०३ प्रकृतिव्यसनप्रकरणम्

वाग्दण्डयोश् च पारुष्यम् अर्थदूषणम् एव च ।
पानं स्त्री मृगया द्यूतं व्यसनानि महीपतेः ॥६१॥

आलस्यं स्तब्धता दर्पः प्रमादो वैरकारिता ।
इति पूर्वोपदिष्टं च सचिवव्यसनं स्मृतम् ॥६२॥

अतिवृष्टिर् अनावृष्टिर् मूषिकाः शलभादयः ।
असत्करश् च दण्डश् च परचक्राणि तस्कराः ॥६३॥
राजानीकप्रियोत्सर्गो मारकव्याधिपीडनम् ।
पशूनां मरणं रोगो राष्ट्रव्यसनम् उच्यते ॥६४॥

विशीर्णयन्त्रप्राकारपरिखात्वम् अशस्त्रता ।
क्षीणघासेन्धनान्नत्वाद् दुर्गव्यसनम् उच्यते ॥६५॥

व्ययीकृतः परिक्षिप्तो भक्षितो ऽसञ्चितस् तथा ।
मुषितो दूरसंस्थश् च कोशव्यसनम् उच्यते ॥६६॥

उपरुद्धं परिक्षिप्तं विमानितम् अमानितम् ।
अभृतं व्याधितं श्रान्तं दूरायातं नवागतम् ॥६७॥

परिक्षीणं प्रतिहतं प्रहताग्रजवं तथा ।
आशानिर् वेदभूयिष्ठम् अनृतप्राप्तम् एव च ॥६८॥

कलत्रगर्भ्यतिक्षिप्तम् अन्तःशल्यं तथैव च ।
भिन्नगर्भं ह्य् अपसृतम् अवमुक्तं तथैव च ॥६९॥

क्रुद्धमौलारिमित्रं च निविष्टं चापि विद्विषा ।
दूष्ययुक्तं स्वविक्षिप्तं मित्रविक्षिप्तम् एव च ॥७०॥

विच्छिन्नवीवधासारं शून्यमूलं तथैव च ।
अस्वामिसङ्गतं चैव भिन्नकूटं तथैव च ॥७१॥

दुष्पार्ष्णिग्राहम् अन्धं च बलव्यसनम् उच्यते।
अत्र किञ्चिद् असाध्यं तु किञ्चित् साध्यं तद् उच्यते ॥७२॥

उपरुद्धं तु युध्येत निर्गत्यान्यत ऊर्जितम् ।
परिक्षिप्तं न निर्मार्गं सर्वतः परिवेष्टितम् ॥७३॥

अमानितं हि युध्येत कृतमानार्थसङ्ग्रहम् ।
न विमानितम् अत्यर्थं प्रदीप्तक्रोधपावकम् ॥७४॥

युध्येताभृतम् अत्यर्थं तदात्वकृतवेतनम् ।
न व्याधितम् अकर्मण्यं व्याधितं परिभूयते ॥७५॥

परिश्रान्तं हि युध्येत विश्रान्तं सुविधानतः ।
दूरायातं हतप्राणं न शस्त्रग्रहणे क्षमम् ॥७६॥

नवागतं हि युध्येत तद्देश्यैर् मिश्रितं नयात् ।
हतमुख्यप्रवीरं तु परिक्षीणं न युध्यते ॥७७॥

युध्यते हि प्रतिहतं प्रवीरैः सह सङ्गतम् ।
हताग्रवेगं शक्तं न प्रमाथितपुरःसरम् ॥७८॥

आशानिर्वेदलब्धार्थं पूर्णाशत्वं न युध्यते ।
अभूमिष्ठं प्रसारे न निरुद्धे ऽल्पतया भुवः ॥७९॥

युध्येतानृतसम्प्राप्तं यथार्हायुधवाहनम् ।
कलत्रगर्भि चोन्नीतकलत्रं समरक्षमम् ॥८०॥

अनेकराज्यान्तरितम् अतिक्षिप्तं न युध्यते ।
अन्तर्गतामित्रशल्यम् अन्तःशल्यं हि न क्षमम् ॥८१॥

अन्योन्यस्माद् विनिर्भिन्नं भिन्नगर्भं न युध्यते ।
तथैवापसृतं शक्तं नैकराज्यान्तरीकृतम् ॥८२॥

अवमुक्तम् अपक्रान्तमुख्यं तन् न क्षमं युधि ।
पितृपैतामहं मौलं तत् क्रुद्धं सान्त्वितं क्षमम् ॥८३॥

मित्रं शत्रुभिर् एकस्थं तदाक्रान्ततयाक्षमम् ।
शत्रोर् उपनिविष्टं तत् सामर्थ्यान् न क्षमं युधि ॥८४॥
दूष्ययुक्तं तदुद्धाराद् युध्येतोद्धृतकण्टकम् ।
प्रधानयोधसङ्गुप्तं दूष्ययुक्तं समुत्पतेत् ॥८५॥

स्वविक्षिप्तं स्वविषये क्षिप्तम् आपद्य् उदाहृतम् ।
प्रकृष्टदेशकालत्वान् मित्रक्षिप्तम् अयौगिकम् ॥८६॥

धान्यादेर् वीवधः प्राप्तिर् आसारस् तु सुहृद्बलम् ।
विच्छिन्नवीवधासारं बलं युद्धाय नेष्यते ॥८७॥

पितृपैतामहं मौलं तेन शून्यं हि न क्षमम् ।
कृतजानपदारक्षं शून्यमूलं युधि क्षमम् ॥८८॥

युध्यते शून्यमूलं हि यत्नान् मौलेन पालितम् ।
अस्वामिसङ्गतं नैव स्वामिना यद् विनाकृतम् ॥८९॥

न युध्यते भिन्नकूटं भिन्नकूटम् अनायकम् ।
पश्चात्कोपातिसन्तप्तं दुष्पार्ष्णिग्राहम् अक्षमम् ॥९०॥

अदेशिकं स्मृतं ह्य् अन्धं तन्मूढत्वात् क्रियाक्षमम् ।
बलव्यसनम् इत्यादि तत् समीक्ष्य समुत्पतेत् ॥९१॥

दैवोपपीडितं ग्रस्तं मित्रं शत्रुबलेन च ।
कामक्रोधसमुत्थैश् च दोषैः सम्परिकीर्तितैः ॥९२॥

नरेन्द्राद्याः प्रकृतयः सप्त याः परिकीर्तिताः ।
पूर्वं पूर्वं गुरुतरं तासां व्यसनम् उच्यते ॥९३॥

इत्यादि सर्वं प्रकृतेर् यथावद्
बुध्येत राजा व्यसनं प्रयत्नात् ।
बुद्ध्या च शक्त्या व्यसनस्य कुर्याद्
अकालहीनं व्यवरोपणं सः ॥९४॥

प्रकृतिव्यसनानि भूतिकामः
समुपेक्षेत न हि प्रमाददर्पात् ।
प्रकृतिव्यसनान्य् उपेक्षते यो
नचिरात् तं रिपवः पराभवन्ति ॥९५॥

इदम् इदम् इति सम्यक् कर्मणा योजनीयं
नियतम् इति विचिन्त्य प्रापयेद् ईहमानः ।
सुनयपिहितरन्ध्रः प्राकृतो यस्य वर्गः
क्षितिपतिर् उपभुङ्के स त्रिवर्गं चिराय ॥९६॥