अमात्याद्याः प्रकृतयो मित्रान्ता राज्यम् उच्यते ।
अशेषराज्यव्यसनात् पार्थिवव्यसनं गुरु ॥१॥
राजा त्व् अव्यसनी राज्यव्यसनापोहनक्षमः ।
न राजव्यसनापोहे समर्थं राज्यम् ऊर्जितम् ॥२॥
आत्मामात्यप्रजादुर्गकोशानां दण्डमित्रयोः ।
व्यसनेभ्यः समुन्नेता राजा यः स त्रिवर्गभाक् ॥३॥
अशास्त्रचक्षुर् नृपतिर् अन्ध इत्य् अभिधीयते ।
वरम् अन्धो न चक्षुष्मान् मदाद् आक्षिप्तसत्पथः ॥४॥
मन्त्रिभिर् मन्त्रकुशलैर् अन्धः पथि निवेश्यते ।
चक्षुष्मांस् तु मदान्धः सन् नात्मानं हन्त्य् अशेषतः ॥५॥
शास्त्रचक्षुर् नृपस् तस्मान् महामात्रमते स्थितः ।
धर्मार्थप्रतिघातीनि व्यसनानि परित्यजेत् ॥६॥
वाग्दण्डयोश् च पारुष्यम् अर्थदूषणम् एव च ।
स्मृतं व्यसनतत्त्वज्ञैः क्रोधजं व्यसनत्रयम् ॥७॥
कामजं मृगया द्यूतं स्त्रियः पानं तथैव च ।
व्यसनं व्यसनार्थज्ञैश् चतुर्विधम् उदाहृतम् ॥८॥
वाक्पारुष्यं परं लोक उद्वेजनम् अनर्थकम् ।
न कुर्याद् विप्रियां वाचं प्रकुर्याज् जनम् आत्मसात् ॥९॥
अकस्माद् एव यः कोपात् परुषं बहु भाषते ।
तस्माद् उद्विजते लोकः सस्फुलिङ्गाद् इवानलात् ॥१०॥
हृदये वागसिस् तीक्षणो मर्मच्छिन् निपतन् मुहुः ।
तेजस्विनं दीपयति स दीप्तो याति वैरिताम् ॥११॥
नोद्वेजयेज् जगद्वाजा रूक्षया प्रियवाग् भवेत् ।
प्रायेण प्रियवाक्कर्मा कृपणो ऽपि हि सेव्यते ॥१२॥
असिद्धसाधनं सद्भिः शासनं दण्ड उच्यते ।
तं युक्त्यैव नयेद् दण्डं युक्तदण्डः प्रशस्यते ॥१३॥
उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः ।
भूतान्य् उद्वेज्यमानानि द्विषतां यान्ति संश्रयम् ॥१४॥
आश्रिताश् चैव लोकेन समृद्धिं यान्ति विद्विषः ।
समृद्धाश् च विनाशाय तस्मान् नोद्वेजयेत् प्रजाः ॥१५॥
लोकानुग्रहकर्तारः प्रवर्धन्ते महीभुजः ।
लोकवृद्ध्या नरेन्द्राणां वृद्धिस् तत्सङ्क्षये क्षयः ॥१६॥
महत्स्व् अप्य् अपराधेषु दण्डं प्राणान्तिकं त्यजेत् ।
ऋते राज्यापहारात् तु युक्तदण्डः प्रशस्यते ॥१७॥
दूष्यस्य दूषणार्थं हि परित्यागो महीयसः ।
अर्थस्य नीतितत्त्वज्ञैर् अर्थदूषणम् उच्यते ॥१८॥
तद् अकस्मात् समाविष्टः कोपेनातिबलीयसा ।
नित्यम् आत्महिताकाङ्खी न कुर्याद् अर्थदूषणम् ॥१९॥
यानक्षोभो यानपातो यानाभिहरणं तथा ।
क्षुत्पिपासाश्रमायासशीतवातोष्णपीडनम् ॥२०॥
अभियानस्य सम्पत्त्या यानव्यसनजं महत् ।
दुःखं प्रतप्तसिकताकुशकण्टकभूमयः ॥२१॥
वृक्षसङ्कटजा दोषा लताकण्टकपाटनम् ।
शैलपातशिलाजालस्थाणुवल्मीकपीडनम् ॥२२॥
प्रच्छन्नोपगतैः शैलसरिद्विपिनकुक्षिषु ।
वधबन्धपरिक्लेशः सामन्ताटविकादिभिः ॥२३॥
स्वसैन्यैश् च स्वकुल्यैश् च परभिन्नैश् च मारणम् ।
