प्रजात्मश्रेयसे राजा कुर्वीतात्मजरक्षणम् ।
लोलुभ्यमानास् ते ऽर्थेषु हन्युर् एनम् अरक्षिताः ॥१॥
राजपुत्रा मदोन्मत्ता गजा इव निरङ्कुशाः ।
भ्रातरं वापि निघ्नन्ति पितरं वाभिमानिनः ॥२॥
राजपुत्रैर् मदोन्मत्तैः प्रार्थ्यमानम् इतस् ततः ।
दुःखेन रक्ष्यते राज्यं व्याघ्राघ्रातम् इवामिषम् ॥३॥
रक्ष्यमाणा यदि च्छिद्रं कथञ्चित् प्राप्नुवन्ति ते ।
सिंहशावा इव घ्नन्ति रक्षितारम् असंशयम् ॥४॥
विनयोपग्रहान् भूत्यै कुर्वीत नृपतिः सुतान् ।
अविनीतकुमारं हि कुलम् आशु विनश्यति ॥५॥
विनीतम् औरसं पुत्रं यौवराज्ये ऽभिषेचयेत् ।
दुष्टं गजम् इवोद्वृत्तं कुर्वीत सुखबन्धनम् ॥६॥
राजपुत्रः परित्यागं सुदुर्वृत्तो ऽपि नार्हति ।
क्लिश्यमानः स पितरं परम् आश्रित्य हन्ति हि ॥७॥
व्यसने सज्जमानं हि क्लेशयेद् व्यसनाश्रयैः ।
तथा च क्लेशयेद् एनं यथा स्यात् पितृगोचरः ॥८॥