०९ सन्धिविकल्पप्रकरणम्

बलिना विगृहीतः सन् नृपो ऽनन्यप्रतिक्रियः ।
आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः कालयापनम् ॥ १ ॥

कपाल उपहारश् च सन्तानः सङ्गतस् तथा ।
उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ २ ॥

अदृष्टनर आदिष्ट आत्मामिष उपग्रहः ।
परिक्रयस् तथोच्छिन्नस् तथा च परदूषणः ॥ ३ ॥

स्कन्धोपनेयः सन्धिश् च षोडशः परिकीर्तितः ।
इति षोडशकं प्राहुः सन्धिं सन्धिविचक्षणाः ॥ ४ ॥

कपालसन्धिर् विज्ञेयः केवलं समसन्धिकः ।
सम्प्रदानाद् भवति य उपहारः स उच्यते ॥ ५ ॥

सन्तानसन्धिर् विज्ञेयो दारिकादानपूर्वकः ।
सद्भिः सङ्गतसन्धिस् तु मैत्रीपूर्व उदाहृतः ॥ ६ ॥

यावदायुःप्रमाणस् तु समानार्थप्रयोजनः ।
सम्पत्तौ च विपत्तौ च कारणैर् यो न भिद्यते ॥ ७ ॥

सङ्गतः सन्धिर् एवेह प्रकृष्टत्वात् सुवर्णवत् ।
अपरैः सन्धिकुशलैः काञ्चनः स उदाहृतः ॥ ८ ॥

भव्याम् एकार्थसिद्धिं तु समुद्दिश्य क्रियेत यः ।
स उपन्यासकुशलैर् उपन्यास उदाहृतः ॥ ९ ॥

मयास्योपकृतं पूर्वम् अयं प्रतिकरिष्यति ।
इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ १० ॥

उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति ।
अयं चापि प्रतीकारो रामसुग्रीवयोर् इव ॥ ११॥

एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः ।
स संहतप्रयाणस् तु सन्धिः संयोग उच्यते ॥ १२ ॥

आवयोर् योधमुख्याभ्यां मदर्थः साध्यताम् इति ।
यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ १३ ॥

त्वयैकेन मदीयार्थः सम्प्रसाध्यस् त्व् असाव् इति ।
यत्र शत्रुः पणं कुर्यात् सो ऽदृष्टपुरुषः स्मृतः ॥ १४ ॥

यत्र भूम्येकदेशेन पणेन रिपुर् ऊर्जितः ।
सन्धीयते सन्धिविद्भिर् आदिष्टः स उदाहृतः ॥ १५ ॥

स्वसैन्येन तु सन्धानम् आत्मामिष इति स्मृतः ।
क्रियते प्राणरक्षार्थं सर्वदानम् उपग्रहः ॥ १६ ॥

कोशांशेनाथ कुप्येन सर्वकोशेन वा पुनः ।
शेषप्रकृतिरक्षार्थं परिक्रय उदाहृतः ॥१७ ॥

भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते ।
सर्वभूम्युत्थितफलदानेन परदूषणः ॥ १८ ॥

परिच्छिन्नं फलं यत्र स्कन्धस्कन्धेन नीयते ।
स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धिविदो जनाः ॥ १९ ॥

परस्परोपकारश् च मैत्रः सम्बन्धजस् तथा ।
उपहारश् च विज्ञेयाश् चत्वारो ऽन्ये तु सन्धयः ॥ २० ॥

एक एवोपहारस् तु सन्धिर् एतन् मतं हि नः ।
उपहारस्य भेदास् तु सर्वे ऽन्ये मैत्रवर्जिताः ॥ २१ ॥

अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते ।
उपहाराद् ऋते तस्मात् सन्धिर् अन्यो न विद्यते ॥ २२ ॥

बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृतः ।
भीरुको भीरुकजनो लुब्धो लुब्धजनस् तथा ॥ २३ ॥

विरक्तप्रकृतिश् चैव विषयेष्व् अतिसक्तिमान् ।
अनेकचित्तमन्त्रश् च देवब्राह्मणनिन्दकः ॥ २४ ॥

दैवोपहतकश् चैव दैवचिन्तक एव च ।
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः ॥ २५ ॥

अदेशस्थो बहुरिपुर् युक्तः कालेन यश् च सः ।
सत्यधर्मव्यपेतश् च विंशतिः पुरुषा अमी ॥ २६ ॥

एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् ।
एते विगृह्यमाणा हि ध्रुवं यान्ति रिपोर् वशम् ॥ २७ ॥

बालस्य ह्य् अप्रभावत्वान् न लोको योद्धुम् इच्छति ।
योद्धुं स्वयम् अशक्तस्य परार्थे को हि युध्यते ॥ २८ ॥

उत्साहशक्तिहीनत्वाद् वृद्धो दीर्घामयस् तथा ।
स्वैर् एव परिभूयेते द्वाव् अप्य् एताव् असंशयम् ॥ २९ ॥

