उपेतः कोशदण्डाभ्यां सामात्यः सह मन्त्रिभिः ।
दुर्गस्थश् चिन्तयेत् साधु मण्डलं मण्डलाधिपः ॥१॥
रोचते सर्वभूतेभ्यः शशीवाखण्डमण्डलः ।
सम्पूर्णमण्डलस् तस्माद् विजिगीषुः सदा भवेत् ॥२॥
रथीव राजते राजा विशुद्धे मण्डले चरन् ।
अशुद्धे मण्डले सर्वं शीर्यते रथचक्रवत् ॥३॥
अमात्यराष्ट्रदुर्गाणि कोशो दण्डश् च पञ्चमः ।
एताः प्रकृतयस् तज्ज्ञैर् विजिगीषोर् उदाहृताः ॥४॥
एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः ।
सप्तप्रकृतिकं राज्यम् इत्य् उवाच बृहस्पतिः ॥५॥
सम्पन्नस् तु प्रकृतिभिर् महोत्साहः कृतश्रमः ।
जेतुम् एषणशीलश् च विजिगीषुर् इति स्मृतः ॥६॥
कौलीन्यं वृद्धसेवित्वम् उत्साहः स्थूललक्षता ।
चित्तज्ञता बुद्धिमत्त्वं प्रागल्भ्यं सत्यवादिता ॥७॥
आदीर्घसूत्रता क्षौद्र्यं प्रश्रयः स्वप्रधानता ।
देशकालज्ञता दार्ढ्यं सर्वक्लेशसहिष्णुता ॥८॥
सर्वविज्ञानिता दाक्ष्यम् ऊर्जः संवृत्तमन्त्रता ।
अविसंवादिता शौर्यं भक्तिज्ञत्वं कृतज्ञता ॥९॥
शरणागतवात्सल्यम् अमर्षित्वम् अचापलम् ।
स्वकर्मदृष्टशास्त्रत्वं कृतित्वं दीर्घदर्शिता ॥१०॥
जितश्रमत्वं वाग्मित्वम् अक्रूरपरिवारता ।
प्रकृतिस्फीतता चेति विजिगीषोर् गुणोदयः ॥११॥
सर्वैर् गुणैर् विहीनो ऽपि स राजा यः प्रतापवान् ।
प्रतापयुक्तात् त्रस्यन्ति परे सिंहान् मृगा इव ॥१२॥
प्रतापयुक्तो नृपतिः प्राप्नोति महतीं श्रियम् ।
तस्माद् उत्थानयोगेन प्रतापं जनयेत् प्रभुः ॥१३॥
एकार्थाभिनिवेशित्वम् अरिलक्षणम् उच्यते ।
दारुणस् तु स्मृतः शत्रुर् विजिगीषुगुणान्वितः ॥१४॥
लुब्धः क्रूरो ऽलसो ऽसत्यः प्रमादी भीरुर् अस्थिरः ।
मूढो योधावमन्ता च सुखोच्छेद्यो रिपुः स्मृतः ॥१५॥
अरिर् मित्रम् अरेर् मित्रं मित्रमित्रम् अतः परम् ।
तथारिमित्रम् इत्रं च विजिगीषोः पुरः स्थिताः ॥१६॥
पार्ष्णिग्राहस् ततः पश्चाद् आक्रन्दस् तदनन्तरः ।
आसारावनयोश् चेति विजिगीषोस् तु पृष्ठतः ॥१७॥
अरेश् च विजिगीषोश् च मध्यमो भूम्यनन्तरः ।
अनुग्रहे संहतयोर् व्यस्तयोर् निग्रहे प्रभुः ॥१८॥
मण्डलाद् बहिर् एतेषाम् उदासीनो बलाधिकः ।
अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः ॥१९॥
मूलप्रकृतयस् त्व् एताश् चतस्रः परिकीर्तिताः ।
आहैव मन्त्रकुशलश् चतुष्कं मण्डलं मयः ॥२०॥
विजिगीषुर् अरिर् मित्रं पार्ष्णिग्राहो ऽथ मध्यमः ।
उदासीनः पुलोमेन्द्रौ मण्डलं षट्कम् ऊचतुः ॥२१॥
