षाड्गुण्यनिश्चितमतिर् गुह्यं गूढप्रचारवान् ।
मन्त्रयेतेह मन्त्रज्ञो मन्त्रज्ञैः सह मन्त्रिभिः ॥ १ ॥
मन्त्रार्थकुशलो राजा सुखं विजयम् अश्नुते ।
विपरीतस् तु विद्वद्भिः स्वतन्त्रो ऽप्य् अवधूयते॥ २ ॥
दुर्मन्त्रम् एनं रिपवो यातुधाना इव क्रतुम् ।
समन्ततो विलुम्पन्ति तस्मान् मन्त्रपरो भवेत् ॥ ३ ॥
मन्त्रयेतेह कार्याणि सहाप्तेन विपश्चिता ।
आप्तं मूर्खम् अनाप्तं च पण्डितं वर्जयेद् इह ॥ ४ ॥
मार्गं सन्मार्गगतिभिः सिद्धये सिद्धकर्मभिः ।
पूर्वैर् आचरितं सद्भिः शास्त्रीयं न परित्यजेत् ॥ ५ ॥
उच्छास्त्रपदविन्यासः सहसैवाभिसम्पतन् ।
शत्रुखड्गमुखग्रासम् अगत्वा न निवर्तते ॥ ६ ॥
प्रभावोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते ।
प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा ॥ ७ ॥
अशिक्षितनयः सिंहो हन्तीभं केवलं बलात् ।
तं च धीरो नरस् तेषां शतानि मतिमाञ् जयेत् ॥ ८ ॥
पश्यद्भिर् दूरतो ऽपायान् सूपायप्रतिपत्तिभिः ।
भवन्तीह फलायैव विद्वद्भिर् मन्त्रिताः क्रियाः ॥ ९ ॥
उपायपूर्वं लिप्सेत कालं वीक्ष्य समुत्पतेत् ।
पश्चात्तपाय भवति विक्रमैकरसज्ञता ॥ १० ॥
शक्याशक्यपरिच्छेदं कुर्याद् बुद्ध्या प्रसन्नया ।
केवलं दन्तभङ्गाय दन्तिनः शैलताडनम् ॥ ११ ॥
अशक्यारम्भवृत्तीनां कुतः क्लेशाद् ऋते फलम् ।
आकाशम् आस्वादयतः कुतस् तु कवलग्रहः ॥ १२ ॥
नाग्निं पतङ्गवद् गच्छेत् स्पृश्यम् एव तु संस्पृशेत् ।
किम् अन्यत् स्याद् ऋते दाहात् पतङ्गस्याग्निम् ऋच्छतः ॥ १३ ॥
मोहात् प्रक्षिपतश् चेष्टां दुःखलभ्येषु वस्तुषु ।
भवन्ति परितापिन्यो व्यक्तं कर्मविपत्तयः ॥ १४ ॥
बुद्ध्या बोध्यानुगतया परीयात् सम्पदः पदम् ।
विशुद्धपदविन्यासः पर्वताग्रम् इवोन्नतम् ॥ १५ ॥
दुरारूढं पदं राज्ञां सर्वलोकनमस्कृतम् ।
स्वल्पेनाप्य् अपचारेण ब्राह्मण्यम् इव दुष्यति ॥ १६ ॥
आरब्धानि यथाशास्त्रं कार्याण्य् अमलबुद्धिभिः ।
वनानीव मनोहारि प्रयच्छन्त्य् अचिरात् फलम् ॥ १७ ॥
सम्यग् आरभ्यमाणं हि कर्म यद्य् अपि निष्फलम् ।
न तत् तथा तापयति यथा मोहसमीहितम् ॥ १८ ॥
यत् तु सम्यग् उपक्रान्तं कार्यम् एति विपर्ययम् ।
पुमांस् तत्रानुपालभ्यो दैवान्तरितपौरुषः ॥ १९ ॥
प्रयत्नस् तावद् आस्थेयः फलायामलबुद्धिना ।