सुखोच्छेद्यो हि भवति सर्वज्ञातिबहिष्कृतः ।
त एवैनं विनिघ्नन्ति ज्ञातयस् त्व् आत्मसात्कृताः ॥ ३० ॥

भीरुर् युद्धपरित्यागात् क्षिप्रम् एव विनश्यति ।
वीरो ऽप्य् अवीरपुरुषः सङ्ग्रामे तैर् विमुच्यते ॥ ३१ ॥

लुब्धस्यासंविभागित्वान् न युध्यन्ते ऽनुजीविनः ।
लुब्धानुजीवी तैर् एव दानभिन्नैर् निहन्यते ॥ ३२ ॥

सन्त्यज्यते प्रकृतिभिर् विरक्तप्रकृतिर् युधि ।
सुखाभियोगो भवति विषयेष्व् अतिसक्तिमान् ॥ ३३ ॥

अनेकचित्तमन्त्रश् च द्वेष्यो भवति मन्त्रिणाम् ।
अनवस्थितचित्तत्वात् कार्ये तैः समुपेक्ष्यते ॥ ३४ ॥

सदा धर्मबलीयस्त्वाद् देवब्राह्मणनिन्दकः ।
विशीर्यते स्वयं ह्य् एव दैवोपहतकस् तथा ॥ ३५ ॥

सम्पत्तौ च विपत्तौ च दैवम् एव हि कारणम् ।
इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥ ३६ ॥

दुर्भिक्षव्यसनी चैव स्वयम् एवावसीदति ।
बलव्यसनयुक्तस्य योद्धुं शक्तिर् न विद्यते ॥ ३७ ॥

अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते ।
ग्राहो ऽल्पीयान् अपि जले गजेन्द्रम् अपकर्षति ॥ ३८ ॥

बह्वमित्रस् तु सन्त्रस्तः श्येनमध्ये कपोतवत् ।
येनैव गच्छति पथा तेनैवाशु विनश्यति ॥ ३९ ॥

अकालयुक्तसैन्यस् तु हन्यते कालयोधिना ।
कौशिकेन हतज्योतिर् निशीथ इव वायसः ॥ ४० ॥

सत्यधर्मव्यपेतेन न सन्दध्यात् कथञ्चन ।
स सन्धितो ऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥ ४१ ॥

सत्यार्यौ धार्मिकानार्यौ भ्रातृसङ्घातवान् बली ।
अनेकविजयी चेति सन्धेयाः सप्त कीर्तिताः ॥ ४२ ॥
सत्यो ऽनुपालयन् सत्यं सन्धितो नैति विक्रियाम् ।
प्राणबाधेष्व् अपि व्यक्तम् आर्यो नायात्य् अनार्यताम् ॥ ४३ ॥

धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते ।
प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥ ४४ ॥

सन्धिः कार्यो ह्य् अनार्येण सम्प्राप्योत्सादयेद् धि सः ।
रेणुकायाः सुत इव मूलेष्व् अपि न तिष्ठति ॥ ४५ ॥

सङ्घातवान् यथा वेणुर् निबिडः कण्टकैर् वृतः ।
न शक्यते समुच्छेत्तुं भ्रातृसङ्घातवांस् तथा ॥ ४६ ॥

समाक्रान्तस्य बलिना सर्वयत्नवतो ऽपि हि ।
हरिणस्येव सिंहेन शरणं नैव विद्यते ॥ ४७ ॥

ईषद् आयच्छमानो ऽपि सिंहो मत्तान् अपि द्विपान् ।
निहन्ति बलवांस् तस्मात् सन्धेयः शिवम् इच्छता ॥ ४८ ॥

बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् ।
प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥ ४९ ॥

बलीयसि प्रणमतां काले विक्रामताम् अपि ।
सम्पदो नापगच्छन्ति प्रतिपम् इव निम्नगाः ॥ ५० ॥

जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा ।
अनेकयुद्धजयिनः प्रतापाद् एव भिद्यते ॥ ५१ ॥

अनेकयुद्धविजयी सन्धानं यस्य गच्छति ।
तत्प्रतापेन तस्याशु वशं गच्छन्ति विद्विषः ॥ ५२ ॥

न जातु गच्छेद् विश्वासं सन्धितो ऽपि हि बुद्धिमान् ।
अद्रोहे समयं कृत्वा वृत्रम् इन्द्रः पुरावधीत् ॥ ५३ ॥

विकारं याति पुत्रो ऽपि राज्यालीढस् तथा पिता ।
तल् लोकवृत्तान् नृपतेर् अन्यद् वृत्तं प्रचक्षते ॥ ५४ ॥

अभियुक्तो बलवता तिष्ठन् दुर्गे प्रयत्नवान् ।
तद्बलीयस्तराह्वानं कुर्वीतात्मविमुक्तये ॥ ५५ ॥

