उत्कृष्टबलवीर्यस्य विजीगीषोर् जयैषिणः ।
गुणानुरक्तप्रकृतेर् यात्रा यानम् इति स्मृतम् ॥ १ ॥
विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः ।
उपेक्षा चेति निपुणैर् यानं पञ्चविधं स्मृतम् ॥ २ ॥
विगृह्य याति हि यदा सर्वाञ् छत्रोर् गणान् बलात् ।
विगृह्ययानं यानज्ञास् तदाचार्याः प्रचक्षते ॥ ३ ॥
अरिमित्राणि सर्वाणि स्वमित्रैः सर्वतो बलात् ।
विगृह्य वारिगमनं विगृह्यगमनं स्मृतम् ॥ ४ ॥
सन्धायान्यत्र या यात्रा पार्ष्णिग्राहेण शत्रुणा ।
सन्धायगमनं प्रोक्तं तज् जिगीषोः फलार्थिनः ॥ ५ ॥
एकीभूय यद् एकत्र सामन्तैः सामवायिकैः ।
शक्तिशौचयुतैर् यानं सम्भूयगमनं हि तत् ॥ ६ ॥
उभयारौ तु वा यानं द्वयोः प्रकृतिनाशने ।
सम्भूयगमनं प्रोक्तं हनूमत्सूर्ययोर् इव ॥ ७ ॥
अल्पसारान् उपादाय प्रतिज्ञाय फलोदयम् ।
गम्यते यत् पराञ् जेतुं सम्भूयगमनं हि तत् ॥ ८ ॥
अन्यत्र प्रस्थितः सङ्गाद् अन्यत्रैव हि गच्छति ।
प्रसङ्गयानं तत् प्रोक्तम् अत्र शल्यो निदर्शनम् ॥ ९ ॥
रिपुं यातस्य बलिनः सम्प्राप्याविष्कृतं फलम् ।
उपेक्ष्य तन् मित्रयानम् उपेक्षायानम् उच्यते ॥ १० ॥
निवातकवचान् हित्वा हिरण्यपुरवासिनः ।
उपेक्षायानम् आस्थाय निजघान धनञ्जयः ॥ ११ ॥
स्त्रियो ऽथ पानं मृगया तथाक्षा
दैवोपघातश् च बहुप्रकारः ।
इति प्रदिष्टं व्यसनं ह्य् अनेन
समन्वितो यो व्यसनी स गम्यः ॥१२ ॥
परस्परस्य सामर्थ्याविघाताद् आसनं स्मृतम् ।
अरेश् च विजिगीषोश् च तत् पञ्चविधम् उच्यते ॥ १३ ॥
अन्योन्याक्रान्तिकरणं विगृह्यासनम् उच्यते ।
अरिं विगृह्यावस्थानं विगृह्यासनम् उच्यते ॥ १४ ॥
यदा दुर्गस्थितः शत्रुर् ग्रहीतुं न च शक्यते ।
विगृह्यैनं तदासीत छित्त्वास्यासारवीवधान् ॥ १५ ॥
विच्छिन्नवीवधासारं प्रक्षीणयवसेन्धनम् ।
विरज्यमानप्रकृतिं कालेनैव वशं नयेत् ॥ १६ ॥
अरेश् च विजिगीषोश् च विग्रहे हीयमानयोः ।
सन्धाय समवस्थानं सन्धायासनम् उच्यते ॥ १७ ॥
निवातकवचैः सार्धं रावणः शत्रुरावणः ।
ब्रह्माणम् अन्तरे कृत्वा सन्धायासनम् आस्थितः ॥ १८ ॥
उदासीने मध्यमे च समानप्रतिशङ्कया ।
एकीभूय व्यवस्थानं सम्भूयासनम् उच्यते ॥ १९॥
उभयारिं हि वाञ्छन्तं विनाशम् उभयोर् अपि ।
सम्भूयैनं प्रतिव्यूहेद् अधिकं सर्वसम्पदा ॥ २० ॥
यियासोर् अन्यम् अन्यत्र प्रसङ्गेन हि केनचित् ।
आसनं यत् तदर्थज्ञैः प्रसङ्गासनम् उच्यते ॥ २१ ॥
अथोपेक्ष्यारिम् अधिकम् उपेक्षासनम् उच्यते ।
