वृत्तस्थं वृत्तसम्पन्नाः कल्पवृक्षोपमं नृपम् ।
अभिगम्यगुणैर् युक्तं सेवेरन्न् अनुजीविनः ॥१॥
द्रव्यप्रकृतिहीनो ऽपि सेव्यः सेव्यगुणान्वितः ।
भवत्य् आजीवनं तस्माच् छ्लाग्यं कालान्तराद् अपि ॥२॥
अपि स्थाणुवद् आसीत शुष्यन् परिगतः क्षुधा ।
न त्व् एवानात्मसम्पन्नाद् वृत्तिम् ईहेत पण्डितः ॥३॥
अनात्मवान् नयद्वेषी वर्धयन्न् अरिसम्पदः ।
प्राप्यापि महद् ऐश्वर्यं सह तेन विनश्यति ॥४॥
लब्धावकाशो निपुण आत्मवत्यविकारवान् ।
स्थाने स्थैर्यम् अवाप्नोति मन्त्री कर्मसु निश्चितः ॥५॥
आयत्यां च तदात्वे च यत् स्याद् आस्वादपेशलम् ।
तत् क्लिश्यन्न् अपि कुर्वीत न लोकद्विष्टम् आचरेत् ॥६॥
तिलाश् चम्पकसंश्लेषात् प्राप्नुवन्त्य् अधिवासनाम् ।
रसोनभक्षास् तद्गन्धाः सर्वे साङ्क्रामिका गुणाः ॥७॥
अपां प्रवाहो गाङ्गो ऽपि समुद्रं प्राप्य तद्रसः ।
भवत्य् अपेयस् तद्विद्वान् नाश्रयेद् अशुभात्मकम् ॥८॥
क्लिश्यन्न् अपि हि मेधावी शुद्धं जीवनम् आचरेत् ।
तेनेह श्लाघ्यताम् एति लोकेभ्यश् च न हीयते ॥९॥
अभिलक्ष्यं स्थिरं पुण्यं ख्यातं सिद्धैर् निषेवितम् ।
सेवेत सिद्धिम् अन्विच्छञ् छ्लाघ्यं विन्ध्यम् इवेश्वरम् ॥१०॥
दुरापम् अपि लोके ऽस्मिन् यद् यद् वस्त्व् अभिवाञ्छति ।
तत् तद् आप्नोति मेधावी तस्मात् कार्यः समुद्यमः ॥११॥
आरिराधयिषुः सम्यग् अनुजीवी महीपतिम् ।
विद्याविनयशिल्पाद्यैर् आत्मानम् उपपादयेत् ॥१२॥
कुलविद्याश्रुतौदार्यशिल्पविक्रमधैर्यवान् ।
वपुःसत्त्वबलारोग्यस्थैर्यशौचदयान्वितः ॥१३॥
पैशुन्यद्रोहसम्भेदशाठ्यलौल्यानृतातिगः ।
स्तम्भचापलहीनश् च सेवनं कर्तुम् अर्हति ॥१४॥
दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता ।
सन्तोषः शीलम् उत्साहो मण्डयन्त्य् अनुजीविनम् ॥१५॥
अर्थशौचपरो नित्यं गुणैर् एभिः समन्वितः ।
भूतये भूतिसम्पन्नं साधु विश्वासयेन् नृपम् ॥१६॥
प्रविष्टः सम्यग् उचिते स्थाने तिष्ठन् सुवेषवान् ।
यथाकालम् उपासीत राजानं विनयान्वितः ॥१७॥
परस्थानासनं क्रौर्यम् औद्धत्यं मत्सरं त्यजेत् ।
विगृह्य कथनं चापि न कुर्याज् ज्यायसा सह ॥१८॥
विप्रलम्भं च मायां च दम्भं स्तेयं च वर्जयेत् ।
पुत्रेभ्यश् च नमस्कुर्याद् वल्लभेभ्यश् च भूपतेः ॥१९॥
न नर्मसचिवैः सार्धं किञ्चिद् अप्य् अप्रियं वदेत् ।
ते हि मर्मण्य् अभिघ्नन्ति प्रहासेनैव संसदि ॥२०॥
भर्तुर् अन्वासने तिष्ठन् दृष्टिं नान्यत्र निक्षिपेत् ।
ब्रूयान् न किञ्चिद् अन्योन्यं तिष्ठेच् चास्यं विलोकयन् ॥२१॥
को ऽत्रेत्य् अहम् इति ब्रूयात् सम्यग् आज्ञापयेति च ।
आज्ञां चावितथां कुर्याद् यथाशक्त्य् अविलम्बितम् ॥२२॥
उच्चैः प्रकथनं कासं ष्ठीवनं कुत्सितं तथा ।
जृम्भणं गात्रभङ्गं च पर्वस्फोटं च वर्जयेत् ॥२३॥
