०२ मण्डलशोधनप्रकरणम्

पार्ष्णिग्राहस् तदासारः शत्रुमित्रे प्रकीर्तिते ।
आक्रन्दो ऽथ तदासारो विजिगीषोर् उदाहृते ॥ ४३ ॥

पुरो यायाद् विगृह्यैव मित्राभ्यां पश्चिमावरी ।
पश्चिमाव् इव पूर्वाभ्याम् अरिं तन्मित्रम् एव च ॥ ४४ ॥

अरिमित्रस्य मित्रं तु कृतकृत्येन भूयसा ।
संस्तम्भ्योभयमित्रेण पश्चाद् गच्छेन् नरेश्वरः ॥ ४५ ॥

आक्रन्देनात्मना चैव पार्ष्णिग्राहं प्रपीडयेत् ।
आक्रन्देन तदासारम् आक्रन्दासारभागिना ॥ ४६ ॥

मित्रेण चात्मना चैव कुर्वीतोद्धरणं रिपोः ।
मित्रेण हि समित्रेण रिपुमित्रं प्रपीडयेत् ॥ ४७ ॥

अरिमित्रस्य मित्रस्य पीडनं पृथिवीपतिः ।
कुर्वीतोभयमित्रेण मित्रमित्रेण चैव हि ॥ ४८ ॥

अनेन क्रमयोगेन विजिगीषुः सदोत्थितः ।
पीडयेद् अहितं शत्रुं मित्राणाम् अन्तरान्तरा ॥ ४९ ॥

पीड्यमानो ह्य् उभयतः सदोद्युक्तैर् मनीषिभिः ।
रिपुर् उच्छेदम् आयाति तद्वशे वावतिष्ठते ॥ ५० ॥

सर्वोपायेन कुर्वीत सामान्यं मित्रम् आत्मसात् ।
भवन्ति मित्राद् उच्छिन्नाः सुखोच्छेद्या हि विद्विषः ॥ ५१ ॥

कारणेनैव जायन्ते मित्राणि रिपवस् तथा ।
रिपवो येन जायेरन् कारणं तत् परित्यजेत् ॥ ५२ ॥

प्राधान्येन हि सर्वत्र सर्वाः संरञ्जयेत् प्रजाः ।
तासां संरञ्जनाद् राजा सर्वाङ्गीं श्रियम् अश्नुते ॥ ५३ ॥

दूरेचरान् माण्डलिकांस् तथान्यान् दुर्गवासिनः ।
मित्रीकुर्वीत तत्प्राणाः साधयन्तीह मण्डलम् ॥ ५४ ॥

चलेच् चेद् ऊर्जितबलो मध्यमो विजिगीषया ।
एकीभूयारिणा तिष्ठेद् अशक्तः सन्धिना नमेत् ॥ ५५ ॥

विजिगीषत्य् उदासीने सर्वे मण्डलिनः सह ।
सङ्घधर्मेण तिष्ठेयुः सन्नमेयुर् अशक्तयः ॥ ५६ ॥

समुत्पन्नेषु कृच्छ्रेषु सम्भूय स्वार्थसिद्धये ।
आपत्प्रतरणं सम्यक् सङ्घधर्म इति स्थितिः ॥ ५७ ॥

सहजः कार्यजश् चैव द्विविधः शत्रुर् इष्यते ।
सहजः स्वकुलोत्पन्न इतरः कार्यजः स्मृतः ॥ ५८ ॥

उच्छेदनं चापचयः पीडनं कर्शनं तथा ।
इति विद्याविदः प्राहुः शत्रौ वृत्तं चतुर्विधम् ॥ ५९ ॥

उच्छेदनं तु विज्ञेयं सर्वप्रकृतिनाशनम् ।
नाशो योग्यनरादीनां बुधैर् अपचयः स्मृतः ॥ ६० ॥

रेचनं कोशदण्डाभ्यां महामात्रवधस् तथा ।
एतत् कर्शनम् इत्य् आहुर् आचार्याः पीडनं परम् ॥ ६१ ॥

समाश्रयविहीनो वा दुर्बलं वा समाश्रितः ।
शक्यो ऽरिः सम्पदा युक्त उच्छेत्तुं भूम्यनन्तरः ॥ ६२ ॥

कर्शनं पीडनं काले कुर्वीताश्रयमानिनः ।
समाश्रयं दुर्गम् आहुर् मित्रं वा साधुसम्मतम् ॥ ६३ ॥

विभीषणस्य सोदर्यस् तथा सूर्यसुतस्य च ।
सर्वतन्त्रापहारित्वात् तथोच्छेद्यो निजो रिपुः ॥ ६४ ॥

छिद्रं कर्म च वित्तं च विजानाति निजो रिपुः ।
दहत्य् अन्तर्गतश् चैव शुष्कं वृक्षम् इवानलः ॥ ६५ ॥

बलिना विगृहीतस्य जिगीषुः कृच्छ्रवर्तिनः ।
कुर्वीतोपचयं शत्रोर् आत्मोच्छित्तिविशङ्कया ॥ ६६ ॥

