अमर्षोपगृहीतानां मन्युसन्तप्तचेतसाम् ।
परस्परापकारेण पुंसां भवति विग्रहः ॥ १ ॥
आत्मनो ऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।
देशकालबलोपेतः प्रारभेतैव विग्रहम् ॥ २ ॥
राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च ।
अपहारो मदो मानः पीडा वैषयिकी तथा ॥ ३ ॥
ज्ञानार्थशक्तिधर्माणां विघातो दैवम् एव च ।
मित्रार्थं चावमानश् च तथा बन्धुविनाशनम् ॥ ४ ॥
भूतानुग्रहविच्छेदस् तथा मण्डलदूषणम् ।
एकार्थाभिनिवेशित्वम् इति विग्रहयोनयः ॥ ५ ॥
राज्यस्त्रीस्थानदेशानां दानेन च दमेन च ।
विग्रहस्य तु युक्तिज्ञैर् इति प्रशमनं स्मृतम् ॥ ६ ॥
एतद् एव तु विज्ञेयं स्वार्थधर्मविघातजे ।
विषयध्वंसजे शत्रोर् विषयप्रतिपीडनम् ॥ ७ ॥
ज्ञानापहारसम्भूते ज्ञानशक्तिविघातजे ।
शमस् तदर्थत्यागेन क्षान्त्या वोपेक्षणेन वा ॥ ८ ॥
अधर्मद्रोहसंयुक्ते मित्रजाते ऽप्य् उपेक्षणम् ।
आत्मवन्मित्रजाते तु प्राणान् अपि परित्यजेत् ॥ ९ ॥
अपमानात् तु सम्भूतं मानेन प्रशमं नयेत् ।
सामपूर्व उपायो वा प्रणामो वाभिमानजे ॥ १० ॥
रहस्येन प्रयोगेण रहस्यकरणेन वा ।
विग्रहं शमयेद् धीरो बन्धुनाशसमुद्भवम् ॥ ११ ॥
येन पीडा न जायेत तादृशं तु विचक्षणः ।
कुर्याद् अर्थपरित्यागम् एकार्थाभिनिवेशजे ॥ १२ ॥
धनापहारजे जातु विरोधं न समाचरेत् ।
कदाचिद् विग्रहे पुंसां सर्वनाशो ऽपि जायते ॥ १३ ॥
दृष्टोपन्यासयुक्तेन सम्प्रदानादिकेन च ।
महाजनसमुत्पन्नं भेदेन प्रशमं नयेत् ॥ १४ ॥
भूतानुग्रहविच्छेदजातस्यान्तं व्रजेद् वशी ।
दैवम् एव तु दैवोत्थे शमनं साधुसम्मतम् ॥ १५ ॥
मण्डलक्षोभसम्भूतम् उपायैः प्रशमं नयेत् ।
सापत्नं वास्तुजं स्त्रीजं वाग्जातम् अपराधजम् ॥ १६ ॥
वैरप्रभेदनिपुणैर् वैरं पञ्चविधं स्मृतम् ।
जातं भूम्युपरोधेन तथा शक्तिविघातजम् ॥ १७ ॥
भूम्यनन्तरजातं च मण्डलक्षोभजं तथा ।
चतुर्विधं वैरजातं बाहुदन्तिसुतो ऽब्रवीत् ॥ १८ ॥
कुलापराधजे प्राहुर् वैरे द्वे एव मानवाः ।
किञ्चित् फलं निष्फलं च सन्दिग्धफलम् एव च ॥ १९ ॥
तदात्वे दोषजननम् आयत्यां चापि निष्फलम् ।
आयत्यां च तदात्वे च दोषस्य जननं तथा ॥ २० ॥
अपरिज्ञातवीर्येण परेण स्तोभितो ऽपि वा ।
परार्थं स्त्रीनिमित्तं च दीर्घकालं द्विजोत्तमैः ॥ २१ ॥
अकाले दैवयुक्तेन बलोद्धृतसखेन च ।
तदात्वे फलसंयुक्तम् आयत्यां फलवर्जितम् ॥ २२ ॥
आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा ।
इतीमं षोडशविधं न कुर्याद् एव विग्रहम् ॥ २३ ॥
तदात्वायतिसंशुद्धम् आरभेत विचक्षणः ।
तदात्वायतिशुद्धानि सर्वकर्माणि चिन्तयेत् ॥ २४ ॥
तदात्वायतिसंशुद्धम् आतिष्ठन् नैति वाच्यताम् ।
साधु लोकद्वयग्राहि विद्वान् कर्म समाचरेत् ।
