याने शय्यासने भोज्ये पाने वस्त्रे विभूषणे ।
सर्वत्रैवाप्रमत्तः सन् वर्जेत विषदूषितम् ॥९॥
विषघ्नैर् उदकैः स्नातो विषघ्नमणिभूषणः ।
परीक्षितं समश्नीयाज् जाङ्गलीविद्भिषग्वृतः ॥१०॥
भृङ्गराजः शुकश् चैव शारिका चेति पक्षिणः ।
क्रोशन्ति भृशम् उद्विग्ना विषपन्नगदर्शनात् ॥११॥
चकोरस्य विरज्येते नयने विषदर्शनात् ।
सुव्यक्तं माद्यति क्रौञ्चो म्रियते मत्तकोकिलः ॥१२॥
जीवञ्जीवस्य च ग्लानिर् जायते विषदर्शनात् ।
तेषाम् अन्यतमेनापि समश्नीयात् परीक्षितम् ॥१३॥
मयूरपृषतोत्सर्गान् न भवन्ति भुजङ्गमाः ।
तस्मान् मयूरपृषतौ भवने नित्यम् उत्सृजेत् ॥१४॥
भोज्यम् अन्नं परीक्षार्थं प्रदद्यात् पूर्वम् अग्नये ।
वयोभ्यश् च ततो दद्यात् तत्र लिङ्गानि लक्षयेत् ॥१५॥
धूमार्चिर्नीलता वह्नेः शब्दस्फोटश् च जायते ।
अन्नेन विषदिग्धेन वयसां मरणं भवेत् ॥१६॥
अक्लिन्नता सोदकत्वम् आशुशैत्यं विवर्णता ।
अन्नस्य विषदिग्धस्य तथा स्निग्धत्वम् एव च ॥१७॥
व्यञ्जनस्याशु शुष्कत्वं क्वथने श्यामफेनता ।
गन्धस्पर्शरसाश् चैव नश्यन्ति विषदूषणात् ॥१८॥
छायातिरिक्ता हीना वा स्याद् रसे विषदूषिते ।
दृश्यते राजिर् ऊर्ध्वा च फेनमण्डलम् एव च ॥१९॥
रसस्य नीला पयसश् च ताम्रा
मद्यस्य तोयस्य च कोकिलाभा ।
श्यामा च दध्नो विषदूषितस्य
मध्ये भवत्य् ऊर्ध्वगता च रेखा ॥२०॥
आर्द्रस्य सर्वस्य भवेत् तु सद्यः
प्रम्लानभावो विषदूषितस्य ।
उत्पक्वता क्वाथविनीलता च
प्रश्यामता चेति वदन्ति तज्ज्ञाः ॥२१॥
शुष्कस्य सर्वस्य विषोपदेहाद्
विशीर्णता चाशुविवर्णता च ।
खरं मृदु स्यान् मृदुनः खरत्वं
तदन्तिके चाल्पकजन्तुघातः ॥२२॥
प्रावारास्तरणानां च श्याममण्डलकीर्णता ।
तन्तूनां पक्ष्मणां लोम्नां स्याद् भ्रंशश् च विषाश्रयात् ॥२३॥
लोहानां च मणीनां च मलपङ्कोपदिग्धता ।
प्रभावस्नेहगुरुतावर्णस्पर्शवधस् तथा ॥२४॥
संशुष्कश्यामवक्त्रत्वं वाग्भङ्गो जृम्भणं मुहुः ।
स्खलनं वेपथुः स्वेदो ह्य् आवेशो दिग्विलोकनम् ॥२५॥
स्वकर्मणि स्वभूमौ स्याद् अनवस्थानम् एव च ।
लिङ्गान्य् एतानि निपुणं लक्षयेद् विषदायिनाम् ॥२६॥
औषधानि च सर्वाणि पानं पानीयम् एव च ।
तत्कल्पकैः समास्वाद्य प्राश्नीयाद् भोजनानि च ॥२७॥
प्रसाधनादि यत्किञ्चित् तत् सर्वं परिचारकाः ।
उपनिन्युर् नरेन्द्राय सुपरीक्षितमुद्रितम् ॥२८॥
परस्माद् आगतं यच् च तत् तत् सर्वं परीक्षयेत् ।
स्वेभ्यः परेभ्यश् च तदा रक्ष्यो राजा हि रक्षिता ॥२९॥
यानवाहनम् आरोहेज् ज्ञातं ज्ञातोपपादितम् ।
अविज्ञातेन हि पथा सङ्कटेन च न व्रजेत् ॥३०॥
वीक्षितादुष्टकर्माणम् आप्तं वंशक्रमागतम् ।
संविभक्तं च कुर्वीत जनम् आसन्नवर्तिनम् ॥३१॥
अधार्मिकांश् च क्रूरांश् च दृष्टदोषान् निराकृतान् ।
परेभ्यो ऽभ्यागतांश् चैव दूराद् एतान् समाचरेत् ॥३२॥
महावातसमुद्धूताम् अपरीक्षितनाविकाम् ।
अन्यनौप्रतिबद्धां वा नोपेयान् नावम् आतुराम् ॥३३॥
परितापिषु वासरेषु पश्यंस्
तटलेखास्थितम् आप्तसैन्यचक्रम् ।
सुविशोधितमीननक्रजालं
व्यवगाहेत जलं सुहृत्समेतः ॥३४॥
गहनानि विवर्जयन् विशुद्धं
