०४ प्रकृतिसम्पत्प्रकरणम्

स्वाम्य् अमात्यश् च राष्ट्रं च दुर्गं कोशो बलं सुहृत् ।
परस्परोपकारीदं सप्ताङ्गं राज्यम् उच्यते ॥१॥

एकाङ्गेनापि विकलम् एतत् साधु न वर्तते ।
तस्य सामग्र्यम् अन्विच्छन् कुर्वीताशु परीक्षणम् ॥२॥

आत्मानम् एव प्रथमम् इच्छेद् गुणसमन्वितम् ।
कुर्वीत गुणसम्पन्नस् ततः शेषपरीक्षणम् ॥३॥

साधु भूतलदेवत्वं दुर्धार्यम् अकृतात्मभिः ।
आत्मसंस्कारसम्पन्नो राजा भवितुम् अर्हति ॥४॥
लोकाधाराः श्रियो राज्ञां दुरापा दुष्परिग्रहाः ।
तिष्ठन्त्य् आप इवाधारे चिरम् आत्मनि संस्कृते ॥५॥

कुलं सत्त्वं वयः शीलं दाक्षिण्यं क्षिप्रकारिता ।
अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता ॥६॥

दैवसम्पन्नता बुद्धिर् अक्षुद्रपरिवारता ।
शक्यसामन्तता चैव तथा च दृढभक्तिता ॥७॥
दीर्घदर्शित्वम् उत्साहः शुचिता स्थूललक्षता ।
विनीतता धार्मिकता गुणाः साध्वाभिगामिकाः ॥८॥

गुणैर् एतैर् उपेतः सन् सुव्यक्तम् अभिगम्यते ।
तथा तु कुर्वीत यथा गच्छेल् लोकाभिगम्यताम् ॥९॥

प्रख्यातवंशम् अक्रूरं लोकसङ्ग्राहिणं शुचिम् ।
कुर्वीतात्महिताकाङ्क्षी परिवारं महीपतिः ॥१०॥

दुष्टो ऽपि भोग्यताम् एति परिवारगुणैर् नृपः ।
न दुष्टपरिवारस् तु व्यालाक्रान्त इव द्रुमः ॥११॥

निरुन्धानाः सतां मार्गं भक्षयन्ति महीपतिम् ।
दुष्टात्मानस् तु सचिवास् अस्मात् सुसचिवो भवेत् ॥१२॥

विभूतीः परमाः प्राप्य सतां सम्भोग्यताम् इयात् ।
यासु सन्तो न तिष्ठन्ति ता वृथैव विभूतयः ॥१३॥

वाग्मी प्रगल्भः स्मृतिमान् उदग्रो बलवान् वशी ।
नेता दण्डस्य निपुणः कृतविद्यः सुविग्रहः ॥१४॥

पराभियोगप्रसहः सर्वदृष्टप्रतिक्रियः ।
परच्छिद्रान्ववेक्षी च सन्धिविग्रहतत्त्ववित् ॥१५॥

गूढमन्त्रप्रचारश् च देशकालविभागविद् ।
आदाता सम्यग् अर्थानां विनियोक्ता च पात्रवित् ॥१६॥

क्रोधलोभभयद्रोहस्तम्भचापलवर्जितः ।
परोपतापपैशुन्यमात्सर्येर्ष्यानृतातिगः ॥१७॥

वृद्धोपदेशसम्पन्नः श्लक्ष्णो मधुरदर्शनः ।
गुणानुरागी मितवाग् आत्मसम्पत्प्रकीर्तिता ॥१८॥

इत्यादिगुणसम्पन्ने लोकयात्राविदि स्थिरे ।
निर्वृतः पितरीवास्ते यत्र लोकः स पार्थिवः ॥१९॥

आत्मसम्पद्गुणैः सम्यक् संयुक्तं युक्तकारिणम् ।
महेन्द्रम् इव राजानं प्राप्य लोको विवर्धते ॥२०॥

शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।
ऊहापोहो ऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥२१॥

दाक्ष्यं शैघ्र्यं तथामर्षः शौर्यं चोत्साहलक्षणम् ।
गुणैर् एतैर् उपेतः सन् राजा भवितुम् अर्हति ॥२२॥

त्यागः सत्यं च शौर्यं च त्रय एते महागुणाः ।
प्राप्नोति हि गुणान् सर्वान् एतैर् युक्तो महीपतिः ॥२३॥

कुलीनाः शुचयः शूराः श्रुतवन्तो ऽनुरागिणः ।
दण्डनीतेः प्रयोक्तारः सचिवाः स्युर् महीपतेः ॥२४॥

उपधाशोधिताः सम्यग् ईहमानाः फलोदयम् ।
ते ऽस्य सर्वं परीक्षेरन् सानुरागाः कृताकृतम् ॥२५॥

उपेत्य धीयते यस्माद् उपधेति ततः स्मृता ।
उपाय उपधा ज्ञेया तयामात्यान् परीक्षयेत् ॥२६॥