अथर्ववेदनिपुणः शेषं दैवं समाश्रयेत् ॥ २० ॥
आत्मानं च परं चैव वीक्ष्य धीरः समुत्पतेत् ।
एतद् एव हि विज्ञानं यद् आत्मपरवेदनम् ॥ २१ ॥
निष्फलं क्लेशबहुलं सन्दिग्धफलम् एव च ।
न कर्म कुर्यान् मतिमान् महावैरानुबन्धि च ॥ २२ ॥
तदात्वायतिसंशुद्धं सुविशुद्धक्रमागतम् ।
हितानुबन्धि च सदा कर्म सद्भिः प्रशस्यते ॥ २३ ॥
हितानुबन्धि तज् जातु गच्छेद् येन न वाच्यताम् ।
तस्मिन् कर्मणि सज्जेत तदात्वकटुके ऽपि हि ॥ २४ ॥
बुद्ध्यैवोपक्रमः श्रेयान् फलनिष्पत्तये सदा ।
क्वचित् कल्याणमित्रस्य शस्यते सिंहवृत्तिता ॥ २५ ॥
सहसोत्प्लुत्य दुष्टेभ्यो दुष्करं सम्पदार्जनम् ।
उपायेन पदं मूर्ध्नि न्यस्यते मत्तहस्तिनः ॥ २६ ॥
न किञ्चित् क्वचिद् अस्तीह वस्त्व् असाध्यं विपश्चिताम् ।
अयोऽभेद्यम् उपायेन द्रवताम् उपनीयते ॥ २७ ॥
वाह्यमानम् अयःपिण्डं महच् चापि न कृन्तति ।
तद् अल्पम् अपि धारावद् भवतीप्सितसिद्धये ॥ २८ ॥
लोकप्रसिद्धम् एवैतद् वारि वह्नेर् नियामकम् ।
उपायोपगृहीतेन तत् तेनैव विशोष्येत ॥ २९ ॥
अविज्ञातस्य विज्ञानं विज्ञातस्य विनिश्चयः ।
अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनम् ॥ ३० ॥
विदुषां शासने तिष्ठन् नावमन्येत कञ्चन ।
सर्वस्यैवोपशृणुयात् सुभाषितजिघृक्षया ॥ ३१ ॥
मदोद्वृत्तः क्रियामूढो यो ऽतिक्रामति मन्त्रिणम् ।
अचिरात् तं वृथामन्त्रम् अतिक्रामन्ति विद्विषः ॥ ३२ ॥
संरक्षेन् मन्त्रबीजं हि तद् बीजं हि महीभृताम् ।
तस्मिन् भिन्ने ध्रुवो भेदो गुप्ते गुप्तिर् अनुत्तमा ॥ ३३ ॥
सिंहवच् चेष्टमानस्य काले कर्म विपश्चितः ।
क्रियमाणं स्वकुल्यास् तु विद्युर् अस्य परे कृतम् ॥ ३४ ॥
अपश्चात्तापकृत्सम्यगनुबन्धिफलप्रदः ।
अदीर्घकालो ऽभीष्टश् च प्रशस्तो मन्त्र इष्यते ॥ ३५ ॥
सहायाः साधनोपाया विभागो देशकालयोः ।
विपत्तेश् च प्रतीकारः सिद्धिः पञ्चाङ्ग इष्यते ॥ ३६ ॥
अनुतिष्ठेत् समारब्धम् अनारब्धं प्रयोजयेत् ।
अनुतिष्ठंश् च संवृत्य विशेषेणोपपादयेत् ॥ ३७ ॥
प्रचारयेन् मन्त्रविदः कार्यद्वारेष्व् अनेकधा ।
यत्र तच् चेतसां साम्यं तेन शीघ्रं समुत्पतेत् ॥ ३८ ॥
यत्र मन्त्रिमनःसाम्यं यत्र चेतो न शङ्कते ।
यत्र सन्तो न निन्दन्ति तत् परीयाच् चिकीर्षितम् ॥। ३९ ॥
धृते ऽपि मन्त्रे मन्त्रज्ञैः स्वयं भूयो विचारयेत् ।