ऋक्षाजगरमातङ्गसिंहव्याघ्रभयादि च ॥२४॥
दवाग्निधूमसंरोधो दिङ्मोहभ्रमणानि च ।
इत्यादि पृथिवीन्द्राणां मृगयाव्यसनं स्मृतम् ॥२५॥
जितश्रमत्वं व्यायाम आममेदःकफक्षयः ।
चलस्थिरेषु लक्ष्येषु बाणसिद्धिर् अनुत्तमा ॥२६॥
मृगयायां गुणान् एतान् अन्ये प्राहुर् न तत्क्षमम् ।
दोषाः प्राणहराः प्रायस् तस्मात् तत्परिवर्जयेत् ॥२७॥
आमादयो हि जीर्यन्ति योग्ययैव दिवानिशम् ।
चलेषु यन्त्रलक्ष्येषु बाणसिद्धिश् च जायते ॥२८॥
अथ चेन् मृगयाक्रीडावाञ्छा तन् नगरान्तिके ।
कारयेन् मृगयारण्यं क्रीडाहेतोर् मनोहरम् ॥२९॥
परिक्षिप्तं परिखया मृगाणाम् अप्य् अगम्यया ।
आयामपरिणाहाभ्याम् अर्धयोजनसम्मितम् ॥३०॥
गिरेर् उपान्ते नद्या वा पर्याप्तजलशाद्वलम् ।
अकण्टकलतागुल्मं विषपादपवर्जितम् ॥३१॥
पादपैः पुष्पफलदैः प्रज्ञातैश् चित्तहारिभिः ।
स्निग्धनीलघनच्छायैर् विरलैर् उपशोभितम् ॥३२॥
पासुम्पूरितनिश्छिद्रश्वभ्रप्रदरकन्दरम् ।
दलितस्थाणुवल्मीकपाषाणसमभूतलम् ॥३३॥
शोधितग्राहसलिलम् अगभीरजलाशयम् ।
नानापुष्पसमाकीर्णं नानाविहगसेवितम् ॥३४॥
सुपात्यमृगसम्पूर्णं हस्तिनीकलभान्वितम् ।
भग्नदंष्ट्रनखव्यालं छिन्नशृङ्गविषाणि च ॥३५॥
सुखसंसेव्यलतया पुष्पवल्लीपिनद्धया ।
वनराज्या परिक्षिप्तं परिखातटजातया ॥३६॥
बहिर्दूरान्तराभोगनिर्वृक्षस्तम्भभूतलम् ।
अगम्यं रिपुसैन्यानां मनःप्रीतिविवर्धनम् ॥३७॥
तद्वनेचरचित्तज्ञैः क्लेशायायाससहैर् दृढैः ।
रक्षितं रक्षिभिः स्वाप्तैर् भूभुजाम् अभिवृद्धये ॥३८॥
तत्कर्माप्तो नरेन्द्रस्य जनो जितपरिश्रमः ।
क्रीडनायात्र विविधा मृगजातीः प्रवेशयेत् ॥३९॥
अन्यकार्याविरोधेन प्रातश् चङ्क्रमणक्षमः ।
क्रीडनाय विशेद् राजा तदाप्तैः सहितो मितैः ॥४०॥
यदा च प्रविशेद् राजा क्रीडनार्थं तदा बहिः ।
सन्नद्धं यत्नतस् तिष्ठेत् सैन्यं दूरान्तगोचरम् ॥४१॥
सद्भिर् यो मृगयायाने गुणाः साधु प्रकीर्तिताः ।
क्रीडाप्रीतो नरपतिस् तांस् तत्र समवाप्नुयात् ॥४२॥
विधिर् एष समुद्दिष्टो मृगयाक्रीडने वरम् ।
न गच्छेद् अन्यथा राजा मृगयां मृगयुर् यथा ॥४३॥
महतो ऽपि क्षणान् नाशो धनस्य ह्रीविमुक्तता ।
निःसत्यता निष्ठुरता क्रोधो वाक्शस्त्रखण्डनम् ॥४४॥
लोभो धर्मक्रियालोपः कर्मणाम् अप्रवर्तनम् ।
सत्समागमविच्छित्तिर् असद्भिः सह वर्तनम् ॥४५॥
अर्थनाशक्रियावश्यं नित्यं वैरानुबन्धिता
सत्य् अप्य् अर्थे निराशात्वम् असत्य् अपि च साशता ॥४६॥
प्रतिक्षणं क्रोधहर्षौ सन्तापश् च प्रतिक्षणम् ।
प्रतिक्षणं च सङ्क्लेशः साक्षिप्रश्नः प्रतिक्षणम् ॥४७॥
स्नानादिगात्रसंस्कारपरिभोगेष्व् अनादरः ।
