०२ प्रकृतिकर्मप्रकरणम्

प्रकृतिव्यसनं यत्स्यात्तत्प्रशाम्य समुत्पतेत् ।
अनयापनयाभ्यां तज् जायते दैवतो ऽपि च ॥१८॥

यस्मात् तद् व्यस्यति श्रेयस् तस्माद् व्यसनम् उच्यते ।
व्यसन्य् अधो ऽधो व्रजति तस्मात् तत् परिवर्जयेत् ॥१९॥

हुताशनो जलं व्याधिर् दुभिक्षो मरकस् तथा ।
इति पञ्चविधं दैवं व्यसनं मानुषं परम् ॥२०॥

दैवं पुरुषकारेण शान्त्या च प्रशमं नयेत् ।
उत्थायित्वेन नीत्या च मानुषं कार्यतत्त्ववित् ॥२१॥

स्वाम्यादिमित्रपर्यन्तं प्राकृतं मण्डलं हि यत् ।
तस्य कर्म प्रवक्ष्यामि व्यसनं च यथाक्रमम् ॥२२॥

मन्त्रो मन्त्रफलावाप्तिः कार्यानुष्ठानम् आयतिः ।
आयव्ययौ दण्डनीतिर् अमित्रप्रतिषेधनम् ॥२३॥

व्यसनस्य प्रतीकारो राजराज्याभिरक्षणम् ।
इत्य् अमात्यस्य कर्मेदं हन्ति तद्व्यसनान्वितः ॥२४॥

अमात्यैर् व्यसनोपेतैर् ह्रियमाणो हि भूपतिः ।
अशक्त एवोत्पतितुं छिन्नपक्ष इवाण्डजः ॥२५॥

हिरण्यवस्त्रधान्यादि वाहनानि तथैव च ।
तथान्ये द्रव्यनिचयाः प्रजातः सम्भवन्ति हि ॥२६॥

वार्तां प्रजा साधयति वार्ता वै लोकसंश्रया ।
प्रजायां व्यसनस्थायां न किञ्चिद् अपि सिध्यति ॥२७॥

प्रजानाम् आपदि त्राणं रक्षणं कोशदण्डयोः ।
पौराश् चैवोपकुर्वन्ति संश्रयायेह दुर्गिणाम् ॥२८॥

तूष्णीं युद्धं जनत्राणं मित्रामित्रपरिग्रहः ।
सामन्ताटविकाबाधानिरोधो दुर्गसंश्रयात् ॥२९॥

स्वपक्षैः परपक्षैश् च दुर्गस्थः पूज्यते नृपः ।
एतद् धि दुर्गव्यसनात् सर्वम् एव विपद्यते ॥३०॥

भृत्यानां भरणं दानं भूषणं वाहनक्रियाः ।
स्थैर्यं परोपजापश् च दुर्गसंस्कार एव च ॥३१॥

सेतुबन्धो वणिक्कर्म प्रजामित्रपरिग्रहः ।
धर्मकामार्थसिद्धिश् च कोशाद् एतत् प्रर्वतते ॥३२॥

कोशमूलो हि राजेति प्रवादः सार्वलौकिकः ।
एतत् सर्वं जहात्य् आशु कोशव्यसनवान् नृपः ॥३३॥

क्षीणं बलं वर्धयति स्वतो गृह्णाति च प्रजाः ।
कोशवान् पृथिवीपालः परैर् अप्य् उपजीव्यते ॥३४॥

मित्रामित्रहिरण्यानां भूमीनां च प्रसाधनम् ।
दूरकार्याशुकारित्वं लब्धस्य परिपालनम् ॥३५॥

परचक्रविघातश् च स्वदण्डस्य परिग्रहः ।
दण्डाद् एतत् प्रभवति याति तद्व्यसने क्षयम् ॥३६॥

अरयो ऽपि हि मित्रत्वं यान्ति दण्डवतो ध्रुवम् ।
दण्डप्रायो हि नृपतिर् भुनक्त्य् आक्रम्य मेदिनीम् ॥३७॥

संस्तम्भयति मित्राणि शत्रून् उत्सादयत्य् अपि ।
भूकोशदण्डैर् व्रजति प्राणैश् चाप्य् उपकारिताम् ॥३८॥

तत् तत् करोति च बहिर् मित्रं स्नेहनिबन्धनम् ।
तस्मिन् व्यवसनम् आपन्ने मित्रकर्म न विद्यते ॥३९॥