स्वशक्त्युत्साहम् उद्वीक्ष्य विगृह्णीयान् महत्तरम् ।
केसरीव द्विपम् इति भरद्वाजः प्रभाषते ॥ ५६ ॥

एको ऽपि सिंहः साहस्रं यूथं मथ्नाति दन्तिनाम् ।
तस्मात् सिंह इवोदग्रम् आत्मानं वीक्ष्य सम्पतेत् ॥ ५७॥

ज्यायांसम् अल्पसैन्यस्य बलाद् विक्रम्य निघ्नतः ।
प्रतापसिद्धाः सर्वत्र भवन्ति रिपवो वशे ॥ ५८ ॥

सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयो युधि ।
न हि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥ ५९ ॥

आ सम्प्रवृद्धेर् अभिवृद्धिकामः
समेन सन्धानम् इहोपगच्छेत् ।
अपक्वयोर् वा घटयोर् अवश्यम्
अन्योन्यभेदी समसन्निपातः ॥ ६०॥
युद्धे विनाशो नियतः कदाचिद् उभयोर् अपि ।
सुन्दोपसुन्दाव् अन्योन्यं समवीर्यौ हतौ न किम् ॥ ६१ ॥

विहीनो ऽपि हि सन्धेयो व्यसने रिपुर् आगतः ।
पतन्दुनोति हिमवत्तोयबिन्दुर् इव क्षते ॥ ६२ ॥

न सन्धिम् इच्छेद् धीनश् चेत् तत्र हेतुर् असंशयः ।
तस्य विस्रम्भम् आलभ्य प्रहरेत् तत्र निःस्पृहः ॥ ६३॥

बलीयसाभिसन्धाय तं प्रविश्य प्रयत्नवान् ।
तथासाव् उपगन्तव्यो यथा विस्रम्भम् आप्नुयात् ॥ ६४ ॥

विस्रम्भे नित्यम् उद्युक्तो निगूढाकारचेष्टितः ।
प्रियाण्य् एवाभिभाषेत यत् कार्यं कार्यम् एव तत् ॥ ६५ ॥

विस्रम्भात् प्रियताम् एति विस्रम्भात् कार्यम् ऋच्छति ।
विस्रम्भेण हि देवेन्द्रो दितेर् गर्भम् अपातयत् ॥ ६६ ॥

युवराजेन सन्धाय प्रधानपुरुषेण वा ।
अन्तःप्रकोपं जनयेद् अभियोक्तुः स्थिरात्मनः ॥ ६७॥

अर्थोत्सर्गेन महता लेखैश् चाप्य् आत्मसंहितैः ।
प्रधानपुरुषस्येह प्रकुर्वीतार्थदूषणम् ॥ ६८॥

दूषिते हि महामात्रे रिपुर् उग्रो ऽपि धीमता ।
स्वपक्षे यात्य् अविश्वासम् इत्थम्भूतश् च निष्क्रियः ॥ ६९ ॥

अरेर् अमात्यान् सन्धाय तदारम्भं शमं नयेत् ।
भिषग्भेदेन वा शत्रुं रसदानेन शातयेत् ॥ ७० ॥

अरेः सर्वप्रयत्नेन पश्चात्कोपं प्रकल्पयेत् ।
पश्चात्कोपम् अथानिष्टम् अनुसृत्य प्रधर्षयेत् ॥ ७१ ॥

तद्देशकृतसंवासैश् चारैर् नैमित्तिकैर् अपि ।
उपोढव्यसनादेशं कारयेत् सिद्धलक्षणैः ॥ ७२ ॥

क्षयव्ययायासवधादिदोष-
व्यपेक्षयान्वीक्षितसाधुकृत्यः ।
कामं तु पीडाम् अपि काञ्चिद् इच्छेन्
न विग्रहं तत्प्रभवा हि दोषाः ॥ ७३ ॥

कलत्रम् आत्मा सुहृदो धनानि
वृथा भवन्तीह निमेषमात्रात् ।
मुहुर् मुहुश् चाकुलितानि तानि
तस्मान् न विद्वान् अतिविग्रही स्यात् ॥ ७४ ॥

सुहृद्धनं तथा राज्यम् आत्मानं कीर्तिम् एव च ।
युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥ ७५ ॥

साम्ना प्रदानेन विभेदनेन
सन्धापयेत् साध्व् अभियुज्यमानः ।
सन्धित्सुर् आरात् समसैन्यचक्रं
सामन्तम् आयान्तम् अपेतसन्धिम् ॥ ७६ ॥

स्वगुप्तिम् आधाय सुसंहतेन
बलेन धीरो विचरन्न् अरातिम् ।
सन्तापयेद् येन सुसम्प्रतप्तस्
तप्तेन सन्धानम् उपैति तप्तः ॥ ७७ ॥

इति स्म सन्धिं खलु सन्धिवित्तमा
बभाषिरे पूर्वतना महर्षयः ।
तद् एतद् एवं विनयेन् नरेश्वरः
संवीक्ष्य कार्यं गुरु चेतरद् द्विधा ॥ ७८ ॥