तर्केङ्गितज्ञः स्मृतिमान् मृदुर् लघुपरिक्रमः ।
क्लेशायाससहो दक्षश् चारः स्यात् प्रतिपत्तिमान् ॥२६॥
तपस्विलिङ्गिनो धूर्ताः शिल्पपण्योपजीविनः ।
चराश् चरेयुः परितः पिबन्तो जगतां मतम् ॥२७॥
निर्गच्छेयुर् विशेयुश् च सर्ववार्ताविदो ऽन्वहम् ।
चराः सकाशं नृपतेश् चक्षुर् दूरचरं हि ते ॥२८॥
सूक्ष्मसूत्रप्रचारेण पश्येद् वैरिविचेष्टितम् ।
स्वपन्न् अपि हि जागर्ति चारचक्षुर् महीपतिः ॥२९॥
विवस्वान् इव तेजोभिर् नभस्वान् इव चेष्टितैः ।
राजा चारैर् जगत् कृत्स्नं व्याप्नुयाल् लोकसम्मतैः ॥३०॥
चारचक्षुर् नरेन्द्रस् तु सम्पतेत् तेन भूयसा ।
अनेनासम्पतन् मार्गात् पतत्य् अन्धः समे ऽपि हि ॥३१॥
सर्वसम्पत्समुदयं सर्वावस्थाविचेष्टितम् ।
चारेण द्विषतां विद्यात् तद्देशप्रार्थनादि च ॥३२॥
प्रकाशश् चाप्रकाशश् च चरस् तु द्विविधः स्मृतः ।
अप्रकाशो ऽयम् उद्दिष्टः प्रकाशो दूत उच्यते ॥३३॥
चरेण प्रचरेत् प्राज्ञः सूत्रेणर्त्विग् इवाध्वरे ।
दूते सन्धानम् आयत्तं चरे चर्या प्रतिष्ठिता ॥३४॥
संस्थानवत्यः संस्थाश् च कार्याः कार्यसमृद्धये ।
तिष्ठेयुर् यासु सञ्चाराः परचर्योपवेदिनः ॥३५॥
वणिक् कृषीवलो लिङ्गी भिक्षुको ऽध्यापकस् तथा ।
संस्थाः स्युश् चारसंस्थित्यै दत्तदायाः सुखाशयाः ॥३६॥
स्वपक्षे परपक्षे च यावान् कश्चिद् विवक्षितः ।
सर्वस्मिंस् तत्र सञ्चारास् तिष्ठेयुश् चित्तवेदिनः ॥३७॥
तीक्ष्णः प्रव्रजितश् चैव सत्री रसद एव च ।
एते प्रधानं सञ्चाराः सर्वे नान्योन्यवेदिनः ॥३८॥
स्वपक्षे परपक्षे वा यो न वेद चिकीर्षितम् ।
जाग्रत्स्व् अरिषु सुप्तो ऽसौ न भूयः प्रतिबुध्यते ॥३९॥
कारणाकारणक्रुद्धान् बुध्येत स्वपरिग्रहे ।
पापान् अकारणक्रुद्धान् तूष्णीन्दण्डेन साधयेत् ॥४०॥
ये तु कारणतः क्रुद्धास् तान् वशीकृत्य संविशेत् ।
शमयेद् दानमानाभ्यां छिद्रम् अण्व् अप्य् अरेर् मुखम् ॥४१॥
कण्टकान् मुखभङ्गेन राज्यस्य प्रशमं नयेत् ।
उद्युक्तः सामदानाभ्यां छिद्रं च परिपूरयेत् ॥४२॥
अणुनापि प्रविश्यारिश् छिद्रेण बलवत्तरम् ।
निःशेषं मज्जयेद् राज्यं पानपात्रम् इवोदकम् ॥४३॥
जडमूकान्धबधिरच्छद्मानः षण्डकास् तथा ।
किरातवामनाः कुब्जास् तद्विधा ये च कारवः ॥४४॥
भिक्षुक्यश् चारणा दास्यो मालाकाराः कलाविदः ।
अन्तःपुरगतां वार्तां निर्हरेयुर् अलक्षिताः ॥४५॥
छत्रव्यजनभृङ्गारयानवाहनधारिणः ।
महामात्रबहिर्वार्तां विद्युर् अन्ये च तद्विधाः ॥४६॥
अन्नव्यञ्जनकर्तारः कल्पकाः स्नापकास् तथा ।
प्रसाधका भोजकाश् च गात्रसंवाहका अपि ॥४७॥
जलताम्बूलकुसुमगन्धभूषणदायकाः ।
कर्तव्या रसदा ह्य् एते ये चान्ये ऽभ्याशवर्तिनः ॥४८॥
सञ्ज्ञाभिर् म्लेच्छितैर् लेख्यैर् आकारैर् इङ्गितैर् अपि ।
सञ्चारयेयुर् अव्यग्राश् चाराश् चर्यां परस्परम् ॥४९॥
समापिबन्तो जगतां मतानि
जलानि भूमेर् इव सूर्यपादाः ।
अनेकशिल्पाध्ययनप्रवीणाश्
चाराश् चरेयुर् बहुलिङ्गिरूपाः ॥५०॥
येन प्रकारेण परान् उपेयात्
परापरज्ञः स्वसमृद्धिहेतोः ।
तम् आत्मनि स्वस्थमतिश् च तज्ज्ञैः
प्रयुज्यमानं च परेण विद्यात् ॥५१॥