उपकाराद् ऋते ऽप्य् आशु मित्रं श्रेयसि तिष्ठति ।
मित्रवान् साधयत्य् अर्थान् दुःसाध्यान् अप्य् अनादरात् ॥४०॥

अन्वीक्षणं च विद्यानां सद्वर्णाश्रमरक्षणम् ।
ग्रहणं शस्त्रशास्त्राणां युद्धमार्गोपशिक्षणम् ॥४१॥

व्यायामः शस्त्रविज्ञानं वर्मणां लक्षणानि च ।
गजाश्वरथपृष्ठेषु यथावत् सम्प्रवर्तनम् ॥४२॥

नियुद्धकौशलं माया परचित्तप्रवेशनम् ।
धूर्तता शाठ्ययुक्तेषु सत्सु सद्वृत्तदर्शनम् ॥४३॥

मन्त्रोद्योगो ऽनुमन्त्रत्वं तद्रक्षा तात्स्थ्यम् एव च ।
उपेक्षा साम दानं च भेदो दण्डश् च साधनम् ॥४४॥

प्रशास्तृसूतसेनानीमन्त्र्यमात्यपुरोधसाम् ।
सम्यक् प्रचारविज्ञानं दुष्टानां चावरोपणम् ॥४५॥

गतागतपरिज्ञानं दूतसम्प्रेषणानि च ।
प्रकृतिव्यसनापोहः क्रुद्धप्रशमनानि च ॥४६॥

गुरूणाम् अनुवृत्तिश् च पूज्यानाम् अनुपूजनम् ।
धर्मासनप्रतिष्ठानं राज्यकण्टकशोधनम् ॥४७॥

भृताभृतपरिज्ञानं कृताकृतपरीक्षणम् ।
तुष्टातुष्टविचारश् च सर्वेषाम् अनुजीविनाम् ॥४८॥

मध्योदासीनचरितज्ञानं तत्सिद्धिपालनम् ।
प्रतिग्रहश् च मित्राणाम् अमित्राणां च निग्रहः ॥४९॥

पुत्रदारादिगुप्तिश् च बन्धुवर्गपरिग्रहः ।
खनिद्विपवनादीनां1 स्ववृत्तीनां प्रवर्तनम् ॥५०॥

एदितिओन्स् रेअद्- खनिद्वीपवनादीनां
असतां च परिक्षेपः सतां च परिगूहनम् ।
अहिंसा सर्वभूतानाम् अधर्माणां च वर्जनम् ॥५१॥

अकार्यप्रतिषेधश् च कार्याणां च प्रवर्तनम् ।
प्रदानं च प्रदेयानाम् अदेयानाम सङ्ग्रहः ॥५२॥

अदण्डनम् अदण्ड्यानां दण्ड्यानां चापि दण्डनम् ।
अग्राह्याग्रहणं चैव ग्राह्याणां ग्रहणं तथा ॥५३॥

अर्थयुक्तस्य करणम् अनर्थस्य च वर्जनम् ।
न्यायतश् च करादानं स्वयं च प्रतिमोक्षणम् ॥५४॥

समर्थनं प्रधानानां निरस्यानां निराकृतिः ।
वैषम्याणां प्रशमनं भृत्यानां चाविरोधनम् ॥५५॥

अविज्ञातस्य विज्ञानं विज्ञातस्य च निश्चयः ।
आरम्भः कर्मणः शश्वद् आरब्धस्यान्तदर्शनम् ॥५६॥

अलब्धलिप्सा न्यायेन लब्धस्य च विवर्धनम् ।
परिवृद्धस्य विधिवत् पात्रे सम्प्रतिपादनम् ॥५७॥

अधर्मप्रतिषेधश् च न्यायमार्गेण वर्तनम् ।
उपकार्योपकारित्वम् इति वृत्तं महीपतेः ॥५८॥

एतत् सर्वम् अमात्यादि राजा नयपुरःसरः ।
नयत्य् उन्नतिम् उद्युक्तो व्यसनी क्षयम् एव तु ॥५९॥

तस्मिन् धर्मार्थयोर् व्यग्रे तथैवास्वस्थचेतसि ।
सर्वम् एतद् विशेषेण मन्त्री सन् नेतुम् अर्हति ॥६०॥


  1.  ↩︎