०१ उत्साहप्रशंसाप्रकरणम्

अन्वहं चरचर्याभिर् विफले दूतचेष्टिते ।
यायाद् यथोक्तयानस् तु सूक्ष्मबुद्धिपुरःसरः ॥१॥

सूक्ष्मा सत्त्वप्रयत्नाभ्यां दृढं बुद्धिर् अधिष्ठिता ।
प्रसूते हि फलं श्रीमद् अरणीव हुताशनम् ॥२॥

धातोश् चामीकरम् इव सर्पिर् निर्मथनाद् इव ।
बुद्धिप्रयत्नोपगताद् व्यवसायाद् ध्रुवं फलम् ॥३॥

धीमान् उत्साहसम्पन्नः व्यवसायसमन्वितः ।
भाजनं परमं श्रीणाम् अपाम् इव महार्णवः ॥४॥

नलिनीवाम्बुसम्पत्त्या बुद्ध्या श्रीः परिपाल्यते ।
उत्थानाध्यवसायाभ्यां विस्तारम् उपनीयते ॥५॥

लक्ष्मीर् उत्साहसम्पन्नाद् बुद्धिशुद्धं प्रसर्पतः ।
नापैति कायाच् छायेव विस्तारं चोपगच्छाति ॥६॥

वीतव्यसनम् अश्रान्तं महोत्साहं महामतिम् ।
प्रविशन्ति महालक्ष्म्यः सरित्पतिम् इवापगाः ॥७॥

सत्त्वबुद्ध्युपपन्नो ऽपि व्यसनग्रस्तमानसः ।
श्रीभिः षण्ड इव स्त्रीभिर् अलसः परिभूयते ॥८॥

उत्थानेनैधयेत् सत्त्वम् इन्धनेनेव पावकम् ।
श्रियो हि सततोत्थायी दुर्बलो ऽपि समश्नुते ॥९॥

भोक्तुं पुरुषकारेण दुष्टां स्त्रियम् इव श्रियम्।
व्यवसायं सदैवेच्छेन् न हि क्लीबवद् आचरेत् ॥१०॥

वशे श्रियं सदोत्साही सैंहीं वृत्तिं समाश्रितः ।
कचग्रहेण कुर्वीत दुर्वृत्ताम् इव योषितम् ॥११॥

किरीटमणिचित्रेषु मूर्धसु त्राणधारिषु ।
नाकृत्वा विद्विषां पादं पुरुषो भद्रम् अश्नुते ॥१२॥

प्रयत्नप्रेर्यमाणेन महता चित्तहस्तिना ।
रूढवैरिद्रुमोत्खातम् अकृत्वेह कुतः सुखम् ॥१३॥

हेलाकृष्टस्फुरत्तीक्ष्णखड्गांशुपरिपिञ्जरैः ।
श्रीमत्करिकराकारैर् आह्रियन्ते भुजैः श्रियः ॥१४।
उच्चैर् उच्चैस्तराम् इच्छन् पदान्य् आयच्छते महान्।
नीचो नीचैस्तरां याति निपातभयशङ्कया ॥१५॥

प्रमाणाभ्यधिकस्यापि महत्सत्त्वम् अधिष्ठितः ।
करोत्य् एव पदं मूर्ध्नि केसरी मत्तहस्तिनः ॥१६॥

गतभीर् भीतिजननं भोगं भोगीव दर्शयेत् ।
यथाबलं च कुर्वीत रिपोर् दण्डनिपातनम् ॥१७॥