प्रविश्य चानुरागेण चित्तं चित्तज्ञसम्मतः ।
समर्थयंश् च तत्पक्षं साधु भाषेत भाषितम् ॥२४॥
तन्नियोगेन वा ब्रूयाद् अर्थं सुपरिनिश्चितम् ।
सुखप्रबन्धगोष्ठीषु विवादे वादिनां मतम् ॥२५॥
विजानन्न् अपि न ब्रूयाद् भर्तुः क्षिप्तोत्तरं वचः ।
प्रवीणो ऽपि हि मेधावी वर्जयेद् अभिमानिताम् ॥२६॥
यद् अप्य् उच्चैर् विजानीयान् नीचैस् तद् अपि कीर्तयेत् ।
कर्मणा तस्य वैशिष्ट्यं कथयेद् विनयान्वितः॥२७॥
आपद्य् उन्मार्गगमने कार्यकालात्ययेषु च ।
अपृष्टो ऽपि हितान्वेषी ब्रूयात् कल्याणभाषितम्॥२८॥
प्रियं तथ्यं च पथ्यं च वदेद् धर्मार्थम् एव च ।
अश्रद्धेयम् असभ्यं च परोक्षं कटु चोत्सृजेत् ॥२९॥
परार्थं देशकालज्ञो देशे काले च साधयेत् ।
स्वार्थं च स्वार्थकुशलः कुशलेनार्थकारिणा ॥३०॥
गुह्यकर्म च मन्त्रं च न भर्तुः सम्प्रकाशयेत् ।
विद्विष्टिं च विनाशं च मनसापि न चिन्तयेत् ॥३१॥
स्त्रीभिस् तद्दर्शिभिः पापैर् वैरिदूतैर् निराकृतैः ।
एकार्थचर्यासङ्घातं संसर्गं च विवर्जयेत् ॥३२॥
वेषभाषानुकरणं न कुर्यात् पृथिवीपतेः ।
सम्पन्नो ऽपि हि मेधावी स्पर्धते न च तद्गुणैः ॥३३॥
रागापरागौ जानीयाद् भर्तुः कुशलकर्मकृत् ।
इङ्गिताकारलिङ्गाभ्याम् इङ्गिताकारतत्त्ववित् ॥३४॥
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ।
दिशत्य् आसनम् अभ्याशे कुशलं परिपृच्छति ॥३५॥
विविक्तदर्शने स्थाने रहस्ये च न शङ्कते ।
तदर्थां तत्कृतां चोच्चैर् आकर्णयति सङ्कथाम् ॥३६॥
श्लाघते श्लाघनीयेषु श्लाघ्यमानं च नन्दति ।
कथान्तरेषु स्मरति प्रहृष्टः कीर्तयेद् गुणान् ॥३७॥
सहते पथ्यम् उक्तः सन् न निन्दाम् अनुमन्यते ।
करोति वाक्यं तत्प्रोक्तं तद्वचो बहु मन्यते ॥३८॥
वृद्धौ प्रसन्नो भवति व्यसने परितप्यते ।
उपकारेषु माध्यस्थ्यं दर्शयत्य् अद्भुतेषु च ॥३९॥
तत्कृतं कर्म चान्येन कृतम् इत्य् अभिभाषते ।
विपक्षम् उत्थापयति विनाशं चाप्य् उपेक्षते ॥४०॥
कार्ये संवर्धयत्य् आशां फले च कुरुते ऽन्यथा ।
यद्वाक्यं मधुरं किञ्चित् तद् अप्य् अर्थेन निष्ठुरम् ॥४१॥
आचरत्य् आत्मशंसासु परिवादं च केवलम् ।
अकोपो ऽपि सकोपाभः प्रसन्नश् चापि निष्फलः ॥४२॥
हसत्य् अकस्माद् व्रजति रूक्षं च समुदीक्षते ।
विज्ञाप्य् अमानो वृत्त्यर्थं सहसोत्थाय गच्छति ॥४३॥
आघट्टयति मन्त्राणि ब्रुवन् हासं प्रपद्यते ।
सम्भावयति दोषेण वृत्तिच्छेदं करोति च ॥४४॥
साधूक्तम् अपि तद्वाक्यं समर्थयति चान्यथा ।
अपर्वणि कथाभङ्गं करोति विरसीभवन् ॥४५॥
उपास्यमानः शयने सुप्तलक्षेण तिष्ठति ।
यत्नेनाराध्यमानो ऽपि सुप्तवच् च विचेष्टते ॥४६॥
इत्यादि ह्य् अनुरक्तस्य विरक्तस्य च लक्षणम् ।
रक्ताद् वृत्तिं समीहेत विरक्तं च परित्यजेत् ॥४७॥
निर्गुणं ह्य् अपि भर्तारम् आपत्सु न परित्यजेत् ।