यस्मिन्न् उच्छिद्यमाने तु रिपुर् अन्यः प्रवर्तते ।
न तस्योच्छित्तिम् आतिष्ठेत् कुर्वीतैनं स्वगोचरम् ॥ ६७ ॥

वंशगतो रिपुर् यश् च विचलेद् दुरवग्रहः ।
तस्य संयमनायाशु तत्कुलीनं समुन्नयेत् ॥ ६८ ॥

विषं विषेण व्यथते वज्रं वज्रेण भिद्यते ।
गजेन्द्रो दृष्टसारेण गजेन्द्रेनैव वध्यते ॥ ६९ ॥

मत्स्यो मत्स्यम् उपादत्ते ज्ञातिर् ज्ञातिम् असंशयम् ।
रावणोच्छित्तये रामो विभीषणम् अपूजयत् ॥ ७० ॥

यस्मिन् मण्डलसङ्क्षोभः कृते भवति कर्मणि ।
न तत् कुर्वीत मेधावी प्रकृतीर् अनुरञ्जयेत् ॥ ७१ ॥

साम्ना दानेन मानेन प्रकृतीर् अनुरञ्जयेत् ।
आत्मीया भेददण्डाभ्यां परकीयास् तु भेदयेत् ॥ ७२ ॥

आकीर्णं मण्डलं सर्वं मित्रैररिभिरेव च ।
सर्वः स्वार्थपरो लोकः कुतो मध्यस्थता क्वचित् ॥ ७३ ॥

भोगप्राप्तं विकुर्वाणं मित्रम् अप्य् अवपीडयेत् ।
अत्यन्तविकृतं हन्यात् स पापीयान् रिपुर् मतः ॥ ७४ ॥

वर्तते पक्षपातेन मित्रं चेद् उभयात्मकम् ।
वज्रीव हि त्रिशिरसं तद् उच्छिन्द्यात् कृतत्वरः ॥ ७५ ॥

अमित्रान् अपि कुर्वीत मित्राण्य् उपचयावहान् ।
अहिते वर्तमानानि मित्राण्य् अपि परित्यजेत् ॥ ७६ ॥

स बन्धुर् यो ऽनुबध्नाति हितेष्व् अत्याहितादरः ।
अनुरक्तं विरक्तं च तन् मित्रम् उपकारि यत् ॥ ७७॥

मित्रं विचार्य बहुशो ज्ञातदोषं परित्यजेत् ।
त्यजन्न् अभूतदोषं हि धर्मार्थाव् उपहन्ति सः ॥ ७८ ॥

स्वयं दोषगुणान्वेषी भवेत् सर्वत्र सर्वदा ।
स्वयं ज्ञातेषु दोषेषु शस्यं स्याद् दण्डपातनम् ॥ ७९ ॥

न ह्य् अविज्ञाय तत्त्वेन दोषं कुप्येत् कथञ्चन ।
भुजङ्गम् इव मन्यन्ते निर्दोषक्रोधिनं जनाः ॥ ८० ॥

मित्राणाम् अन्तरं विद्यान् मध्यज्यायःकनीयसाम् ।
मध्यज्यायःकनीयांसि कार्याणि च पृथक् पृथक् ॥ ८१ ॥

न हि मिथ्याभियुञ्जीत शृणुयाच् चापि तद्विधम् ।
मित्रभेदं च ये कुर्युस् तान् समस्तान् परित्यजेत् ॥ ८२ ॥

प्रायोगिकं मात्सरिकं माध्यस्थं पाक्षपातिकम् ।
सोपन्यासं च जानीयाद् वचः सानुशयं तथा ॥ ८३ ॥

प्रकाशपक्षग्रहणं न कुर्यात् सुहृदां स्वयम् ।
अन्योन्यमत्सरं चैषां स्वयम् एवाशु वारयेत् ॥ ८४ ॥

कार्यस्य हि गरीयस्त्वान् नीचानाम् अपि कालवित् ।
सतो ऽपि दोषान् प्रच्छाद्य गुणान् अप्य् असतो वदेत् ॥ ८५ ॥

प्रायो मित्राणि कुर्वीत सर्वावस्थानि भूपतिः ।
बहुमित्रो हि शक्नोति वशे स्थापयितुं रिपून् ॥ ८६ ॥

न तत्र तिष्ठति भ्राता न पितान्यो ऽपि वा जनः ।
पुंसाम् आपत्प्रतीकारे सन्मित्रं यत्र तिष्ठति ॥ ८७ ॥

अमित्रान् सर्वतो मित्रैर् निगृह्णीयाद् दृढव्रतैः ।
इति मण्डलवृत्तं तन् मण्डलज्ञाः प्रचक्षते ॥ ८८ ॥

मित्रोदासीनरिपव एतन्मात्रं तु मण्डलम् ।
सम्यक् साधनम् एतेषाम् इति मण्डलशोधनम् ॥ ८९ ॥

इति स्म राजा नयवर्त्मना व्रजन्
समुद्यमी मण्डलशुद्धिम् आचरेत् ।
विराजते साधु विशुद्धमण्डलः
शरच्छशीव प्रतिरञ्जयन् प्रजाः ॥ ९० ॥