बहिरुद्यानवनं समभ्युपेतः ।
विहरन् मधुरं वयोऽनुरूपं
न च माद्येद् विषयोपभोगरागात् ॥३५॥
सुविनीतसुवेगपृष्ठयानः
सुखगम्याम् उचितां च लक्ष्यसिद्ध्यै ।
सुपरीक्षितरक्षितान्तसीमां
लघुकोष्ठस् तु मृगाटवीम् उपेयात् ॥३६॥
कारयेद् भवनशोधनम् आदौ
मातुर् अन्तिकम् अपि प्रविविक्षुः ।
आप्तशस्त्र्यनुगतः प्रविशेत् तत्-
सङ्कटे च गहने न च तिष्ठेत् ॥३७॥
पांसूत्करोत्कर्षिणि वाति वाते
संसक्तधाराजलदे च काले ।
अत्यातपे वापि तथान्धकारे
स्वस्थस् तु सन् न क्वचिद् अभ्युपेयात् ॥३८॥
निर्गमे च प्रवेशे च राजमार्गं समन्ततः ।
प्रोत्सारितजनं गच्छेत् सम्यगाविष्कृतोन्नतिः ॥३९॥
यात्रोत्सवसमाजेषु जनसम्बाधशालिनः ।
प्रदेशान् नावगाहेत नातिवेलं च सम्पतेत् ॥४०॥
निषेवितो वर्षवरैः कञ्चुकोष्णीषधारिभिः ।
अन्तःपुरेषु विचरेत् कुब्जकैरातवामनैः ॥४१॥
नीचैर् अन्तःपुरामात्याः शुचयश् चित्तवेदिनः ।
शस्त्राग्निविषवर्जं हि नर्मयेयुर् महीपतिम् ॥४२॥
अन्तर्वंशिकसैन्यं हि सन्नद्धं साधुसम्मतम् ।
रक्षेद् आयुक्तकुशलम् अन्तःपुरगतं नृपम् ॥४३॥
आशीतिकाश् च पुरुषाः पञ्चाशत्काश् च योषितः ।
पश्येयुर् अवरोधानां शौचम् आगारिकाश् च ये ॥४४॥
रूपाजीवाः स्त्रियः स्नाताः परिवर्तितवाससः ।
राजानम् उपतिष्ठेयुर् विशुद्धस्रग्विभूषणाः ॥४५॥
कुहकैर् जटिलैश् चापि मुण्डैश् चाभ्यन्तरो जनः ।
संसर्गं न क्वचिद् गच्छेद् बाह्यैर् दासीजनैस् तथा ॥४६॥
निर्गच्छेत् प्रविशेच् चापि सर्वत्राभ्यन्तरो जनः ।
विज्ञातद्रव्यसञ्चारी करणेनोपलक्षितः ॥४७॥
न चानुजीविनं पश्येद् अकल्यं पृथिवीपतिः ।
अन्यत्रात्ययिकाद् रोगात् सर्वस्यैवातुरो गुरुः ॥४८॥
स्नातानुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः ।
स्नातां विशुद्धवसनां पश्येद् देवीं सुभूषणाम् ॥४९॥
न च देवीगृहं गच्छेद् आत्मीयात् सन्निवेशनात् ।
अत्यन्तं वल्लभो ऽस्मीति विस्रम्भं स्त्रीषु न व्रजेत् ॥५०॥
देवीगृहं गतो भ्राता भद्रसेनम् अमारयत् ।
मातुः शय्यान्तरालीनः कारूशं चौरसः सुतः ॥५१॥
लाजान् विषेण संयोज्य मधुनेति विलोभ्य तम् ।
देवी तु काशिराजेन्द्रं निजघान रहोगतम् ॥५२॥
विषदिग्धेन सौवीरं मेखलामणिना नृपम् ।
नूपुरेण च वैरूप्यं जारुष्यं दर्पणेन च ॥५३॥
वेण्यां शस्त्रं समाधाय तथा चापि विडूरथम् ।
अहिवृत्तं परिहरेच् छत्रौ चापि प्रयोजयेत् ॥५४॥
यस्य दाराः सुगुप्ताः स्युः पुरुषैर् आप्तकारिभिः ।
सर्वभोगान्वितं तस्य हस्ते लोकद्वयं स्थितम् ॥५५॥
धर्मम् इच्छन् नरपतिः सर्वदारान् अनुक्रमात् ।
गच्छेद् अनुदिनं नित्यं वाजीकरणबृंहितः ॥५६॥
विचार्य कार्यावयवान् दिनक्षये
विसृज्य लोकं प्रमदाकृतक्रियः ।
अशस्त्रबन्धेन हि साधु पाणिना
स्वपेद् असक्तं परमाप्तरक्षितः ॥५७॥
नयेन जाग्रत्य् अनिशं नरेश्वरे
सुखं स्वपन्तीह निराधयः प्रजाः ।
प्रमत्तचित्ते स्वपति त्रसद्भयात्
प्रजागरेणास्य जगत् प्रबाध्यते ॥५८॥
इति स्म पूर्वे मुनयो बभाषिरे
नृपस्य राज्यस्य च साधु रक्षणम् ।
तद् एतद् एवं परिपालयन् नयान्
नरेश्वरः पालनकल्यतां व्रजेत् ॥५९॥