ततः परतरो नास्ति य आपत्सूपतिष्ठते ॥४८॥
स्वस्थवृत्तेषु सत्त्वाढ्या नोपयान्त्य् अभिलक्ष्यताम् ।
विरोधे कर्मधुर्याणां तेषां नामातिरिच्यते ॥४९॥
श्लाघ्या चानन्दनी चैव महताम् उपकारिता ।
काले कल्याणम् आधत्ते स्वल्पापि सुमहोदयम् ॥५०॥
अकार्यात् प्रतिषेधश् च कार्ये चैवानुवर्तनम् ।
सङ्क्षेपाद् इति सद्वृत्तं बन्धुमित्रानुजीविनाम् ॥५१॥
पानस्त्रीद्यूतगोष्ठीषु राजानम् अभितश्चराः ।
बोधयेयुः प्रमाद्यन्तम् उपायैर् नालिकादिभिः ॥५२॥
राजानं ये ह्य् उपेक्षन्ते सज्जमानं विकर्मसु ।
ते गच्छन्त्य् अकृतात्मानः सह तेन पराभवम् ॥५३॥
जयाज्ञापय देवेति नाथ जीवेति चादरात् ।
आज्ञाम् अस्य प्रतीच्छन्तो भृत्याः कुर्युर् उपासनम् ॥५४॥
भर्तुश् चित्तानुवर्तित्वं सद्वृत्तम् अनुजीविनाम् ।
रक्षांस्य् अपि हि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥५५॥
धीसत्त्वोद्योगयुक्तानां किं दुरापं महात्मनाम् ।
छन्दानुवर्तिनां लोके कः परः प्रियवादिनाम् ॥५६॥
अलसस्याल्पतोषस्य निर्विद्यस्याकृतात्मनः ।
प्रदानकाले भवति मातापि हि पराङ्मुखी ॥५७॥
ये शूरा ये च विद्वांसो ये च सेवाविपश्चितः ।
तेषाम् एव विकासिन्यो भोग्या नृपतिसम्पदः ॥५८॥
अप्रियो ऽपि हि पथ्यः स्याद् इति वृद्धानुशासनम् ।
वृद्धानुशासने तिष्ठन् प्रियताम् उपगच्छति ॥५९॥
आजीव्यः सर्वभूतानां राजा पर्जन्यवद् भवेत्।
निराजीव्यं त्यजन्त्य् एनं शुष्कं सर इवाण्डजाः ॥६०॥
कुलं वृत्तं श्रुतं शौर्यं सर्वम् एतन् न गण्यते ।
दुर्वृत्ते ऽप्य् अकुलीने ऽपि जनो दातरि रज्यते ॥६१॥
लक्ष्मीर् एवान्वयो लोके न लक्ष्म्याः परतो ऽन्वयः ।
यस्मिन् कोशो बलं चैव तस्मिल्ँ लोको ऽनुगच्छति ॥६२॥
उत्थिता एव पूज्यन्ते जना कार्यार्थिभिर् नरैः ।
शत्रुवत् पतितं को नु वन्दते मानवं पुनः ॥६३॥
अर्थार्थी जीवलोको ऽयं ज्वलन्तम् उपसर्पति ।
क्षीणक्षीरां निराजीव्यां वत्सस् त्यजति मातरम् ॥६४॥
अहापयन् नृपः कालं भृत्यानाम् अनुवर्तिनाम् ।
कर्मणाम् आनुरूप्येण वृत्तिं समनुकल्पयेत् ॥६५॥
काले स्थाने च पात्रे च न हि वृत्तिं विलोपयेत् ।
एतद्वृत्तिविलोपेन राजा भवति गर्हितः ॥६६॥
अपात्रवर्षणं जातु न कुर्यात् सद्विगर्हितम् ।
अपात्रवर्षणात् किं स्याद् अन्यत् कोशक्षयाद् ऋते ॥६७॥
कुलं विद्यां श्रुतं शौर्यं सौशील्यं भूतपूर्वताम् ।
वयोऽवस्थां च संवीक्ष्य स्वाद्रियेत महामनाः ॥६८॥
कुलीनान् नावमन्येत सम्यग्वृत्तान् मनस्विनः ।
त्यजन्त्य् एते हि भर्तारं घ्नन्ति वा मानहेतवः ॥६९॥
गुणैर् उदारैः संयुक्तान् प्रोन्नयेन् मध्यमाधमान् ।
महत्तां प्राप्नुवन्तस् ते वर्धयन्ति नरेश्वरम् ॥७०॥
उत्तमाभिजनोपेतान् न नीचैः सह वर्धयेत् ।
कृशो ऽपि हि विवेकज्ञो याति संश्रयणीयताम् ॥७१॥