उदासीनो मध्यमश् च विजिगीषोश् च मण्डलम् ।
उशना मण्डलम् इदं प्राह द्वादशराजकम् ॥२२॥
द्वादशानां नरेन्द्राणाम् अरिमित्रे पृथक् पृथक् ।
षट्त्रिंशत्कम् इति प्राहुस् ते च ते च महर्षयः ॥२३॥
द्वादशानां नरेन्द्राणां पञ्च पञ्च पृथक् पृथक् ।
अमात्याद्याश् च प्रकृतीर् आमनन्तीह मानवाः ॥२४॥
मौला द्वादश चैवैता अमात्याद्यास् तथा च याः ।
सप्ततिर् द्व्यधिका ह्य् एषां सर्वप्रकृतिमण्डलम् ॥२५॥
संयुक्तस् त्व् अरिमित्राभ्याम् उभयारिस् तथा सुहृत् ।
मौला द्वादश राजान इत्य् अष्टादशकं गुरुः ॥२६॥
अष्टादशानाम् एतेषाम् अमात्याद्याः पृथक् पृथक् ।
अष्टोत्तरशतं ह्य् एतन् मण्डलं कवयो विदुः ॥२७॥
एते ऽष्टादश चैतेषां शत्रुमित्रे पृथक् पृथक् ।
चतुष्पञ्चाशत्कम् इति विशालाक्षः प्रभाषते ॥२८॥
चतुष्पञ्चाशतो राज्ञाम् अमात्याद्याः पृथक् पृथक् ।
सचतुर्विंशतीदं हि मण्डलं त्रिशतं मतम् ॥२९॥
सप्तप्रकृतिकं यत् तु विजिगीषोर् अरेश् च तत् ।
चतुर्दशकम् एवेह मण्डलं परिचक्षते ॥३०॥
मण्डलं त्रिकम् इत्य् आहुर् विजिगीष्वरिमध्यमाः ।
मित्रयुक्ताः पृथक् चैते षट्कम् इत्य् अपरे जगुः ॥३१॥
अमात्याद्याः प्रकृतय एकैकस्यैव भूपतेः ।
मण्डलं मण्डलविदः षट्त्रिंशत्कं प्रचक्षते ॥३२॥
सप्तप्रकृतिकाः सर्वे विजिगीष्वरिमध्यमाः ।
एकविंशतिर् इत्य् आहुः परे च नयवादिनः ॥३३॥
चत्वारः पार्थिवा मौलाः पृथङ् मित्रैः सहाष्टकम् ।
अमात्यादिभिर् एते च जगत्य् अक्षरसम्मिताः ॥३४।
विजिगीषोः पुरस्ताच् च ये च पश्चात् प्रकीर्तिताः ।
दशकं मण्डलम् इदं मण्डलज्ञाः प्रचक्षते ॥ ३५ ॥
दशानां भूमिपालानाम् अमात्याद्याः पृथक् पृथक् ।
मण्डलं मण्डलविदः षष्टिसङ्ख्यं प्रचक्षते ॥ ३६ ॥
प्राग् यौ द्वौ विजिगीषुश् च पश्चिमौ चेति पञ्चकम् ।
अमात्याद्याः पृथक् चैषां त्रिंशत्कं हि प्रचक्षते ॥ ३७ ॥
अरेर् अप्य् एवम् एवेति दृष्टं दृष्टिमतां वरैः ।
पञ्चकं मण्डलं न्याय्यं त्रितयं च मनीषिभिः ॥ ३८ ॥
द्वे एव प्रकृती न्याय्ये इत्य् उवाच पराशरः ।
अभियोक्तृप्रधानत्वात् तथान्यो यो ऽभियुज्यते ॥ ३९ ॥
परस्पराभियोगेन विजिगीषोर् अरेस् तथा ।
अरित्वविजिगीषुत्वे एका प्रकृतिर् इत्य् अतः ॥ ४० ॥
इति प्रकारं बहुधा मण्डलं परिचक्षते ।
सर्वलोकप्रतीतं हि स्फुटं द्वादशराजकम् ॥ ४१ ॥
अष्टशाखं चतुर्मूलं षष्टिपत्रं द्वये स्थितम् ।
षट्पुष्पं त्रिफलं वृक्षं यो जानाति स नीतिवित् ॥ ४२ ॥