स्ववग्रहो जानपदः कुलशीलबलान्वितः ।
वाग्मी प्रगल्भश् चक्षुष्मान् उत्साही प्रतिपत्तिमान् ॥२७॥

स्तम्भचापलहीनश् च मैत्रः क्लेशसहः शुचिः ।
सत्यसत्त्वधृतिस्थैर्यप्रभावारोग्यसंयुतः ॥२८॥

कृतशिल्पश् च दक्षश् च प्रज्ञावान् धारणान्वितः ।
दृढभक्तिर् अकर्ता च वैराणां सचिवो भवेत् ॥२९॥

स्मृतिस् तत्परतार्थेषु वितर्को ज्ञाननिश्चयः ।
दृढता मन्त्रगुप्तिश् च मन्त्रिसम्पत् प्रकीर्तिता ॥३०॥

त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः ।
अथर्वविहितं नित्यं कुर्याच् छान्तिकपौष्टिकम् ॥३१॥

साधु तेषाम् अमात्यानां तद्विद्येभ्यश् च बुद्धिमान् ।
चक्षुष्मत्तां च शिल्पं च परीक्षेत गुणद्वयम् ॥३२॥

स्वजनेभ्यो विजानीयात् कुलं स्थानम् अवग्रहम् ।
परिकर्मसु दाक्ष्यं च विज्ञानं धारयिष्णुताम् ॥३३॥

गुणत्रयं परीक्षेत प्रागल्भ्यं प्रतिभां तथा ।
कथायोगेषु बुध्येत वाग्मित्वं सत्यवादिताम् ॥३४॥
उत्साहं च प्रभावं च तथा क्लेशसहिष्णुताम् ।
धृतिं चैवानुरागं च स्थैर्यं चापदि लक्षयेत् ॥३५॥

भक्तिं मैत्रीं च शौचं च जानीयाद् व्यवहारतः ।
संवासिभ्यो बलं सत्त्वम् आरोग्यं शीलम् एव च ॥३६॥

अस्तब्धताम् अचापल्यं वैराणां चाप्य् अकर्तृताम् ।
प्रत्यक्षतो विजानीयाद् भद्रतां क्षुद्रताम् अपि ॥३७॥

कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।
तस्मात् परोक्षवृत्तीनां फलैः कर्म विभावयेत् ॥३८॥
सज्जमानम् अकार्येषु निरुन्ध्युर् मन्त्रिणो नृपम् ।
गुरूणाम् अपि चैतेषां शृणुयान् नृपतिर् वचः ॥३९॥

नरेश्वरे जगत् सर्वं निमीलति निमीलति ।
सूर्योदय इवाम्भोजं तत्प्रबोधे प्रबुध्यते ॥४०॥

तद् बोधयेज् जगन्नाथं सम्बुध्येत यथा तथा ।
धीसत्त्वोद्योगसम्पन्नैस् तत् कार्यं तदुपाश्रितैः ॥४१॥

नृपस्य ते हि सुहृदस् त एव गुरवो मताः ।
य एनम् उत्पथगतं वारयन्त्य् अनिवारिताः ॥४२॥

सज्जमानम् अकार्येषु सुहृदो वारयन्ति ये ।
सत्यं न ते हि सुहृदो गुरवो गुरवो हि ते ॥४३॥

कृतविद्यो ऽपि बलिना व्यक्तं रागेण रज्यते ।
रागोपरक्तचित्तः सन् किं न कुर्याद् असाम्प्रतम् ॥४४॥

पश्यन्न् अपि भवत्य् अन्धः पुमान् रागावृतेक्षणः ।
सुहृद्वैद्याश् चिकित्सन्ति निर्मलैर् विनयाञ्जनैः ॥४५॥

रागमानमदान्धस्य स्खलतः पृथिवीपतेः ।
हस्तावलम्बो भवति सुहृत्सचिवचेष्टितम् ॥४६॥

मदोद्धतस्य नृपतेः सङ्कीर्णस्येव दन्तिनः ।
गच्छन्त्य् अन्यायवृत्तस्य नेतारः खलु वाच्यताम् ॥४७॥

भूगुणैर् वर्धते राष्ट्रं तद्वृद्धिर् नृपवृद्धये ।
तस्माद् गुणवतीं भूमिं भूत्यै नृपतिर् आवसेत् ॥४८॥

सस्याकरवती पण्यखनिद्रव्यसमन्विता ।
गोहिता भूरिसलिला पुण्यैर् जनपदैर् वृता ॥४९॥

रम्या सकुञ्जरवना वारिस्थलपथान्विता ।
अदेवमातृका चेति शस्यते भूर् विभूतये ॥५०॥

सशर्करा सपाषाणा साटवी नित्यतस्करा ।
रूक्षा सकण्टकवना सव्याला चेति भूर् अभूः ॥५१॥

स्वाजीव्यो भूगुणैर् युक्तः सानूपः पर्वताश्रयः ।
शूद्रकारुवणिक्प्रायो महारम्भकृषीवलः ॥५२॥

सानुरागो रिपुद्वेषी पीडाकरसहः पृथुः ।
नानादेश्यैः समाकीर्णो धार्मिकः पशुमान् धनी ॥५३॥

