०६ कण्टकशोधनप्रकरणम्

लोके वेदे च कुशलः कुशलैः परिवेष्ठितः ।
आदृतश् चिन्तयेद् राज्यं सबाह्याभ्यन्तरं नृपः ॥१॥

आभ्यन्तरं शरीरं स्वं बाह्यं राष्ट्रम् उदाहृतम् ।
अन्योन्याधारसम्बन्धाद् एकम् एवेदम् इष्यते ॥२॥

राज्याङ्गानां तु सर्वेषां राष्ट्राद् भवति सम्भवः ।
तस्मात् सर्वप्रयत्नेन राजा राष्ट्रं समुन्नयेत् ॥३॥

लोकानुग्रहम् अन्विच्छञ् छरीरम् अनुपालयेत् ।
राज्ञः संरक्षणं धर्मः शरीरं धर्मसाधनम् ॥४॥

धर्म्याम् आरेभिरे हिंसाम् ऋषिकल्पा महीभुजः ।
तस्माद् असाधून् धर्माय निघ्नन् दोषैर् न लिप्यते ॥५॥

धर्मसंरक्षणपरो धर्मेणार्थं विवर्धयेत् ।
ये ये प्रजाः प्रबाधेरन् तांस् ताञ् छिष्यान् महीपतिः ॥६॥

यम् आर्याः क्रियमाणं हि शंसन्त्य् आगमवेदिनः ।
स धर्मो यं विगर्हन्ति तम् अधर्मं प्रचक्षते ॥७॥

धर्माधर्मौ विजानन् हि शासने ऽभिरतः सताम् ।
प्रजा रक्षेन् नृपः साधु हन्याच् च परिपन्थिनः ॥८॥

राज्योपघातं कुर्वीरन् ये पापा राजवल्लभाः ।
एकैकशः संहता वा तान् दूष्यान् परिचक्षते ॥९॥

दूष्यान् उपांशुदण्डेन हन्याद् राजाविलम्बितम् ।
प्रदूष्य वा प्रकाशं हि लोकविद्वेषम् आगतान् ॥१०॥

राजा रहसि दूष्यं हि दर्शनायोपमन्त्रयेत् ।
गूढशस्त्रा विशेयुस् तं पश्चाद् आसञ्ज्ञिता नराः ॥११॥

विश्वस्ता हि विचिन्वीयुर् द्वाःस्थाः कक्ष्यान्तरागतान् ।
ते शस्त्रग्राहिणो ब्रूयुः प्रयुक्ताः स्म इति स्फुटम् ॥१२॥

इत्यादि दूष्यान् सन्दूष्य प्रजानाम् अभिवृद्धये ।
विनयञ् छ्रियम् उत्कर्षं राजा शल्यं समुद्धरेत् ॥१३॥

यथा बीजाङ्कुरः सूक्ष्मः परिपुष्टो ऽभिरक्षितः ।
काले फलाय भवति साधु तद्वद् इयं प्रजा ॥१४॥

उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।
तस्माद् यथार्हतो दण्डं नयेत् पक्षम् अनाश्रितः ॥१५॥