०१ दूतप्रचारप्रकरणम्

कृतमन्त्रः सुमन्त्रज्ञो मन्त्रिणां मन्त्रसम्मतम् ।
यातव्याय प्रहिणुयाद् दूतं दूत्याभिमानिनम् ॥ १ ॥

प्रगल्भः स्मृतिमान् वाग्मी शस्त्रे शास्त्रे च निष्ठितः ।
अभ्यस्तकर्मा नृपतेर् दूतो भवितुम् अर्हति ॥२॥

निसृष्टार्थो मितार्थश् च तथा शासनवाहकः ।
सामर्थ्यात् पादतो हीनो दूतस् तु त्रिविधः स्मृतः ॥३॥

स भर्तुः शासनाद् गच्छेद् गन्तव्यं ह्य् उत्तरोत्तरम् ।
स्ववाक्यपरवाक्यानाम् इति चेति च चिन्तयन् ॥४॥

अन्तपालांश् च कुर्वीत मित्राण्य् आटविकांस् तथा ।
जलस्थानानि मार्गांश् च विद्यात् स्वबलसिद्धये ॥५॥

नाविज्ञातः पुरं शत्रोः प्रविशेन् न च संसदम् ।
कालम् ईक्षेत कार्यार्थम् अनुज्ञातश् च निष्पतेत् ॥६॥

सारवत्तां च राष्ट्रस्य दुर्गं तद्गुप्तिम् एव च ।
छिद्रं च शत्रोर् जानीयात् कोशमित्रबलानि च ॥७॥

उद्यतेष्व् अपि शस्त्रेषु यथोक्तं शासनं वदेत् ।
रागापरागौ जानीयाद् दृष्टिवक्त्रविचेष्टितैः ॥८॥

सहेतानिष्टवचनं कामं क्रोधं च वर्जयेत् ॥

नान्यैः शयीत संरक्षेद् भावं विद्यात् परस्य च ॥९॥

रागापरागौ जानीयात् प्रकृतीनां च भर्तरि ।
कृत्यपक्षोपजापं च कुर्याद् अनभिलक्षितः ॥१०॥

वध्यमानो ऽपि न ब्रूयात् स्वस्वामिप्रकृतिच्युतिम् ।
ब्रूयात् प्रश्रितया वाचा सर्वं वेद भवान् इति ॥११॥

कुलेन नाम्ना द्रव्येण कर्मणा च गरीयसा ।
कुर्याच् चतुर्विधं स्तोत्रं पक्षयोर् उभयोर् अपि ॥१२॥

विद्याशिल्पोपदेशेन संश्लिष्योभयवेतनैः ।
कृत्यपक्षं विजानीयात् तद् भर्तुश् च विचेष्टितम् ॥१३॥

तीर्थाश्रमसुरस्थाने शास्त्रविज्ञानहेतुना ।
तपस्विव्यञ्जनोपेतैः स्वचारैः सह सम्पतेत् ॥१४॥

प्रतापं कुलम् ऐश्वर्यं त्यागम् उत्थानसौष्ठवम् ।
अक्षुद्रतां दक्षतां च भर्तुर् भेद्येषु कीर्तयेत् ॥१५॥

भावम् अन्तर्गतं व्यक्तं सुप्तो मत्तश् च भाषते ।
तस्माद् एकः स्वपेन् नित्यं स्त्रियः पानं च वर्जयेत् ॥१६॥

काले व्रजति मेधावी न खिद्येतार्थसिद्धये ।
क्षिप्यमाणं च बुध्येत कालं नानाविलोभनैः ॥१७॥

एतेष्व् अहःसु गच्छत्सु तत्र नः पृथिवीपतेः ।
पश्यति व्यसनं किञ्चित् स्वयं वा कर्तुम् ईहते ॥१८॥

स्वान्तःप्रकोपम् अथ वा विनेतुं नीतिवित्तमः ।
सस्यादेः सङ्ग्रहं कर्तुं दुर्गे वा दुर्गसत्क्रियाम् ॥१९॥

स्वपक्षाभ्युदयाकाङ्क्षी देशकालाव् उदीक्षते ।
उत यात्रां स्वयं दातुं येनास्मान् न समीहते ॥२०॥

यात्राकालक्रियार्थी वा तत्र चायं विलम्बते ।
काले विक्षिप्यमाणे तु तर्कयेद् इति पण्डितः ॥२१॥

कार्यकालविपत्तिं च व्यक्तां ज्ञात्वा विनिष्पतेत् ।
तिष्ठन् वार्ताविशेषार्थान् भर्त्रे सर्वान् निवेदयेत् ॥२२॥

रिपोः शत्रुपरिच्छेदः सुहृद्बन्धुविभेदनम् ।
दुर्गकोशबलज्ञानं कृत्यपक्षोपसङ्ग्रहः ॥२३॥

राष्ट्राटव्यन्तपालानाम् आत्मसात्करणं तथा ।
युद्धापसारभूज्ञानं दूतकर्मेति कीर्तितम् ॥२४॥

दूतेनैव नरेन्द्रस् तु कुर्याद् अरिविमर्शनम् ।
स्वपक्षे च विजानीयात् परदूतविचेष्टितम् ॥२५॥