परित्यजेद् इमं लोकं नार्थलेशोपलोभितः ॥ २५ ॥
परलोकविरुद्धानि कुर्वाणं दूरतस् त्यजेत् ।
इत्यागमप्रमाणत्वात् साधु कल्याणम् आचरेत् ॥ २६ ॥
यदा मन्येत मतिमान् हृष्टं पुष्टं स्वकं बलम् ।
परस्य विपरीतं च तदा विग्रहम् आचरेत् ॥ २७ ॥
स्फीतं यदानुरक्तं च भवेत् प्रकृतिमण्डलम् ।
परस्य विपरीतं च तदा विग्रहम् आचरेत् ॥ २८ ॥
उपनामि यदा दैवं सुव्यक्तम् उपलक्षितम् ।
परस्य विपरीतं तु तदा विग्रहम् आचरेत् ॥ २९ ॥
मित्रम् आक्रन्द आसारो यदा स्युर् दृढभक्तयः ।
परस्य विपरीताश् च तदा विग्रहम् आचरेत् ॥ ३० ॥
भूमिर् मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् ।
यदैतन् नियतम्भावि तदा विग्रहम् आचरेत् ॥ ३१ ॥
गुरु वित्तं ततो मित्रं तस्माद् भूमिर् गरीयसी ।
भूमेर् विभूतयः सर्वास् ताभ्यो बन्धुसुहृद्गणाः ॥ ३२ ॥
सर्वसम्पत्समे शत्राव् उपायान् निक्षिपेद् बुधः ।
उपायैर् अप्रतिव्यूढे समे दण्डः प्रशस्यते ॥ ३३ ॥
आगतं विग्रहं विद्वान् उपायैः प्रशमं नयेत् ।
विजयस्य ह्य् अनित्यत्वाद् रभसेन न सम्पतेत् ॥ ३४ ॥
समाक्रान्तो बलवता काङ्क्षन्न् अभ्रंशिनीं श्रियम् ।
श्रयेत वैतसीं वृत्तिं न भौजङ्गीं कदाचन ॥ ३५ ॥
क्रमाद् वेतसवृत्तिः सन् प्राप्नोति महतीं श्रियम् ।
भुजङ्गवृत्तिर् आप्नोति वधम् एव तु केवलम् ॥ ३६ ॥
मत्तप्रमत्तवत् स्थित्वा ग्रसेतोत्प्लुत्य पण्डितः ।
अपरिभ्रश्यमानं हि क्रमप्राप्तं मृगेन्द्रवत् ॥ ३७ ॥
कौर्मं सङ्कोचम् आस्थाय प्रहारम् अपि मर्षयेत् ।
काले प्राप्ते तु मतिमान् उत्तिष्ठेत् क्रूरसर्पवत् ॥ ३८ ॥
काले सहिष्णुर् गिरिवद् असहिष्णुश् च वह्निवत् ।
स्कन्धेनापि वहेत् काले प्रियाणि समुदाहरन् ।
सम्प्राप्ते चैव काले तु भिन्द्याद् घटम् इवाश्मनि ॥ ३९ ॥
नित्यं स्वार्थपरो लोकः स्वार्थसिद्धिर् यथा भवेत् ।
तथा तस्य प्रतीकारं यथोक्तं समुपाचरेत् ॥ ४० ॥
प्रसादवृत्त्याहितलोकवृत्त्या
प्रविश्य शत्रोर् हृदयं निरन्तरम् ।
नयाग्रहस्तेन हि कालम् आस्थितः
प्रसह्य कुर्वीत कचग्रहं श्रियः ॥ ४१ ॥
कुलोद्गतं सम्यग् उदारविक्रमं
स्थिरं कृतज्ञं मतिमन्तम् ऊर्जितम् ।
अतीव दातारम् उपेतवत्सलं
सुदुष्प्रसाधं प्रवदन्ति विद्विषम् ॥ ४२ ॥
असत्यता निष्ठुरताकृतज्ञता
भयं प्रमादो ऽलसता विषादिता ।
वृथाभिमानो ऽपि च दीर्घसूत्रता
तथाङ्गनाक्षादि विनाशनं श्रियः ॥ ४३ ॥
इति स्म दोषान्वितम् आशु विद्विषं
त्रिशक्तियुक्तो विजिगीषया व्रजेत् ।
अतो ऽन्यथासाधुजनस्य सम्मतः
करोत्य् अविद्वान् उपघातम् आत्मनः ॥ ४४ ॥
समन्वितो राज्यपदोन्निनीषया
मनीषयान्वीक्षितमण्डलक्रियः ।
इमं नृपो विग्रहमार्गमास्थितः
स्थिरोद्यमः सम्प्रयतेत सिद्धये ॥ ४५ ॥