तथा वर्तेत मन्त्रज्ञो यथा स्वार्थं न पीडयेत् ॥ ४० ॥
मन्त्रिगणः स्वार्थतात्पर्याद् दीर्घम् इच्छन्ति विग्रहम् ।
तेषां च भोग्याताम् एति दीर्घकार्याकुलो नृपः ॥ ४१ ॥
मनःप्रसादः श्रद्धा च तथा करणपाटवम् ।
सहायोत्थानसम्पच् च कर्मणां सिद्धिलक्षणम् ॥ ४२ ॥
लघुत्थानान्य् अविघ्नानि सम्भवत्साधनानि च ।
कथयन्ति पुरः सिद्धिं करणान्य् एव कर्मणाम् ॥ ४३ ॥
आवर्तयेन् मुहुर् मन्त्रं धारयेच् च प्रयत्नतः ।
अप्रयत्नधृतो मन्त्रः प्रचलन्नग्निवद् दहेत् ॥ ४४ ॥
आप्ताप्तसन्ततेर् मन्त्रं संरक्षेत् तत्परस् तु सन् ।
अरक्ष्यमाणं मन्त्रं हि भिनत्त्य् आप्तपरम्परा ॥ ४५ ॥
मदः प्रमादः कामश् च सुप्तप्रलपितानि च ।
भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्यो ऽवमतास् तथा ॥ ४६ ॥
निस्तम्भे निर्गवाक्षे च निष्कुड्यान्तरसंश्रये ।
प्रासादाग्रे ह्य् अरण्ये वा मन्त्रयेद् अविभावितः ॥ ४७ ॥
द्वादशेति मनुः प्राह षोडशेति बृहस्पतिः ।
उशना विंशतिर् इति मन्त्रिणां मन्त्रिमण्डलम् ॥ ४८ ॥
यथासम्भवम् इत्य् अन्ये तत् प्रविश्य यथाविधि ।
मन्त्रयेताहितमनाः कार्यसिद्धिविवृद्धये ॥ ४९ ॥
एकैकेनापि कार्याणि प्रविचार्य पुनः पुनः ।
प्रविशेत् स्वहितान्वेषी मतम् एषां पृथक् पृथक् ॥ ५० ॥
महापक्षो यथाशास्त्रं दृष्टकर्मा हितः सुधीः ।
यद् यद् ब्रूयान् मतारूढस् तत् तत् साधु समाचरेत् ॥ ५१ ॥
नातीयात् कार्यकालं हि कृत्वा मन्त्रविनिश्चयम् ।
अतिक्रान्तं तु तं भूयो यथायोगं प्रकल्पयेत् ॥ ५२ ॥
न कार्यकालं मतिमान् अतिक्रामेत् कदाचन ।
कथञ्चिद् एव भवति कार्ययोगः सुदुर्लभः ॥ ५३ ॥
सतां मार्गेण मतिमान् काले कर्म समाचरेत् ।
काले समाचरन् साधु रसवत् फलम् अश्नुते ॥ ५४ ॥
इति चेति च सम्पश्यन् काले देशे सहायवान् ।
विशुद्धपार्ष्णिः सद् वस्तु समाक्रामेन् न चापलात् ॥ ५५ ॥
अहिते हितबुद्धिर् अल्पधीर्
अवमन्येत मतानि मन्त्रिणाम् ।
चपलः सहसैव सम्पतन्न्
अरिखड्गाभिहतः प्रबुध्यते ॥ ५६ ॥
अविचार्य बलाबलं द्विषाम्
अहम् इत्य् एव समुद्धतो ऽनयात् ।
चपलः स्वमतेन सम्पतन्न्
अनिपत्याल्पमना न बुध्यते ॥ ५७ ॥
इति मन्त्रबलान् महीपतिर्
महतो दुष्टभुजङ्गमान् इव ।
विनयेन् नयमार्गम् आस्थितो
वशम् उद्योगसमन्वितो रिपून् ॥ ५८ ॥