवन्ति ॥५५॥

अकारणाद् एव हि कारणाद् वा
य एति कश्चित् पुरुषो ऽरिसेवी ।
निजश् च विश्लिष्ट उपेत्य शत्रुम्
आयाति यस् तस्य गतिं प्रपश्येत् ॥ ५६॥

आरिप्सुना मन्त्रबलान्वितेन
प्राग् एव कार्यो निपुणं विचारः ।
दोष्णां बलान् मन्त्रबलं गरीयः
शक्रो ऽसुरान् मन्त्रबलाद् विजिग्ये ॥५७॥

मनीषया निर्मलया विलोकितं
फलाय कर्मोद्यमम् आस्थितः परम् ।
अकालहीनं नयवित् समाचरेत्
फलं ह्य् अकाले नियतं व्युदस्यति ॥५८॥
प्रभावितानां श्रुतशौर्यशालिनां
यथावद् आलोकितमार्गचारिणाम् ।
चिराय दैवी द्युतिर् उन्नतात्मनां
भुजङ्गदीर्घेषु भुजेषु लम्बते ॥५९॥
समुदितनरसम्पद्भूरिसम्पन्नसस्ये
विगतसलिलपङ्के काल उद्युक्तवृत्तिः ।
कुसुमितसहकारश्रीज्वलत्कानने वा
नरपतिर् अरिभूमिं साधु गच्छेज् जयाय ॥६०॥

इति नरपतिर् आहितादरः
परमभियोक्तुमनाः समुत्पतेत् ।
इति विधिविषयोपसेवनान्
नियतम् आरातिरूपैति गोचरम् ॥६१॥