उपेक्षां कृतवान् इन्द्रः पारिजातग्रहं प्रति ॥ २२ ॥
उपेक्षितस्य वान्यैस् तु कारणेनैव केनचित् ।
आसनं रुक्मिण इव तद् ध्य् उपेक्षासनं स्मृतम् ॥ २३ ॥
बलिनोर् द्विषतोर् मध्ये वाचात्मानं समर्पयन् ।
द्वैधीभावेन वर्तेत काकाक्षिवद् अलक्षितः ॥ २४ ॥
यापयेद् यत्नम् आस्थाय सन्निकृष्टम् अरिं तयोः ।
उभयोर् अपि सम्पाते सेवेत बलवत्तरम् ॥ २५ ॥
यदा द्वाव् अपि नेच्छेतां संश्लेषं जातसंविदौ ।
तदोपसर्पंस् तच्छत्रुम् अधिकं वा समाश्रयेत् ॥ २६ ॥
द्वैधीभावो द्विधा प्रोक्तं स्वतन्त्रपरतन्त्रयोः ।
स्वतन्त्र उक्तो ह्य् अन्यस् तु यः स्याद् उभयवेतनः ॥ २७ ॥
उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः ।
कुलोद्गतं सत्यम् आर्यम् आश्रयेत बलोत्कटम् ॥ २८ ॥
तद्दर्शनोपास्तिकता नित्यं तद्भावभाविता ।
तत्कारिता प्रश्रयिता वृत्तं संश्रयिणां स्मृतम् ॥ २९ ॥
विनीतवत् तत्र कालं गमयित्वा गुराव् इव ।
तत्सङ्गात् प्रतिपूर्णः सन् क्रमेण स्ववशो भवेत् ॥ ३० ॥
ददद् बलं वा कोशं वा भूमिं वा भूमिसम्भवम् ।
आश्रयेद् अभियोक्तारं विसन्धिर् अनपाश्रयः ॥ ३१ ॥
सर्वाणि चैतान्य् आर्तः सन् दद्यात् त्राणार्थम् आत्मनः ।
युधिष्ठिर इवाप्नोति पुनर् जीवन् वसुन्धराम् ॥ ३२ ॥
निष्पतेद् आत्मलाभे वा व्यसने वा रिपोः श्रियः ।
प्रहरेद् वा बलीयस्या सैंह्या वा काल उत्थितः ॥ ३३ ॥
नाकारणात् सङ्गम् इयाज् ज्यायसा वेतरेण वा ।
क्षयव्ययकृताद् दोषाद् विस्रम्भद्रोहजाद् अपि ॥ ३४ ॥
संयोगं हेतुना गत्वा पितर्य् अपि न विश्वसेत् ।
विश्वासम् आगतं सन्तं प्रायो द्रुह्यन्त्य् असाधवः ॥ ३५ ॥
इति षाड्गुण्यम् अन्ये तु द्वैगुण्यम् अभिचक्षते ।
यानासने विग्रहस्य रूपं सद्भिः प्रकीर्तितम् ।
सन्धेस् तु सन्धिमार्गज्ञैर् द्वैधीभावसमाश्रयौ ॥ ३६ ॥
सो ऽभिगच्छंश् च तिष्ठंश् च विग्रहं कुरुते यतः ।
ततो यानासने प्राज्ञैर् विग्रहः परिकीर्त्यते ॥ ३७ ॥
असन्धाय यतो नास्ति द्वैधीभावः समाश्रयः ।
ततो द्वाव् अपि तौ प्राज्ञै रूपं सन्धेर् उदाहृतौ ॥ ३८ ॥
सन्धिश् च विग्रहश् चेति द्वैगुण्यम् इति चक्षते ।
एतौ च संश्रयश् चैव त्रैगुण्यम् इति चापरे ॥ ३९ ॥
यस्माद् अन्यं संश्रयेत बाध्यमानो बलीयसा ।
तत् सन्धेः संश्रयो ह्य् अन्य इत्य् उवाच बृहस्पतिः ॥ ४० ॥
न्याय्यो गुणो विग्रह एक एव
सन्ध्यादयोऽन्ये तु गुणास्तदुत्थाः ।
अवस्थया भेदम् उपागतः सन्
षाड्गुण्यम् इत्य् एव गुरोर् मतं नः ॥ ४१ ॥