अव्यायामो ऽङ्गदौर्बल्यं शास्त्रार्थप्रत्युपेक्षणम् ॥४८॥
गूहनं मूत्रशकृतोः क्षुत्पिपासोपपीडनम् ।
इत्यादींस् तन्त्रकुशला द्यूतदोषान् प्रचक्षते ॥४९॥
पाण्डवो धर्मराजस् तु लोकपाल इवापरः ।
द्यूतेन ह्य् असता दीव्यन् कलत्राद्यपहारितः ॥५०॥
नलश् च राजा द्यूतेन हृते राज्ये महोदये ।
धर्मदारान् वने त्यक्त्वा परकर्मकरो ऽभवत् ॥५१॥
तुल्यो भुवीन्द्रतुल्यस्य यस्य नास्ति धनुर्धरः ।
स रुक्मी रुक्मशैलाभो द्यूतदोषाद् गतः क्षयम् ॥५२॥
राजा काशिकरूशानां दन्तवक्त्रो ऽपि मन्दधीः ।
तीव्राद् द्यूतकृताद् दोषाद् दन्तभङ्गम् अवाप्तवान् ॥५३॥
द्यूताद् अनर्थसंरम्भो द्यूतात् स्नेहक्षयो महान् ।
पक्षाणां चापि महतां द्यूताद् भेदः प्रवर्तते ॥५४॥
इति केवलदोषं हि राजा द्यूतं विवर्जयेत् ।
समाह्वयं च मेधावी दर्पिणां विनिवारयेत् ॥५५॥
कालातिपातः कार्याणां धर्मार्थपरिपीडनम् ।
नित्याभ्यन्तरवर्तित्वात् साधुप्रकृतिकोपनम् ॥५६।
रहस्यभेदस् तत् पश्चाद् अकार्येषु प्रवर्तनम् ।
ईर्ष्यामर्षस् तथा क्रोधो विरोधः साहसानि च ॥५७॥
इत्यादि च स्त्रीव्यसने यच् च पूर्वं प्रकीर्तितम् ।
तस्मात् स्त्रीव्यसनं राजा राज्यकामः परित्यजेत् ॥५८॥
स्त्रीमुखालोकनतया व्यग्राणाम् अल्पचेतसाम् ।
ईहितानीह गच्छन्ति यौवनेन सह क्षयम् ॥५९॥
वमनं विह्वलत्वं च सञ्ज्ञानाशो विवस्त्रता ।
बह्वबद्धप्रलापित्वम् अकस्माद् व्यसनं मुहुः ॥६०॥
प्राणग्लानिः सुहृन्नाशः प्रज्ञाश्रुतमतिभ्रमः ।
सद्भिर् वियोगो ऽसद्भिश् च संयोगो ऽनर्थसङ्गमः ॥६१॥
स्खलनं वेपथुस् तन्द्रा नितान्तं स्त्रीनिषेवणम् ।
इत्यादि पानव्यसनम् अत्यन्तं सद्विगर्हितम् ॥६२॥
श्रुतशीलबलोपेताः पानदोषेण भूयसा ।
क्षयम् अक्षीणनामानो जग्मुर् अन्धकवृष्णयः ॥६३॥
योगीश्वरस् तु भगवान् भार्गवो भृगुतुल्यधीः ।
शुक्रः पानमदात् तीव्राद् बुभुजे शिष्यम् औरसम् ॥६४॥
पानाक्षिप्तो हि पुरुषो यत्र तत्र प्रवर्तते ।
यात्य् असंव्यवहारित्वं यत्र तत्र प्रवर्तनात् ॥६५॥
कामं स्त्रियो निषेवेत पानं वा साधु मात्रया ।
न द्यूतमृगये विद्वान् अत्यन्तव्यसने हि ते ॥६६॥
तदपनयविधिज्ञैः श्रेयसां विघ्नकारि
व्यसनम् इदम् उदारं सप्तधेहोपदिष्टम् ।
जनयति हि निषङ्गाद् एकधैवाशु नाशं
किम् उ न भवति हन्ता यौगपद्योदयेन ॥६७॥
पटयति परिभोगग्राहिताम् इन्द्रीयाणां
श्रुतम् अपि विनिहन्ति श्रेष्ठतां प्रष्ठतां च ।३६
चलयति हि विभूतिं भूयसीम् अप्य् अनीचैर्
अपि विबुधमतीनां सप्तको ऽयं दुरन्तः॥६८॥
अरिगणा नियतं व्यसने स्थितान्
परिभवन्ति भवन्ति च दुश्छिदः ।
अपगतव्यसनास् तु बुधा रिपून्
परिभवन्ति भवन्ति च दुश्छिदः ॥६९॥