ईदृग्जनपदः शस्तो ऽमूर्खव्यसनिनायकः ।
तं वर्धयेत् प्रयत्नेन तस्मात् सर्वं प्रवर्धते ॥५४॥

पृथुसीममहाखातम् उच्चप्राकारगोपुरम् ।
समावसेत् पुरं शैलं सरिन्मरुवनाश्रयम् ॥५५॥

जलवद् धान्यधनवद् दुर्गं कालसहं महत् ।
दुर्गहीनो नरपतिर् वाताभ्रावयवैः समः ॥५६॥

औदकं पार्वतं वार्क्षम् ऐरिणं धान्वनं तथा ।
शस्तं प्रशस्तमतिभिर् दुर्गं दुर्गोपचिन्तकैः ॥५७॥

जलान्नायुधयन्त्राढ्यं धीरयोधैर् अधिष्ठितम् ।
गुप्तिप्रधानम् आचार्या दुर्गं समनुमेनिरे ॥५८॥

सापसाराणि दुर्गाणि भुवः सानूपजाङ्गलाः ।
निवासाय प्रशस्यन्ते भूभुजां भूतिम् इच्छताम् ॥५९॥

बह्वादानो ऽल्पनिःस्रावः ख्यातः पूजितदैवतः ।
ईप्सितद्रव्यसम्पन्नो हृद्यः स्वाप्तैर् अधिष्ठितः। ॥६०॥

मुक्ताकनकरत्नाढ्यः पितृपैतामहोचितः ।
धर्मार्जितो व्ययसहः कोशः कोशज्ञसम्मतः ॥६१॥

धर्महेतोस् तथार्थाय भृत्यानां भरणाय च ।
आपदर्थं च संरक्ष्यः कोशः कोशवता सदा ॥६२॥

पितृपैतामहो वश्यः संहतो दत्तवेतनः ।
विख्यातपौरुषो जन्यः कुशलः कुशलैर् वृतः ॥६३॥

नानाप्रहरणोपेतो नानायुद्धविशारदः ।
नानायोधसमाकार्णो नीराजितहयद्विपः ॥६४॥

प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः ।
अद्वैध्यः क्षत्रियप्रायो दण्डो दण्डविदां मतः ॥६५॥
त्यागविज्ञानसत्त्वाढ्यं महापक्षं प्रियंवदम् ।
आयतिक्षमम् अद्वैध्यं मित्रं कुर्वीत सत्कुलम् ॥६६॥

समुत्पन्नेषु कृच्छ्रेषु दारुणेष्व् अप्य् असंशयम् ।
पितृपैतामहं नित्यम् अद्वैध्यं हृदयानुगम् ।
महल्लघुसमुत्थानं मित्रं कार्यार्थम् इष्यते ॥६८॥

दूराद् एवाभिगमनं स्पष्टार्था हृदयानुगा ।
वाक्सत्कृत्य प्रदानं च त्रिविधो मित्रसङ्ग्रहः ॥६९॥

धर्मकामार्थसंयोगो मित्रात् तु त्रिविधं फलम् ।
यस्माद् एतत् त्रयं नास्ति तत् सेवेत न पण्डितः ॥७०॥

आदौ तन्व्यो बृहन्मध्या विस्तारिण्यः पदे पदे ।
यायिन्यो न निवर्तिन्यः सतां मैत्र्यः सरित्समाः ॥७१॥

औरसं मैत्रसम्बद्धं तथा वंशक्रमागतम् ।
रक्षितं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्विधम् ॥७२॥

शुचिता त्यागिता शौर्यं समानसुखदुःखता ।
अनुरागश् च दाक्ष्यं च सत्यता च सुहृद्गुणाः ॥७३॥

तदर्थेहानुरागश् च सङ्क्षिप्तं मित्रलक्षणम् ।
यस्मिन् नैतन् न तन् मित्रं तत्रात्मानं न निक्षिपेत् ॥७४॥

इति स्म राज्यं सकलं समीरितं
परा प्रतिष्ठास्य धनं ससाधनम् ।
गृहीतम् एतन् निपुणेन मन्त्रिणा
त्रिवर्गनिष्पत्तिम् उपैति शाश्वतीम् ॥७५॥

यथान्तरात्मा प्रकृतीर् अधिष्ठितश्
चराचरं विश्वम् इदं समश्नुते ।
तथा नरेन्द्रः प्रकृतीर् अधिष्ठितश्
चराचरं विश्वम् इदं समश्नुते ॥७६॥

प्रकृतिभिर् इति सम्यगन्वितो
जनपदमादरवांस्तु पालयेत् ।
जनपदपरिपालनाच् चिरं
व्रजति नृपः परमं श्रियः पदम् ॥७७॥

प्रकृतिगुणसमन्वितः सुधीर्
व्रजति नृपः स्पृहणीयतां पराम् ।
स च भवति रणेषु विद्विषां
श्वसन इव प्रबलः पयोमुचाम् ॥७८॥