निरालोके हि लोके ऽस्मिन् नासते तत्र पण्डिताः ।
जात्यस्य हि मणेर् यत्र काचेन समता मता ॥७२॥
विश्राम्यन्ति महात्मानो यत्र कल्पतराव् इव ।
स श्लाघ्यो भवति श्रीमान् सत्सम्भोगफलाः श्रियः ॥७३॥
लक्ष्म्या लक्ष्मीवतां लोके विकासिन्यापि किं तया ।
बन्धुभिश् च सुहृद्भिश् च विस्रब्धं या न भुज्यते ॥७४॥
आयद्वारेषु सर्वेषु कुर्याद् आप्तान् परीक्षितान् ।
आददीत धनं तैस् तु भास्वान् उस्रैर् इवोदकम् ॥७५॥
अभ्यस्तकर्मणस् तज्ज्ञाञ् छुचीञ् छुद्धार्थसङ्गतान् ।
कुर्याद् उद्योगसम्पन्नान् अध्यक्षान् सर्वकर्मसु ॥७६॥
यो यद् वस्तु विजानाति तं तत्र विनियोजयेत् ।
अशेषविषयप्राप्ताव् इन्द्रियार्थेष्व् इवेन्द्रियम् ॥७७॥
कोष्ठागारे ऽभियुक्तः स्यात् तदायत्तं हि जीवितम् ।
नात्यायं च व्ययं कुर्यात् प्रत्यवेक्षेत चान्वहम्॥७८॥
कृषिर् वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।
खन्याकरो वनादानं शून्यानां च निवेशनम् ॥७९॥
अष्टवर्गम् इमं साधु स्वस्थवृत्तं विवर्धयेत् ।
जीवनार्थम् इहाजीव्यैः कारयेत् करणान्वितैः ॥८०॥
यया ययेह वर्धेत वृत्त्या क्षीणो ऽपि पार्थिवः ।
तस्यां तस्यां न संरोधं कुर्यात् पण्योपजीविनाम् ॥८१॥
यथारक्षेच् च निपुणं सस्यं कण्टकिशाखया ।
फलाय लगुडः कार्यस् तद्वद् भोग्यम् इदं जगत् ॥८२॥
आयुक्तकेभ्यश् चोरेभ्यः परेभ्यो राजवल्लभात् ।
पृथिवीपतिलोभाच् च प्रजानां पञ्चधा भयम् ॥८३॥
पञ्चप्रकारम् अप्य् एतद् अपोह्य नृपतिर् भयम् ।
आददीत फलं काले त्रिवर्गपरिवृद्धये ॥८४॥
यथा गौः पाल्यते काले दुह्यते च तथा प्रजा ।
सिच्यते चीयते चैव लता पुष्पप्रदा यथा ॥८५॥
आस्रावयेद् उपचितान् साधु दुष्टव्रणान् इव ।
आयुक्तास् ते च वर्तेरन् अग्नाव् इव महीपतौ ॥८६॥
स्वल्पम् अप्य् अपकुर्वन्ति ये पापाः पृथिवीपतौ ।
ते वह्नाव् इव दह्यन्ते पतङ्गा मूढचेतसः ॥८७॥
संवर्धयेत् तथा कोशम् आप्तैस् तज्ज्ञैर् अधिष्ठितम् ।
काले चास्य व्ययं कुर्यात् त्रिवर्गप्रतिपत्तये ॥८८॥
धर्मार्थं क्षीणकोशस्य कृशत्वम् अपि शोभते ।
सुरैः पीतावशेषस्य शरद्धिमरुचेर् इव ॥८९॥
बृहस्पतेर् अविश्वास इति शास्त्रार्थनिश्चयः ।
अविश्वासी तथा च स्याद् यथा च व्यवहारवान् ॥९०॥
विश्वासयेद् अविश्वस्तं विश्वस्तं नातिविश्वसेत् ।
यस्मिन् विश्वासम् आयाति विभूतेः पात्रम् एव सः ॥९१॥
प्रादुर्भवन्त्य् अर्थसमं यस्माच् चित्तान्य् अनुक्षणम् ।
तस्माद् योगीव सततं तानि पश्येत् समाहितः ॥९२॥
उद्योगाद् अनिवृत्तस्य सुसहायस्य धीमतः ।
छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥९३।
स्वनुगतपरितोषितानुजीवी
मधुरवचाश् चरितानुरक्तलोकः ।
सुनिपुणपरमाप्तसक्ततन्त्रो
भवति चिरं नृपतिः प्रदीप्तरश्मिः ॥९४॥